द्वारावती भवं चक्रं तथा वै गंडकीभवम् । उभयोः संगमो यत्र तत्र गंगा समुद्रगा
रूक्षाः कुर्वंति पुरुषा नायुः श्रीबलवर्जितान् । तस्मात्स्निग्धा मनोहारि रूपिण्यो ददति श्रियम्
आयुष्कामो नरो यस्तु धनकामो हि यः पुमान् । पूजयन्सर्वमाप्नोति पारलौकिकमैहिकम्
प्राणांतकाले पुंसस्तु भवेद्भाग्यवतो नृप । वाचि नाम हरेः पुण्यं शिला हृदि तदंतिके
गच्छत्सु प्राणमार्गेषु यस्य विश्रंभतोऽपि चेत् । शालग्रामशिला स्फूर्तिस्तस्य मुक्तिर्न संशयः
पुरा भगवता प्रोक्तमंबरीषाय धीमते । ब्राह्मणा न्यासिनः स्निग्धाः शालग्रामशिलास्तथा
स्वरूपत्रितयं मह्यमेतद्धि क्षितिमंडले । पापिनां पापनिर्हारं कर्तुं धृतमुदं च ता
निंदंति पापिनो ये वा शालग्रामशिलां सकृत् । कुंभीपाके पचंत्याशु यावदाभूतसंप्लवम्
पूजां समुद्यतं कर्तुं यो वारयति मूढधीः । तस्य मातापिताबंधुवर्गा नरकभागिनः
यो वा कथयति प्रेष्ठं शालग्रामार्चनं कुरु । सकृतार्थो नयत्याशु वैकुंठं स्वस्य पूर्वजान्
अत्रैवोदाहरंतीममितिहासं पुरातनम् । मुनयो वीतरागाश्च कामक्रोधविवर्जिताः
पुरा कीकटसंज्ञे वै देशे धर्मविवर्जिते । आसीत्पुल्कसजातीयो नरः शबरसंज्ञितः
नित्यं जंतुवधोद्युक्तः शरासनधरो मुहुः । तीर्थं प्रति यियासूनां बलाद्धरति जीवितम्
अनेकप्राणिहत्याकृत्परस्वे निरतः सदा । सदा रागादिसंयुक्तः कामक्रोधादिसंयुतः
विचरत्यनिशं भीमे वने प्राणिवधंकरः । विषसंसक्तबाणाग्र रूढचापगुणोद्धुरः
सैकदा पर्यटन्व्याधः प्राणिमात्रभयंकरः । कालं प्राप्तं न जानाति समीपेऽप्युग्रमानसः
यमदूतास्तु संप्राप्ताः पाशमुद्गरपाणयः । ताम्रकेशा दीर्घनखा लंबदंष्ट्रा भयानकाः
श्यामा लोहस्यनिगडान्बिभ्रतो मोहकारकाः । बध्नंतु पापिनं ह्येनं प्राणिमात्रभयंकरम्
कदाचिन्मनसा नायं प्राणिमात्रोपकारकः । परदार परद्रव्य परद्रोहपरायणः
एतस्य जिह्वां महतीमहं निष्कासयाम्यतः । एको वदति चैतस्य चक्षुरुत्पाटयाम्यहम्
एको वदति चैतस्य करौ कृंतामि पापिनः । अन्यो वदत्यहं कर्णौ कर्तयामि दुरात्मनः
एवं वदंतः सुभृशं दन्तैर्दन्तनिपीडकाः । आगत्य तं दुरात्मानं सायुधास्तस्थुरुन्मदाः
एको दूतस्तदा सर्परूपं धृत्वादशत्पदे । स दष्टमात्रः सहसा गतासुः पर्यजायत
तदा तं लोहपाशेन बद्ध्वा ते यमकिंकराः । कशाभिस्ताडयामासुर्मुद्गरैः प्राहरन्क्रुधा
अहो दुष्ट दुरात्मंस्त्वं कदाचिन्नाचरः शुभम् । मनसापि यतस्त्वां वै क्षेप्स्यामो रौरवेषु च
त्वङ्मांसं वायसा रौद्रा भक्षयिष्यंति वै क्रुधा । आजन्मतस्तु भवता न कृतं हरिसेवनम्
त्वया कलत्रपुत्राद्या द्रोहं कृत्वा सुपोषिताः । न कदाचित्स्मृतो देवः पापहारी जनार्दनः
तस्मात्त्वां लोहशंकौ वा कुंभीपाके च रौरवे । धर्मराजाज्ञया सर्वे नेष्यामो बहुताडनैः
एवमुक्त्वा यदानेतुं समैच्छन्यमकिंकराः । तावत्प्राप्तो महाविष्णुचरणाब्जपरायणः
यमदूतास्तदा दृष्टा वैष्णवेन महात्मना । पाशमुद्गरदंडादिदुष्टायुधधरा गणाः