एतैः पंचभिरेतस्मिन्नीले पर्वतसत्तमे । यास्यसे ब्रह्मदेवेंद्र वंदितं सुरपूजितम्
इत्युक्त्वाऽदृश्यतां प्राप्तो यतिः क्वापि न दृश्यते । तदाकर्ण्य नृपो हर्षं प्राप चाशु सविस्मयम्
राजोवाच। स्वामिन्कोऽसौ समागत्य संन्यासी मां यदूचिवान् । न दृश्यते पुनः कुत्र गतोऽसौ चित्तहर्षदः
तापस उवाच। राजंस्तव महाप्रेम्णा कृष्टचित्तः समभ्यगात् । पुरुषोत्तमनामायं सर्वपापप्रणाशनः
श्वोमध्याह्ने तव पुरो भविष्यति महान्गिरिः । तमारुह्य हरिं दृष्ट्वा कृतार्थस्त्वं भविष्यसि
इतिवाक्यसुधापूर नाशितस्वांत संज्वरः । हर्षं यमाप स नृपो ब्रह्मापि न हि वेत्ति तम्
तदा दुंदुभयो नेदुर्वीणापणवगोमुखाः । महानंदस्तदा ह्यासीद्राजराजस्य चेतसि
गायन्हरिं क्षणं तिष्ठन्हसञ्जल्पन्ब्रुवन्नमन् । आनंदं प्राप सुघनं सर्वसंतापनाशनम्
सुमतिरुवाच। अथ सर्वं दिनं नीत्वा हरिस्मरणकीर्तनैः । रात्रौ सुष्वाप गंगाया रोधस्युरुफलप्रदे
ददर्श स्वप्नमध्ये तु स स्वात्मानं चतुर्भुजम् । शंखचक्रगदापद्मशार्ङ्गकोदंडधारिणम्
नृत्यंतं पुरुषोत्तमस्य पुरतः शर्वादि देवैः सह । श्रीमद्भिः स्वतनूयुतैररिगदांबूत्थाब्जहेत्यादिभिः । विष्वक्सेनवरैर्गणैः सुतनुभिः श्रीशंसदोपासितं । दृष्ट्वा विस्मयमाप लोकविषयं हर्षं तथात्यद्भुतम्
ददतं मनसोऽभीष्टं पुरुषोत्तमसंज्ञितम् । आत्मानं च कृपापात्रममन्यत महामतिः
इत्येवं स्वप्नविषये ददर्श नृपसत्तमः । प्रातः प्रबुद्धो विप्राय जगाद स्वप्नमीक्षितम्
तच्छ्रुत्वा वाडवो धीमान्कथयामास विस्मितः । राजंस्त्वयासौ दृष्टो यः पुरुषोत्तमसंज्ञितः
दास्यते शंखचक्रादिचिह्नितां स्वतनुं हरिः । इति श्रुत्वा तु तद्वाक्यं रत्नग्रीवो महामनाः
दापयामास दानानि दीनानां मानसोचितम् । स्नात्वा गंगाब्धिसंयोगे तर्पयित्वा पितॄन्सुरान्
गायन्हरिगुणग्रामं प्रत्यैक्षत च दर्शनम् । ततो मध्याह्नसमये दिविदुंदुभयो मुहुः
जघ्नुः सुरकराघात बहुशब्दसुशब्दिताः । अकस्मात्पुष्पवृष्टिश्च बभूव नृपमस्तके
धन्योसि नृपवर्यस्त्वं नीलं पश्याक्षिगोचरम्
शृणोतीति यदा वाक्यं नृपो देवप्रणोदितम् । तदा स सूर्यकोटीनामधिकांति धरोद्भुतः
राज्ञोऽक्षिगोचरो जातो नीलनामा महागिरिः । राजतैः कानकैः शृंगैः समंतात्परिराजितः
किमग्निः प्रज्वलत्येष द्वितीयः किमु भास्करः । किमयं वैद्युतः पुंजो ह्यकस्मात्स्थिरकांतिधृक्
तापस ब्राह्मणो दृष्ट्वा नीलप्रस्थं सुशोभितम् । राज्ञे निवेदयामास एष पुण्यो महागिरिः
तच्छ्रुत्वा नृपतिश्रेष्ठः शिरसा प्रणनाम ह । धन्योऽस्मि कृतकृत्योऽस्मि नीलो मे दृष्टिगोचरः
अमात्यो राजपत्नी च करम्बस्तंतुवायकः । नीलदर्शनसंहृष्टा बभूवुः पुरुषर्षभ
पंचैते विजये काले नीलपर्वतमारुहन् । महादुंदुभिनिर्घोषाञ्च्छृण्वन्तो ह्यमरैः कृतान्
तस्योपरितने शृंगे चित्रपादपराजिते । ददर्श हाटकाबद्धं देवालयमनुत्तमम्
ब्रह्मागत्य सदा पूजां करोति परमेष्ठिनः । नैवेद्यं कुरुते यत्र हरिसंतोषकारकम्
दृष्ट्वाथ तत्र विमलं देवायतनमुत्तमम् । प्रविवेश परीवारैः पंचभिः सह संवृतः
तत्र दृष्ट्वा जातरूपे महामणिविचित्रिते । सिंहासने विराजंतं चतुर्भुजमनोहरम्