तेनासौ मोचितो वाजी चंदनादिकचर्चितः । तं पालयति धर्मात्मा शत्रुघ्नः परवीरहा
ये च शूरा वयं वीरा धनुर्हस्ता इमे वयम् । ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम्
तं च मोक्ष्यति शत्रुघ्नः सर्ववीरशिरोमणिः । अन्यथा पादयोस्तस्य प्रणतिं यांतु धन्विनः
इत्यभिप्रायमालोक्य जगाद नृपनंदनः । राम एव धनुर्धारी न वयं क्षत्त्रियाः स्मृताः
ताते मेऽवस्थिते पृथ्व्यां कोऽयं गर्वो महान्भुवि । प्राप्नोतु गर्वस्य फलं मम निर्मुक्तसायकैः
अद्य मे निशिता बाणाः शत्रुघ्नं किंशुकं यथा । पुष्पितं विदधत्वद्धा क्षतावृतशरीरकम्
दारयंतु कपोलांश्च सायका मम दंतिनाम् । अश्वान्पश्यंतु शतशो रुधिरौघपरिप्लुतान्
पिबंतु योगिनीसंघा रुधिराणि नृमस्तकैः । शिवा भवंतु संतुष्टा मद्वैरिक्रव्यभक्षणैः
पश्यंतु सुभटास्तस्य मम बाहुबलं महत् । कोदंडदंडनिर्मुक्ताः शरकोटीर्विमुंचतः
इत्थमुक्त्वा महीपस्य तनुजो दमनाभिधः । स्वपुरं प्रेषयित्वा तं प्रहृष्टोऽभवदुद्भटः
सेनापतिमुवाचेदं सज्जीकुरु महामते । सेनां परिमितां मह्यं वैरिवृंदनिवारणे
सज्जां सेनां विधायाशु संमुखो रणमंडले । स्थितवान्या वदत्युग्रस्तावत्प्राप्ता हयानुगाः
क्वासौ हयो महाराज्ञो भालपत्रेण चिह्नितः । पप्रच्छुस्ते तु चान्योन्यमतिव्याकुलिता मुहुः
तावद्ददर्श पुरतः प्रतापाग्र्यः परंतपः । सज्जीभूतं तु कटकं वीरशब्दनिनादितम्
तत्रावदञ्जनाः केचिन्नीतोऽश्वोऽनेन भूपते । अन्यथा संमुखस्तिष्ठेत्कथं वीरो बलानुगः
इत्याकर्ण्य प्रतापाग्र्यः प्रेषयामास सेवकम् । स गत्वा तत्र पप्रच्छ कुत्राश्वो रामभूपतेः
केन नीतः कुतो नीतो रामं जानाति नो कुधीः । यं शक्रप्रमुखा देवा बलिमादाय सन्नताः
तस्य वै धर्मराजस्य कुपितं तु बलं महत् । सर्वथा हि ग्रसिष्येत प्रणतिं चेन्न यास्यति
इत्थमुक्तं समाकर्ण्य तदा राजसुतो बली । तं वै धिक्कारयामास वाग्जालेन सुदुर्मनाः
मयानीतो यज्ञहयः पत्रचिह्नाद्यलंकृतः । ये शूरास्ते तु मां जित्वा मोचयंतु बलादिह
सेवकस्तद्वचः श्रुत्वा रोषपूर्णो हसन्ययौ । राज्ञे निवेदयामास यथावदुपवर्णितम्
तच्छ्रुत्वा रोषताम्राक्षः प्रतापाग्र्यो महाबलः । ययौ योद्धुं राजपुत्रं महावीरपुरस्कृतम्
रथेन कनकांगेन चतुर्वाजिसुशोभिना । सुकूबरेण सर्वास्त्रपूरितेन ययौ बली
धनुष्टंकारयामास महाबलसमन्वितः । पुनःपुनर्जहासोच्चैः कोपादुद्गमिताश्रुकः
अश्ववाहा गजारूढाः खड्गोल्लसितपाणयः । अन्वयुस्ते प्रतापाग्र्यं रोषपूर्णाकुलेक्षणम्
हस्तिनः पत्तयश्चैव कोटिशः प्रधनोद्यताः । चिरकालमभीप्संतो रणं वीरेणकारितम्
तदोद्यतं समाज्ञाय रिपुसैन्यं नृपात्मजः । प्रत्युज्जगाम वीराग्र्यो महाबलपरीवृतः
सन्नद्धः कवची खड्गी शरासनधरो युवा । लीलयैव ययौ योद्धुं मृगराड्गजतामिव
तदा योधाः प्रकुपिताः परस्परवधैषिणः । छिंधि भिंधीति भाषंतो रणकार्यविशारदाः
पत्तयः पत्तिसंघेन गजारूढाश्च सादिभिः । रथारूढा रथस्थैश्च वाहारूढाश्वसंस्थितैः