कस्याज्ञाकारका यूयं यदधर्मप्रकारकाः । मुंचंतु वैष्णवं त्वेनं किमर्थं विधृतो ह्ययम्
इति वाक्यं समाकर्ण्य जगदुर्यमकिंकराः । धर्मराजाज्ञया प्राप्ता नेतुं पापिनमुद्यताः
नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः । प्राणिहत्या महापापकारी दुष्टशरीरभृत्
नॄन्बहूंस्तीर्थयात्रायां गच्छतोऽसौ व्यलुंठयत् । परदाररतो नित्यं सर्वपापाधिकारकः
तस्मान्नेतुं वयं प्राप्ताः पापिनं पुल्कसं नरम् । भवद्भिर्मोचितः कस्मादकस्मादागतैर्भटैः
विष्णुदूता ऊचुः। ब्रह्महत्यादिकं पापं प्राणिकोटिवधोद्भवम् । शालग्रामशिलास्पर्शः सर्वं दहति तत्क्षणात्
रामेति नाम यच्छ्रोत्रे विश्रंभादागतं यदि । करोति पापसंदाहं तूलं वह्निकणो यथा
तुलसी मस्तके यस्य शिला हृदि मनोहरा । मुखे कर्णेऽथवा राम नाम मुक्तस्तदैव सः
तस्मादनेन तुलसी मस्तके विधृता पुरा । श्रावितं रामनामाशु शिला हृदि सुधारिता
तस्मात्पापसमूहोऽस्य दग्धः पुण्यकलेवरः । यास्यते परमं स्थानं पापिनां यत्सुदुर्ल्लभम्
वर्षायुतं तत्र भुक्त्वा भोगान्सर्वमनोहरान् । भारते जन्म संप्राप्य समाराध्य जगद्गुरुम्
प्राप्स्यते परमं स्थानं सुरासुरसुदुर्ल्लभम् । न ज्ञातो महिमा सम्यक्छिलायाः परमेष्ठिनः
दृष्टा स्पृष्टार्चिता वापि सर्वपापहरा क्षणात् । इत्युक्त्वा विरताः सर्वे महाविष्णोर्गणा मुदा
याम्यास्ते किंकरा राज्ञे कथयामासुरद्भुतम् । वैष्णवो हर्षमापेदे रघुनाथपरायणः
मुक्तोऽसौ यमपाशाच्च गमिष्यति परं पदम् । तदाजगाम विमलं किंकिणीजालमंडितम्
विमानं देवलोकात्तु मनोहारि महाद्भुतम् । तत्रारुह्य गतः स्वर्गं महापुण्यैर्निषेवितम्
भोगान्भुक्त्वा स विपुलानाजगाम महीतलम् । काश्यां जन्म समासाद्य शुचिवाडवसत्कुले
आराध्य जगतामीशं गतवान्परमं पदम् । स पापी साधुसंगत्या शालग्रामशिलां स्पृशन्
महापीडाविनिर्मुक्तो गतवान्परमं पदम् । मया तेऽभिहितं राजन्गंडकीचरितं महत्
श्रुत्वा विमुच्यते पापैर्भुक्तिं मुक्तिं च विंदति
सुमतिरुवाच। एतन्माहात्म्यमतुलं गंडक्याः कर्णगोचरम् । कृत्वा कृतार्थमात्मानममन्यत नृपोत्तमः
स्नात्वा तीर्थे पितॄन्सर्वान्संतर्प्य जहृषे महान् । शालग्रामशिलापूजां कुर्वन्वाडववाक्यतः
चतुर्विंशच्छिलास्तत्र गृहीत्वा स नृपोत्तमः । पूजयामास प्रेम्णा च चंदनाद्युपचारकैः
तत्र दानानि दत्त्वा च दीनांधेभ्यो विशेषतः । गंतुं प्रचक्रमे राजा पुरुषोत्तममंदिरम्
एवं क्रमेण संप्राप्तो गंगासागरसंगमम् । कृत्वाक्षिगोचरं तं च ब्राह्मणं पृष्टवान्मुदा
स्वामिन्वद कियद्दूरे नीलाख्यः पर्वतो महान् । पुरुषोत्तमसंवासः सुरासुरनमस्कृतः
तदा श्रुत्वा महद्वाक्यं रत्नग्रीवस्य भूपतेः । उवाच विस्मयाविष्टो राजानं प्रति सादरम्
राजन्नेतत्स्थलं नीलपर्वतस्य नमस्कृतम् । किमर्थं दृश्यते नैव महापुण्यफलप्रदम्
पुनःपुनरुवाचेदं स्थलं नीलस्य भूभृतः । कथं न दृश्यते राजन्पुरुषोत्तमवासभृत्
अत्र स्नातं मया सम्यगत्र भिल्लाक्षिगोचराः । अनेनैव पथा राजन्नारूढं पर्वतोपरि