यस्य हस्तौ च पादौ च मनश्चैव सुसंहितम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते
हरेकृष्ण हरेकृष्ण भक्तवत्सल गोपते । शरण्य भगवन्विष्णो मां पाहि बहुसंसृतेः
इति ब्रुवन्रसनया मनसा च हरिं स्मरन् । पादचारी गतिं कुर्यात्तीर्थं प्रति महोदयः
यानेन गच्छन्पुरुषः समभागफलं लभेत् । उपानद्भ्यां चतुर्थांशं गोयाने गोवधादिकम्
व्यवहर्ता तृतीयांशं सेवयाष्टमभागभाक् । अनिच्छया व्रजंस्तत्र तीर्थमर्धफलं लभेत्
यथायथं प्रकर्तव्या तीर्थानामभियात्रिका । पापक्षयो भवत्येव विधिदृष्ट्या विशेषतः
तत्र साधून्नमस्कुर्यात्पादवंदनसेवनैः । तद्द्वारा हरिभक्तिर्हि प्राप्यते पुरुषोत्तमे
इति तीर्थविधिः प्रोक्तः समासेन न विस्तरात् । एवं विधिं समाश्रित्य गच्छ त्वं पुरुषोत्तमम्
तुभ्यं तुष्टो महाराज दास्यते भक्तिमच्युतः । यथा संसारनिर्वाहः क्षणादेव भविष्यति
तीर्थयात्राविधिं श्रुत्वा सर्वपातकनाशनम् । मुच्यते सर्वपापेभ्य उग्रेभ्यः पुरुषर्षभ
सुमतिरुवाच । इति वाक्यं समाकर्ण्य ववंदे चरणौ महान् । तत्तीर्थदर्शनौत्सुक्य विह्वलीकृतमानसः
आदिदेश निजामात्यं मंत्रवित्तममुत्तमम् । तीर्थयात्रेच्छया सर्वान्सह नेतुं मनो दधत्
मंत्रिन्पौरजनान्सर्वानादिश त्वं ममाज्ञया । पुरुषोत्तमपादाब्जदर्शनप्रीतिहेतवे
ये मदीये पुरे लोका ये च मद्वाक्यकारकाः । सर्वे निर्यांतु मत्पुर्या मया सह नरोत्तमाः
ये तु मद्वाक्यमुल्लंघ्य स्थास्यंति पुरुषा गृहे । ते दंड्या यमदंडेन पापिनोऽधर्महेतवः
किं तेन सुतवृंदेन बांधवैः किं सुदुर्नयैः । यैर्नदृष्टः स्वचक्षुर्भ्यां पुण्यदः पुरुषोत्तमः
सूकरीयूथवत्तेषां प्रसूतिर्विट्प्रभक्षिका । येषां पुत्राश्च पौत्रा वा हरिं न शरणं गताः
यो देवो नाममात्रेण सर्वान्पावयितुं क्षमः । तं नमस्कुरुत क्षिप्रं मदीयाः प्रकृतिव्रजाः
इति वाक्यं मनोहारि भगवद्गुणगुंफितम् । प्रजहर्ष महामात्य उत्तमः सत्यनामधृक्
हस्तिनं वरमारोप्य पटहेन व्यघोषयत् । यदादिष्टं नृपेणेह तीर्थयात्रां समिच्छता
गच्छंतु त्वरिता लोका राज्ञा सह महागिरिम् । दृश्यतां पापसंहारी पुरुषोत्तमनामधृक्
क्रियतां सर्वसंसारसागरो गोष्पदं पुनः । भूष्यतां शंखचक्रादिचिह्नैः स्वस्व तनुर्नरैः
इत्यादिघोषयामास राज्ञादिष्टं यदद्भुतम् । सचिवो रघुनाथांघ्रि ध्याननिर्वारितश्रमः
तच्छ्रुत्वा ताः प्रजाः सर्वा आनंदरससंप्लुताः । मनो दधुः स्वनिस्तारे पुरुषोत्तमदर्शनात्
निर्ययुर्ब्राह्मणास्तत्र शिष्यैः सह सुवेषिणः । आशिषं वरदानाढ्यां ददतो भूमिपं प्रति
क्षत्त्रिया धन्विनो वीरा वैश्या वस्तुक्रयाञ्चिताः । शूद्राः संसारनिस्तारहर्षित स्वीयविग्रहाः
रजकाश्चर्मकाः क्षौद्राः किराता भित्तिकारकाः । सूचीवृत्त्या च जीवंतस्तांबूलक्रयकारकाः
तालवाद्यधरा ये च ये च रंगोपजीविनः । तैलविक्रयिणश्चैव वस्त्रविक्रयिणस्तथा
सूता वदंतः पौराणीं वार्तां हर्षसमन्विताः । मागधा बंदिनस्तत्र निर्गता भूमिपाज्ञया
भिषग्वृत्त्या च जीवंतस्तथा पाशककोविदाः । पाकस्वादुरसाभिज्ञा हास्यवाक्यानुरंजकाः