ऐंद्रजालिकविद्याध्रास्तथा वार्तासुकोविदाः । प्रशंसंतो महाराजं निर्ययुः पुरमध्यतः
राजापि तत्र निर्वर्त्य प्रातःसंध्यादिकाः क्रियाः । ब्राह्मणं तापसश्रेष्ठमानिनाय सुनिर्मलम्
तदाज्ञया महाराजो निर्जगाम पुराद्बहिः । लोकैरनुगतो राजा बभौ चंद्र इवोडुभिः
क्रोशमात्रं स गत्वाथ क्षौरं कृत्वा विधानतः । दंडं कमंडलुं बिभ्रन्मृगचर्म तथा शुभम्
शुभवेषेण संयुक्तो हरिध्यानपरायणः । कामक्रोधादिरहितं मनो बिभ्रन्महायशाः
तदा दुंदुभयो भेर्य आनकाः पणवास्तथा । शंखवीणादिकाश्चैवाध्मातास्तद्वादकैर्मुहुः
जय देवेश दुःखघ्न पुरुषोत्तमसंज्ञित । दर्शयस्व तनुं मह्यं वदंतो निर्ययुर्जनाः
सुमतिरुवाच। अथ प्रयाते भूपाले सर्वलोकसमन्विते । महाभागैर्वैष्णवैश्च गायकैः कृष्णकीर्तनम्
शुश्रावासौ महाराजो मार्गे गोविंदकीर्तनम् । जय माधव भक्तानां शरण्य पुरुषोत्तम
मार्गे तीर्थान्यनेकानि कुर्वन्पश्यन्महोदयम् । तापसब्राह्मणात्तेषां महिमानमथा शृणोत्
विचित्रविष्णुवार्ताभिर्विनोदितमना नृपः । मार्गेमार्गे महाविष्णुं गापयामास गायकान्
दीनांधकृपणानां च पंगूनां वासनोचितम् । दानं ददौ महाराजो बुद्धिमान्विजितेंद्रियः
अनेकतीर्थविरजमात्मानं भव्यतां गतम् । कुर्वन्ययौ स्वीयलोकैर्हरिध्यानपरायणः
नृपो गच्छन्ददर्शाग्रे नदीं पापप्रणाशिनीम् । चक्रांकितग्रावयुतां मुनिमानस निर्मलाम्
अनेकमुनिवृंदानां बहुश्रेणिविराजिताम् । सारसादिपतत्रीणां कूजितैरुपशोभिताम्
दृष्ट्वा पप्रच्छ विप्राग्र्यं तापसं धर्मकोविदम् । अनेकतीर्थमाहात्म्य विशेषज्ञानजृंभितम्
स्वामिन्केयं नदी पुण्या मुनिवृन्दनिषेविता । करोति मम चित्तस्य प्रमोदभरनिर्भरम्
इति श्रुत्वा वचस्तस्य राजराजस्य धीमतः । वक्तुं प्रचक्रमे विद्वांस्तीर्थमाहात्म्यमुत्तमम्
ब्राह्मण उवाच। गंडकीयं नदी राजन्सुरासुरनिषेविता । पुण्योदकपरीवाह हतपातकसंचया
दर्शनान्मानसं पापं स्पर्शनात्कर्मजं दहेत् । वाचिकं स्वीय तोयस्य पानतः पापसंचयम्
पुरा दृष्ट्वा प्रजानाथः प्रजाः सर्वा विपावनीः । स्वगंडविप्रुषोनेक पापघ्नीं सृष्टवानिमाम्
एनां नदीं ये पुण्योदां स्पृशंति सुतरंगिणीम् । ते गर्भभाजो नैव स्युरपि पापकृतो नराः
अस्यां भवा ये चाश्मानश्चक्रचिह्नैरलंकृताः । ते साक्षाद्भगवंतो हि स्वस्वरूपधराः पराः
शिलां संपूजयेद्यस्तु नित्यं चक्रयुतां नरः । न जातु स जनन्या वै जठरं समुपाविशेत्
पूजयेद्यो नरो धीमाञ्छालग्रामशिलां वराम् । तेनाचारवता भाव्यं दंभलोभवियोगिना
परदार परद्रव्यविमुखेन नरेण हि । पूजनीयः प्रयत्नेन शालग्रामः सचक्रकः
द्वारवत्यां भवं चक्रं शिला वै गंडकीभवा । पुंसां क्षणाद्धरत्येव पापं जन्मशतार्जितम्
अपि पापसहस्राणां कर्ता तावन्नरो भवेत् । शालग्रामशिलातोयं पीत्वा पूतो भवेत्क्षणात्
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वेदपथि स्थितः । शालग्रामं पूजयित्वा गृहस्थो मोक्षमाप्नुयात्
न जातु चित्स्त्रिया कार्यं शालग्रामस्य पूजनम् । भर्तृहीनाथ सुभगा स्वर्गलोकहितैषिणी