स्तुत्वा नत्वा च देवेशं सुरासुरनमस्कृतम् । जातं कृतार्थमात्मानममन्यत स शत्रुहा
शेष उवाच। क्षणं स्थित्वा तृणान्यत्त्वा ययौ वाजी मनोजवः । वीरश्रेणीवृतः पत्रं भाले धृत्वा सचामरः
शत्रुघ्नेन सुवीरेण लक्ष्मीनिधि नृपेण च । पुष्कलेनोग्रवाहेन प्रतापाग्र्येण रक्षितः
ययौ पुरीं स चक्रांकां सुबाहुपरिरक्षिताम् । अनेकवीरकोटीभी रक्षितोऽनुगतः प्रभो
तदा पुत्रोस्य दमनो मृगयामास्थितो महान् । ददर्शाश्वं भालपत्रं चंदनादिकचर्चितम्
विलोक्य सेवकं प्राह कस्याश्वो मेऽक्षिगोचरः । भाले पत्रं धृतं किं नु चामरं किंतु शोभनम्
इति राज्ञोवचः श्रुत्वा सेवकः प्रययौ ततः । यत्रासौ वर्तते वाजी भालपत्रः सुशोभनः
गृहीत्वा तं केशसंघे रत्नमालाविभूषितम् । निनाय चाग्रे भूपस्य सुबाहुकुलधारिणः
स पत्रं वाचयामास सुंदराक्षरशोभितम् । अयोध्याधिपतिश्चासीद्राजा दशरथो बली
तस्यात्मजो रामभद्रः सर्वशूरशिरोमणिः । नान्योस्ति तत्समः पृथ्व्यां धनुर्धरणविक्रमः
तेनासौ मोचितो वाजी चंदनादिकचर्चितः । तं पालयति धर्मात्मा शत्रुघ्नः परवीरहा
ये च शूरा वयं वीरा धनुर्हस्ता इमे वयम् । ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम्
तं च मोक्ष्यति शत्रुघ्नः सर्ववीरशिरोमणिः । अन्यथा पादयोस्तस्य प्रणतिं यांतु धन्विनः
इत्यभिप्रायमालोक्य जगाद नृपनंदनः । राम एव धनुर्धारी न वयं क्षत्त्रियाः स्मृताः
ताते मेऽवस्थिते पृथ्व्यां कोऽयं गर्वो महान्भुवि । प्राप्नोतु गर्वस्य फलं मम निर्मुक्तसायकैः
अद्य मे निशिता बाणाः शत्रुघ्नं किंशुकं यथा । पुष्पितं विदधत्वद्धा क्षतावृतशरीरकम्
दारयंतु कपोलांश्च सायका मम दंतिनाम् । अश्वान्पश्यंतु शतशो रुधिरौघपरिप्लुतान्
पिबंतु योगिनीसंघा रुधिराणि नृमस्तकैः । शिवा भवंतु संतुष्टा मद्वैरिक्रव्यभक्षणैः
पश्यंतु सुभटास्तस्य मम बाहुबलं महत् । कोदंडदंडनिर्मुक्ताः शरकोटीर्विमुंचतः
इत्थमुक्त्वा महीपस्य तनुजो दमनाभिधः । स्वपुरं प्रेषयित्वा तं प्रहृष्टोऽभवदुद्भटः
सेनापतिमुवाचेदं सज्जीकुरु महामते । सेनां परिमितां मह्यं वैरिवृंदनिवारणे
सज्जां सेनां विधायाशु संमुखो रणमंडले । स्थितवान्या वदत्युग्रस्तावत्प्राप्ता हयानुगाः
क्वासौ हयो महाराज्ञो भालपत्रेण चिह्नितः । पप्रच्छुस्ते तु चान्योन्यमतिव्याकुलिता मुहुः
तावद्ददर्श पुरतः प्रतापाग्र्यः परंतपः । सज्जीभूतं तु कटकं वीरशब्दनिनादितम्
तत्रावदञ्जनाः केचिन्नीतोऽश्वोऽनेन भूपते । अन्यथा संमुखस्तिष्ठेत्कथं वीरो बलानुगः
इत्याकर्ण्य प्रतापाग्र्यः प्रेषयामास सेवकम् । स गत्वा तत्र पप्रच्छ कुत्राश्वो रामभूपतेः
केन नीतः कुतो नीतो रामं जानाति नो कुधीः । यं शक्रप्रमुखा देवा बलिमादाय सन्नताः
तस्य वै धर्मराजस्य कुपितं तु बलं महत् । सर्वथा हि ग्रसिष्येत प्रणतिं चेन्न यास्यति
इत्थमुक्तं समाकर्ण्य तदा राजसुतो बली । तं वै धिक्कारयामास वाग्जालेन सुदुर्मनाः
मयानीतो यज्ञहयः पत्रचिह्नाद्यलंकृतः । ये शूरास्ते तु मां जित्वा मोचयंतु बलादिह