मोहात्स्पृष्ट्वापि महिला जन्मशीलगुणान्विता । हित्वा पुण्यसमूहं सा सत्वरं नरकं व्रजेत्
स्त्रीपाणिमुक्तपुष्पाणि शालग्रामशिलोपरि । पवेरधिकपातानि वदंति ब्राह्मणोत्तमाः
चंदनं विषसंकाशं कुसुमं वज्रसंनिभम् । नैवेद्यं कालकूटाभं भवेद्भगवतः कृतम्
तस्मात्सर्वात्मना त्याज्यं स्त्रिया स्पर्शः शिलोपरि । कुर्वती याति नरकं यावदिंद्राश्चतुर्दश
अपि पापसमाचारो ब्रह्महत्यायुतोऽपि वा । शालग्रामशिलातोयं पीत्वा याति परां गतिम्
तुलसीचंदनं वारि शंखो घंटाथ चक्रकम् । शिला ताम्रस्य पात्रं तु विष्णोर्नामपदामृतम्
पदामृतं तु नवभिः पापराशिप्रदाहकम् । वदंति मुनयः शांताः सर्वशास्त्रार्थकोविदाः
सर्वतीर्थपरिस्नानात्सर्वक्रतुसमर्चनात् । पुण्यं भवति यद्राजन्बिंदौ बिंदौ तदद्भुतम्
शालग्रामशिला यत्र पूज्यते पुरुषोत्तमैः । तत्र योजनमात्रं तु तीर्थकोटिसमन्वितम्
शालग्रामाः समाः पूज्याः समेषु द्वितयं नहि । विषमा एव संपूज्या विषमेषु त्रयं नहि
द्वारावती भवं चक्रं तथा वै गंडकीभवम् । उभयोः संगमो यत्र तत्र गंगा समुद्रगा
रूक्षाः कुर्वंति पुरुषा नायुः श्रीबलवर्जितान् । तस्मात्स्निग्धा मनोहारि रूपिण्यो ददति श्रियम्
आयुष्कामो नरो यस्तु धनकामो हि यः पुमान् । पूजयन्सर्वमाप्नोति पारलौकिकमैहिकम्
प्राणांतकाले पुंसस्तु भवेद्भाग्यवतो नृप । वाचि नाम हरेः पुण्यं शिला हृदि तदंतिके
गच्छत्सु प्राणमार्गेषु यस्य विश्रंभतोऽपि चेत् । शालग्रामशिला स्फूर्तिस्तस्य मुक्तिर्न संशयः
पुरा भगवता प्रोक्तमंबरीषाय धीमते । ब्राह्मणा न्यासिनः स्निग्धाः शालग्रामशिलास्तथा
स्वरूपत्रितयं मह्यमेतद्धि क्षितिमंडले । पापिनां पापनिर्हारं कर्तुं धृतमुदं च ता
निंदंति पापिनो ये वा शालग्रामशिलां सकृत् । कुंभीपाके पचंत्याशु यावदाभूतसंप्लवम्
पूजां समुद्यतं कर्तुं यो वारयति मूढधीः । तस्य मातापिताबंधुवर्गा नरकभागिनः
यो वा कथयति प्रेष्ठं शालग्रामार्चनं कुरु । सकृतार्थो नयत्याशु वैकुंठं स्वस्य पूर्वजान्
अत्रैवोदाहरंतीममितिहासं पुरातनम् । मुनयो वीतरागाश्च कामक्रोधविवर्जिताः
पुरा कीकटसंज्ञे वै देशे धर्मविवर्जिते । आसीत्पुल्कसजातीयो नरः शबरसंज्ञितः
नित्यं जंतुवधोद्युक्तः शरासनधरो मुहुः । तीर्थं प्रति यियासूनां बलाद्धरति जीवितम्
अनेकप्राणिहत्याकृत्परस्वे निरतः सदा । सदा रागादिसंयुक्तः कामक्रोधादिसंयुतः
विचरत्यनिशं भीमे वने प्राणिवधंकरः । विषसंसक्तबाणाग्र रूढचापगुणोद्धुरः
सैकदा पर्यटन्व्याधः प्राणिमात्रभयंकरः । कालं प्राप्तं न जानाति समीपेऽप्युग्रमानसः
यमदूतास्तु संप्राप्ताः पाशमुद्गरपाणयः । ताम्रकेशा दीर्घनखा लंबदंष्ट्रा भयानकाः
श्यामा लोहस्यनिगडान्बिभ्रतो मोहकारकाः । बध्नंतु पापिनं ह्येनं प्राणिमात्रभयंकरम्
कदाचिन्मनसा नायं प्राणिमात्रोपकारकः । परदार परद्रव्य परद्रोहपरायणः
एतस्य जिह्वां महतीमहं निष्कासयाम्यतः । एको वदति चैतस्य चक्षुरुत्पाटयाम्यहम्