पुल्कसं लोहनिगडैर्बद्ध्वा यातुं समुद्यताः । बन्ध बन्ध ग्रसच्छिन्धि भिन्धि भिन्धीति वादिनः
तदा कृपालुस्तं प्रेक्ष्य पद्मनाभपरायणः । अत्यंतकृपयायुक्तं चेतस्तत्र तदाकरोत्
असौ महादुष्ट पीडां मा यातु मम सन्निधौ । मोचयाम्यहमद्यैव यमदूतेभ्य एव च
इति कृत्वा मतिं तस्मिन्कृपायुक्तो मुनीश्वरः । शालग्रामशिलां हस्ते गृहीत्वास्य गतोंऽतिके
तस्य पादोदकं पुण्यं तुलसीदलमिश्रितम् । मुखे विनिक्षिपन्कर्णे रामनाम जजाप ह
तुलसीं मस्तके तस्य धारयामास वैष्णवः । शिलां हृदि महाविष्णोर्धृत्वा प्राह स वैष्णवः
गच्छंतु यमदूता वै यातनासु परायणाः । शालग्रामशिलास्पर्शो दहतात्पातकं महत्
इत्युक्तवति तस्मिन्वै गणा विष्णोर्महाद्भुताः । आययुस्तस्य सविधे शिलास्पर्शाद्गतांहसः
पीतवस्त्राः शंखचक्रगदापद्मविराजिताः । आगत्य मोचयामासुर्लोहपाशाद्दुरासदात्
मोचयित्वा महापापकारकं पुल्कसं नरम् । ऊचुः किमर्थं बद्धोऽयं वैष्णवः पूज्यदेहभृत्
कस्याज्ञाकारका यूयं यदधर्मप्रकारकाः । मुंचंतु वैष्णवं त्वेनं किमर्थं विधृतो ह्ययम्
इति वाक्यं समाकर्ण्य जगदुर्यमकिंकराः । धर्मराजाज्ञया प्राप्ता नेतुं पापिनमुद्यताः
नासौ कदाचिन्मनसा प्राणिमात्रोपकारकः । प्राणिहत्या महापापकारी दुष्टशरीरभृत्
नॄन्बहूंस्तीर्थयात्रायां गच्छतोऽसौ व्यलुंठयत् । परदाररतो नित्यं सर्वपापाधिकारकः
तस्मान्नेतुं वयं प्राप्ताः पापिनं पुल्कसं नरम् । भवद्भिर्मोचितः कस्मादकस्मादागतैर्भटैः
विष्णुदूता ऊचुः। ब्रह्महत्यादिकं पापं प्राणिकोटिवधोद्भवम् । शालग्रामशिलास्पर्शः सर्वं दहति तत्क्षणात्
रामेति नाम यच्छ्रोत्रे विश्रंभादागतं यदि । करोति पापसंदाहं तूलं वह्निकणो यथा
तुलसी मस्तके यस्य शिला हृदि मनोहरा । मुखे कर्णेऽथवा राम नाम मुक्तस्तदैव सः
तस्मादनेन तुलसी मस्तके विधृता पुरा । श्रावितं रामनामाशु शिला हृदि सुधारिता
तस्मात्पापसमूहोऽस्य दग्धः पुण्यकलेवरः । यास्यते परमं स्थानं पापिनां यत्सुदुर्ल्लभम्
वर्षायुतं तत्र भुक्त्वा भोगान्सर्वमनोहरान् । भारते जन्म संप्राप्य समाराध्य जगद्गुरुम्
प्राप्स्यते परमं स्थानं सुरासुरसुदुर्ल्लभम् । न ज्ञातो महिमा सम्यक्छिलायाः परमेष्ठिनः
दृष्टा स्पृष्टार्चिता वापि सर्वपापहरा क्षणात् । इत्युक्त्वा विरताः सर्वे महाविष्णोर्गणा मुदा
याम्यास्ते किंकरा राज्ञे कथयामासुरद्भुतम् । वैष्णवो हर्षमापेदे रघुनाथपरायणः
मुक्तोऽसौ यमपाशाच्च गमिष्यति परं पदम् । तदाजगाम विमलं किंकिणीजालमंडितम्
विमानं देवलोकात्तु मनोहारि महाद्भुतम् । तत्रारुह्य गतः स्वर्गं महापुण्यैर्निषेवितम्
भोगान्भुक्त्वा स विपुलानाजगाम महीतलम् । काश्यां जन्म समासाद्य शुचिवाडवसत्कुले
आराध्य जगतामीशं गतवान्परमं पदम् । स पापी साधुसंगत्या शालग्रामशिलां स्पृशन्
महापीडाविनिर्मुक्तो गतवान्परमं पदम् । मया तेऽभिहितं राजन्गंडकीचरितं महत्
श्रुत्वा विमुच्यते पापैर्भुक्तिं मुक्तिं च विंदति