एवं राज्ञः पंचदिनं गतं गंगाब्धिसंगमे । तदा कृपाब्धिः कृपया चिंतयामास गोपतिः
असौ राजा मदीयेन गानेन विगताघकः । पश्य तान्मामकीं प्रेष्ठां सुरासुरनमस्कृताम्
इति संचिंत्य भगवान्कृपापूरितमानसः । संन्यासिवेषमास्थाय ययौ राज्ञोंऽतिकं विभुः
तत्र गत्वा महाराज त्रिदंडियतिवेषधृक् । भक्तानुकंपया प्राप्तो वीक्षितस्तापसेन हि
ॐनमो विष्णवेत्युक्त्वा नमश्चक्रे नृपोत्तमः । अर्घ्यपाद्यासनैः पूजां चकार हरिमानसः
उवाच भाग्यमतुलं यद्भवानक्षिगोचरः । अतः परं दास्यते मे गोविंदो निजदर्शनम्
इति श्रुत्वा तु तद्वाक्यं संन्यासी निजगाद तम् । राजञ्छृणुष्व कथितं मम वाक्यविनिःसृतम्
अहं ज्ञानेन जानामि भूतं भव्यं भवच्च यत् । तस्मादहं ब्रुवे किंचिच्छृणुष्वैकाग्रमानसः
श्वो मध्याह्ने हरिर्दाता दर्शनं ब्रह्मदुर्ल्लभम् । पंचभिः स्वजनैः साकं यास्यसे परमं पदम्
त्वममात्यश्च महिला तव तापस वाडवः । पुरे तव करंबाख्यः साधुश्च तं तु वायकः
एतैः पंचभिरेतस्मिन्नीले पर्वतसत्तमे । यास्यसे ब्रह्मदेवेंद्र वंदितं सुरपूजितम्
इत्युक्त्वाऽदृश्यतां प्राप्तो यतिः क्वापि न दृश्यते । तदाकर्ण्य नृपो हर्षं प्राप चाशु सविस्मयम्
राजोवाच। स्वामिन्कोऽसौ समागत्य संन्यासी मां यदूचिवान् । न दृश्यते पुनः कुत्र गतोऽसौ चित्तहर्षदः
तापस उवाच। राजंस्तव महाप्रेम्णा कृष्टचित्तः समभ्यगात् । पुरुषोत्तमनामायं सर्वपापप्रणाशनः
श्वोमध्याह्ने तव पुरो भविष्यति महान्गिरिः । तमारुह्य हरिं दृष्ट्वा कृतार्थस्त्वं भविष्यसि
इतिवाक्यसुधापूर नाशितस्वांत संज्वरः । हर्षं यमाप स नृपो ब्रह्मापि न हि वेत्ति तम्
तदा दुंदुभयो नेदुर्वीणापणवगोमुखाः । महानंदस्तदा ह्यासीद्राजराजस्य चेतसि
गायन्हरिं क्षणं तिष्ठन्हसञ्जल्पन्ब्रुवन्नमन् । आनंदं प्राप सुघनं सर्वसंतापनाशनम्
सुमतिरुवाच। अथ सर्वं दिनं नीत्वा हरिस्मरणकीर्तनैः । रात्रौ सुष्वाप गंगाया रोधस्युरुफलप्रदे
ददर्श स्वप्नमध्ये तु स स्वात्मानं चतुर्भुजम् । शंखचक्रगदापद्मशार्ङ्गकोदंडधारिणम्
नृत्यंतं पुरुषोत्तमस्य पुरतः शर्वादि देवैः सह । श्रीमद्भिः स्वतनूयुतैररिगदांबूत्थाब्जहेत्यादिभिः । विष्वक्सेनवरैर्गणैः सुतनुभिः श्रीशंसदोपासितं । दृष्ट्वा विस्मयमाप लोकविषयं हर्षं तथात्यद्भुतम्
ददतं मनसोऽभीष्टं पुरुषोत्तमसंज्ञितम् । आत्मानं च कृपापात्रममन्यत महामतिः
इत्येवं स्वप्नविषये ददर्श नृपसत्तमः । प्रातः प्रबुद्धो विप्राय जगाद स्वप्नमीक्षितम्
तच्छ्रुत्वा वाडवो धीमान्कथयामास विस्मितः । राजंस्त्वयासौ दृष्टो यः पुरुषोत्तमसंज्ञितः
दास्यते शंखचक्रादिचिह्नितां स्वतनुं हरिः । इति श्रुत्वा तु तद्वाक्यं रत्नग्रीवो महामनाः
दापयामास दानानि दीनानां मानसोचितम् । स्नात्वा गंगाब्धिसंयोगे तर्पयित्वा पितॄन्सुरान्
गायन्हरिगुणग्रामं प्रत्यैक्षत च दर्शनम् । ततो मध्याह्नसमये दिविदुंदुभयो मुहुः
जघ्नुः सुरकराघात बहुशब्दसुशब्दिताः । अकस्मात्पुष्पवृष्टिश्च बभूव नृपमस्तके
धन्योसि नृपवर्यस्त्वं नीलं पश्याक्षिगोचरम्
शृणोतीति यदा वाक्यं नृपो देवप्रणोदितम् । तदा स सूर्यकोटीनामधिकांति धरोद्भुतः