त्वया मात्स्यं वपुर्धृत्वा शंखस्तु निहतोसुरः । वेदाः सुरक्षिता ब्रह्मन्महापुरुषपूर्वज
शेषो न वेत्ति महि ते भारत्यपि महेश्वरी । किमुतान्ये महाविष्णो मादृशास्तु कुबुद्धयः
मनसा त्वां न चाप्नोति वागियं परमेश्वरी । तस्मादहं कथं त्वां वै स्तोतुं स्यामीश्वरः प्रभो
इति स्तुत्वा स शिरसा प्रणाममकरोन्मुहुः । गद्गदस्वरसंयुक्तो रोमहर्षांकितांगकः
इति स्तुत्या प्रहृष्टात्मा भगवान्पुरुषोत्तमः । उवाच वचनं सत्यं राजानं प्रति सार्थकम्
श्रीभगवानुवाच। तव स्तुत्या प्रहर्षोऽभून्मम राजन्महामते । जानीहि त्वं महाराज मां च प्रकृतितः परम्
नैवेद्यभक्षणं त्वं हि शीघ्रं कुरु मनोहरम् । चतुर्भुजत्वमाप्तः सन्गंतासि परमं पदम्
त्वत्कृत्स्तुतिरत्नेन यो मां स्तोष्यति मानवः । तस्यापि दर्शनं दास्ये भुक्तिमुक्तिवरप्रदम्
इत्येवं वचनं राजा श्रुत्वा भगवतोदितम् । नैवेद्यभक्षणं चक्रे चतुर्भिः सह सेवकैः
ततो विमानं संप्राप्तं किंकिणीजालमंडितम् । अप्सरोवृंदसंसेव्यं सर्वभोगसमन्वितम्
पुरुषोत्तमसंज्ञं च पश्यन्राजा स धार्मिकः । ववंदे चरणौ तस्य कृपापात्रकृतात्मकः
तदाज्ञया विमाने स आरुह्य महिलायुतः । जगाम पश्यतस्तस्य दिवि वैकुंठमद्भुतम्
मंत्री धर्मपरो राज्ञः सर्वधर्मविदुत्तमः । ययौ साकं विमानेन ललनावृन्दसेवितः
तापसब्राह्मणस्तत्र सर्वतीर्थावगाहकः । चतुर्भुजत्वं संप्राप्तो ययौ देवैर्विमानिभिः
करंबोऽपि महाराज गानपुण्येन दर्शनम् । प्राप्तो ययौ सुरावासं सर्वदेवादिदुर्ल्लभम्
सर्वे प्रचलिता विष्णुलोकं परममद्भुतम् । चतुर्भुजाः शंखचक्रगदापाथोजधारिणः
सर्वे मेघश्रियः शुद्धा लसदंभोजपाणयः । हारकेयूरकटकैर्भूषितांगा ययुर्दिवम्
तद्विमानावलीर्दृष्ट्वा लोकैः प्रकृतिभिस्तदा । दुंदुभीनां तु निर्घोषस्तैः कृतः कर्णगोचरः
तदैको ब्राह्मणो ह्यासीद्विष्णुपादाब्जवल्लभः । गतस्तद्विरहाकृष्टचेता जातश्चतुर्भुजः
तच्चित्रं वीक्ष्य लोकास्ते प्रशंसंतो महोदयम् । गंगासागरसंयोगे स्नात्वाऽगुस्तं पुरं प्रति
अहो भाग्यं भूमिपते रत्नग्रीवस्य सन्मतेः । जगामानेन देहेन तद्विष्णोः परमं पदम्
राजन्नसौ नीलगिरिः पुरुषोत्तमसत्कृतः । यं वीक्ष्यैव व्रजंत्यद्धा वैकुंठं परमायनम्
एतन्नीलस्य माहात्म्यं यः शृणोति स भाग्यवान् । यः श्रावयति लोकान्वै तौ गच्छेतां परं पदम्
एतच्छ्रुत्वा तु दुःस्वप्नो नश्यति स्मृतिमात्रतः । प्रांते संसारनिस्तारं ददाति पुरुषोत्तमः
योऽसौ नीलाधिवासी च स रामः पुरुषोत्तमः । सीतासाक्षान्महालक्ष्मीः सर्वकारणकारणम्
हयमेधं चरित्वा स लोकान्वै पावयिष्यति । यन्नामब्रह्महत्यायाः प्रायश्चित्ते प्रदिश्यते
इदानीं त्वद्धयः प्राप्तो नीलेपर्वतसत्तमे । पुरुषोत्तमदेवं त्वं नमस्कुरु महामते
तत्र निष्पापिनो भूत्वा यास्यामः परमं पदम् । यस्य प्रसादाद्बहवो निस्तीर्णा भवसागरात्
एवं प्रवदतस्तस्य प्राप्तोऽश्वो नीलपर्वतम् । वायुवेगेन पृथिवीं कुर्वन्संक्षुण्णमंडलाम्
तदा राजापि तत्पृष्ठचारी नीलाभिधं गिरिम् । प्राप्तो गंगाब्धिसंयोगे स्नात्वागात्पुरुषोत्तमम्