सुमतिरुवाच। एतन्माहात्म्यमतुलं गंडक्याः कर्णगोचरम् । कृत्वा कृतार्थमात्मानममन्यत नृपोत्तमः
स्नात्वा तीर्थे पितॄन्सर्वान्संतर्प्य जहृषे महान् । शालग्रामशिलापूजां कुर्वन्वाडववाक्यतः
चतुर्विंशच्छिलास्तत्र गृहीत्वा स नृपोत्तमः । पूजयामास प्रेम्णा च चंदनाद्युपचारकैः
तत्र दानानि दत्त्वा च दीनांधेभ्यो विशेषतः । गंतुं प्रचक्रमे राजा पुरुषोत्तममंदिरम्
एवं क्रमेण संप्राप्तो गंगासागरसंगमम् । कृत्वाक्षिगोचरं तं च ब्राह्मणं पृष्टवान्मुदा
स्वामिन्वद कियद्दूरे नीलाख्यः पर्वतो महान् । पुरुषोत्तमसंवासः सुरासुरनमस्कृतः
तदा श्रुत्वा महद्वाक्यं रत्नग्रीवस्य भूपतेः । उवाच विस्मयाविष्टो राजानं प्रति सादरम्
राजन्नेतत्स्थलं नीलपर्वतस्य नमस्कृतम् । किमर्थं दृश्यते नैव महापुण्यफलप्रदम्
पुनःपुनरुवाचेदं स्थलं नीलस्य भूभृतः । कथं न दृश्यते राजन्पुरुषोत्तमवासभृत्
अत्र स्नातं मया सम्यगत्र भिल्लाक्षिगोचराः । अनेनैव पथा राजन्नारूढं पर्वतोपरि
इति तद्वाक्यमाकर्ण्य विव्यथे मानसे नृपः । नीलभूधरदर्शाय कुर्वन्नुत्कंठितं मनः
उवाच तत्कथं विप्र दृश्येत पुरुषोत्तमः । कथं वा दृश्यते नीलस्तदुपायं वदस्व नः
तदा वाक्यं समाकर्ण्य रत्नग्रीवस्य भूपतेः । तापसो ब्राह्मणो वाक्यमुवाच नृप विस्मितः
गंगासागरसंयोगे स्नात्वास्माभिर्महीपते । स्थातव्यं तावदेवात्र यावन्नीलो न दृश्यते
गीयते पापहा देवः पुरुषोत्तमसंज्ञितः । करिष्यते कृपामाशु भक्तवत्सलनामधृक्
त्यजत्यसौ न वै भक्तान्देवदेवशिरोमणिः । अनेके रक्षिता भक्तास्तद्गायस्व महामते
इति वाक्यं समाकर्ण्य राजा व्यथितचेतसा । स्नात्वा गंगाब्धिसंयोगे ततोनशनमादधात्
करिष्यति कृपां यर्हि दर्शने पुरुषोत्तमः । पूजां कृत्वाशनं कुर्यामन्यथानशनं व्रतम्
इति कृत्वा स नियमं गंगासागररोधसि । गायन्हरिगुणग्राममुपवासमथाचरत्
राजोवाच। जय दीनदयाकरप्रभो जय दुःखापह मङ्गलाह्वय । जय भक्तजनार्तिनाशन कृतवर्ष्मञ्जयदुष्टघातक
अंबरीषमथ वीक्ष्य दुःखितं विप्रशापहतसर्वमङ्गलम् । धारयन्निजकरे सुदर्शनं संररक्ष जठराधिवासतः
दैत्यराज पितृकारितव्यथः शूलपाशजलवह्निपातनैः । श्रीनृसिंहतनुधारिणा त्वया रक्षितः सपदि पश्यतः पितुः
ग्राहवक्त्रपतितांघ्रिमुद्भटं वारणेंद्रमतिदुःखपीडितम् । वीक्ष्य साधुकरुणार्द्रमानसस्त्वं गरुत्मति कृतारुहक्रियः
त्यक्तपक्षिपतिरात्तचक्रको वेगकंपयुतमालिकांबरः । गीयसे सुभिरमुष्य न क्रतो मोचकः सपदि तद्विनाशकः
यत्रयत्र तव सेवकार्दनं तत्र तत्र बत देहधारिणा । पाल्यते च भवता निजः प्रभो पापहारिचरितैर्मनोहरैः
दीननाथ सुरमौलिहीरकाघृष्टपादतल भक्तवल्लभ । पापकोटिपरिदाहक प्रभो दर्शयस्व निजदर्शनं मम
पापकृद्यदि जनोयमागतो मानसे तव तथा हि दर्शय । तावका वयमघौघनाशनं विस्मृतं नहि सुरासुरार्चित
ये वदंति तव नाम निर्मलं ते तरंति सकलाघसागरम् । संस्मृतिर्यदि कृता तदा मया प्राप्यतां सकलदुःखवारक
सुमतिरुवाच। एवं गायन्गुणान्रात्रौ दिवा वापि महीपतिः । क्षणमात्रं न विश्रांतो निद्रामाप न वै सुखम्
गायन्गच्छन्गृणंस्तिष्ठन्वदत्येतदहर्निशम् । दर्शयस्व कृपानाथ स्वतनुं पुरुषोत्तम