नृत्यंतं पुरुषोत्तमस्य पुरतः शर्वादि देवैः सह । श्रीमद्भिः स्वतनूयुतैररिगदांबूत्थाब्जहेत्यादिभिः । विष्वक्सेनवरैर्गणैः सुतनुभिः श्रीशंसदोपासितं । दृष्ट्वा विस्मयमाप लोकविषयं हर्षं तथात्यद्भुतम्
ददतं मनसोऽभीष्टं पुरुषोत्तमसंज्ञितम् । आत्मानं च कृपापात्रममन्यत महामतिः
इत्येवं स्वप्नविषये ददर्श नृपसत्तमः । प्रातः प्रबुद्धो विप्राय जगाद स्वप्नमीक्षितम्
तच्छ्रुत्वा वाडवो धीमान्कथयामास विस्मितः । राजंस्त्वयासौ दृष्टो यः पुरुषोत्तमसंज्ञितः
दास्यते शंखचक्रादिचिह्नितां स्वतनुं हरिः । इति श्रुत्वा तु तद्वाक्यं रत्नग्रीवो महामनाः
दापयामास दानानि दीनानां मानसोचितम् । स्नात्वा गंगाब्धिसंयोगे तर्पयित्वा पितॄन्सुरान्
गायन्हरिगुणग्रामं प्रत्यैक्षत च दर्शनम् । ततो मध्याह्नसमये दिविदुंदुभयो मुहुः
जघ्नुः सुरकराघात बहुशब्दसुशब्दिताः । अकस्मात्पुष्पवृष्टिश्च बभूव नृपमस्तके
धन्योसि नृपवर्यस्त्वं नीलं पश्याक्षिगोचरम्
शृणोतीति यदा वाक्यं नृपो देवप्रणोदितम् । तदा स सूर्यकोटीनामधिकांति धरोद्भुतः
राज्ञोऽक्षिगोचरो जातो नीलनामा महागिरिः । राजतैः कानकैः शृंगैः समंतात्परिराजितः
किमग्निः प्रज्वलत्येष द्वितीयः किमु भास्करः । किमयं वैद्युतः पुंजो ह्यकस्मात्स्थिरकांतिधृक्
तापस ब्राह्मणो दृष्ट्वा नीलप्रस्थं सुशोभितम् । राज्ञे निवेदयामास एष पुण्यो महागिरिः
तच्छ्रुत्वा नृपतिश्रेष्ठः शिरसा प्रणनाम ह । धन्योऽस्मि कृतकृत्योऽस्मि नीलो मे दृष्टिगोचरः
अमात्यो राजपत्नी च करम्बस्तंतुवायकः । नीलदर्शनसंहृष्टा बभूवुः पुरुषर्षभ
पंचैते विजये काले नीलपर्वतमारुहन् । महादुंदुभिनिर्घोषाञ्च्छृण्वन्तो ह्यमरैः कृतान्
तस्योपरितने शृंगे चित्रपादपराजिते । ददर्श हाटकाबद्धं देवालयमनुत्तमम्
ब्रह्मागत्य सदा पूजां करोति परमेष्ठिनः । नैवेद्यं कुरुते यत्र हरिसंतोषकारकम्
दृष्ट्वाथ तत्र विमलं देवायतनमुत्तमम् । प्रविवेश परीवारैः पंचभिः सह संवृतः
तत्र दृष्ट्वा जातरूपे महामणिविचित्रिते । सिंहासने विराजंतं चतुर्भुजमनोहरम्
चंड प्रचंड विजय जयादिभिरुपासितम् । प्रणनाम सपत्नीको राजा सेवकसंयुतः
प्रणम्य परमात्मानं महाराजः सुरोत्तमम् । स्नापयामास विधिवद्वेदोक्तैः स्नानमंत्रकैः
अर्घ्यपाद्यादिकं चक्रे प्रीतेन मनसा नृपः । चंदनेन विलिप्यैनं सुवस्त्रे विनिवेद्य च
धूपमारार्तिकं कृत्वा सर्वस्वादुमनोहरम् । नैवेद्यं भगवन्मूर्त्यै न्यवेदयदथो नृपः
प्रणम्य च स्तुतिं चक्रे तापसब्राह्मणेन च । यथामतिगुणग्रामगुंफितस्तोत्रसंचयैः
राजोवाच। एकस्त्वं पुरुषः साक्षाद्भगवान्प्रकृतेः परः । कार्यकारणतो भिन्नो महत्तत्त्वादिपूजितः
त्वन्नाभिकमलाज्जज्ञे ब्रह्मा सृष्टिविचक्षणः । तथा संहारकर्ता च रुद्रस्त्वन्नेत्रसंभवः
त्वयाज्ञप्तः करोत्यस्य विश्वस्य परिचेष्टितम् । त्वत्तो जातं पुराणाद्यज्जगत्स्थास्नु चरिष्णु च
चेतनाशक्तिमाविश्य त्वमेनं चेतयस्यहो । तव जन्म तु नास्त्येव नांतस्तव जगत्पते । वृद्धिक्षयपरीणामास्त्वयि संत्येव नो विभो
तथापि भक्तरक्षार्थं धर्मस्थापनहेतवे । करोषि जन्मकर्माणि ह्यनुरूपगुणानि च