राज्ञोऽक्षिगोचरो जातो नीलनामा महागिरिः । राजतैः कानकैः शृंगैः समंतात्परिराजितः
किमग्निः प्रज्वलत्येष द्वितीयः किमु भास्करः । किमयं वैद्युतः पुंजो ह्यकस्मात्स्थिरकांतिधृक्
तापस ब्राह्मणो दृष्ट्वा नीलप्रस्थं सुशोभितम् । राज्ञे निवेदयामास एष पुण्यो महागिरिः
तच्छ्रुत्वा नृपतिश्रेष्ठः शिरसा प्रणनाम ह । धन्योऽस्मि कृतकृत्योऽस्मि नीलो मे दृष्टिगोचरः
अमात्यो राजपत्नी च करम्बस्तंतुवायकः । नीलदर्शनसंहृष्टा बभूवुः पुरुषर्षभ
पंचैते विजये काले नीलपर्वतमारुहन् । महादुंदुभिनिर्घोषाञ्च्छृण्वन्तो ह्यमरैः कृतान्
तस्योपरितने शृंगे चित्रपादपराजिते । ददर्श हाटकाबद्धं देवालयमनुत्तमम्
ब्रह्मागत्य सदा पूजां करोति परमेष्ठिनः । नैवेद्यं कुरुते यत्र हरिसंतोषकारकम्
दृष्ट्वाथ तत्र विमलं देवायतनमुत्तमम् । प्रविवेश परीवारैः पंचभिः सह संवृतः
तत्र दृष्ट्वा जातरूपे महामणिविचित्रिते । सिंहासने विराजंतं चतुर्भुजमनोहरम्
चंड प्रचंड विजय जयादिभिरुपासितम् । प्रणनाम सपत्नीको राजा सेवकसंयुतः
प्रणम्य परमात्मानं महाराजः सुरोत्तमम् । स्नापयामास विधिवद्वेदोक्तैः स्नानमंत्रकैः
अर्घ्यपाद्यादिकं चक्रे प्रीतेन मनसा नृपः । चंदनेन विलिप्यैनं सुवस्त्रे विनिवेद्य च
धूपमारार्तिकं कृत्वा सर्वस्वादुमनोहरम् । नैवेद्यं भगवन्मूर्त्यै न्यवेदयदथो नृपः
प्रणम्य च स्तुतिं चक्रे तापसब्राह्मणेन च । यथामतिगुणग्रामगुंफितस्तोत्रसंचयैः
राजोवाच। एकस्त्वं पुरुषः साक्षाद्भगवान्प्रकृतेः परः । कार्यकारणतो भिन्नो महत्तत्त्वादिपूजितः
त्वन्नाभिकमलाज्जज्ञे ब्रह्मा सृष्टिविचक्षणः । तथा संहारकर्ता च रुद्रस्त्वन्नेत्रसंभवः
त्वयाज्ञप्तः करोत्यस्य विश्वस्य परिचेष्टितम् । त्वत्तो जातं पुराणाद्यज्जगत्स्थास्नु चरिष्णु च
चेतनाशक्तिमाविश्य त्वमेनं चेतयस्यहो । तव जन्म तु नास्त्येव नांतस्तव जगत्पते । वृद्धिक्षयपरीणामास्त्वयि संत्येव नो विभो
तथापि भक्तरक्षार्थं धर्मस्थापनहेतवे । करोषि जन्मकर्माणि ह्यनुरूपगुणानि च
त्वया मात्स्यं वपुर्धृत्वा शंखस्तु निहतोसुरः । वेदाः सुरक्षिता ब्रह्मन्महापुरुषपूर्वज
शेषो न वेत्ति महि ते भारत्यपि महेश्वरी । किमुतान्ये महाविष्णो मादृशास्तु कुबुद्धयः
मनसा त्वां न चाप्नोति वागियं परमेश्वरी । तस्मादहं कथं त्वां वै स्तोतुं स्यामीश्वरः प्रभो
इति स्तुत्वा स शिरसा प्रणाममकरोन्मुहुः । गद्गदस्वरसंयुक्तो रोमहर्षांकितांगकः
इति स्तुत्या प्रहृष्टात्मा भगवान्पुरुषोत्तमः । उवाच वचनं सत्यं राजानं प्रति सार्थकम्
श्रीभगवानुवाच। तव स्तुत्या प्रहर्षोऽभून्मम राजन्महामते । जानीहि त्वं महाराज मां च प्रकृतितः परम्
नैवेद्यभक्षणं त्वं हि शीघ्रं कुरु मनोहरम् । चतुर्भुजत्वमाप्तः सन्गंतासि परमं पदम्
त्वत्कृत्स्तुतिरत्नेन यो मां स्तोष्यति मानवः । तस्यापि दर्शनं दास्ये भुक्तिमुक्तिवरप्रदम्
इत्येवं वचनं राजा श्रुत्वा भगवतोदितम् । नैवेद्यभक्षणं चक्रे चतुर्भिः सह सेवकैः
ततो विमानं संप्राप्तं किंकिणीजालमंडितम् । अप्सरोवृंदसंसेव्यं सर्वभोगसमन्वितम्