स हरिर्जायते साधुसंगमात्पापवर्जितात् । येषां कृपातः पुरुषा भवंत्यसुखवर्जिताः
ते साधवः शांतरागाः कामलोभविवर्जिताः । ब्रुवंति यन्महाराज तत्संसारनिवर्तकम्
तीर्थेषु लभ्यते साधू रामचंद्र परायणः । यद्दर्शनं नृणां पापराशिदाहाशुशुक्षणिः
तस्मात्तीर्थेषु गंतव्यं नरैः संसारभीरुभिः । पुण्योदकेषु सततं साधुश्रेणिविराजिषु
तानि तीर्थानि विधिना दृष्टानि प्रहरंत्यघम् । तं विधिं नृपशार्दूल कुरुष्व श्रुतिगोचरम्
विरागं जनयेत्पूर्वं कलत्रादि कुटुंबके । असत्यभूतं तज्ज्ञात्वा हरिं तु मनसा स्मरेत्
क्रोशमात्रं ततो गत्वा रामरामेति च ब्रुवन् । तत्र तीर्थादिषु स्नात्वा क्षौरं कुर्याद्विधानवित्
मनुष्याणां च पापानि तीर्थानि प्रति गच्छताम् । केशानाश्रित्य तिष्ठंति तस्माद्वपनमाचरेत्
ततो दंडं तु निर्ग्रन्थिं कमंडलुमथाजिनम् । बिभृयाल्लोभनिर्मुक्तस्तीर्थवेषधरो नरः
विधिना गच्छतां नॄणां फलावाप्तिर्विशेषतः । तस्मात्सर्वप्रयत्नेन तीर्थयात्राविधिं चरेत्
यस्य हस्तौ च पादौ च मनश्चैव सुसंहितम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते
हरेकृष्ण हरेकृष्ण भक्तवत्सल गोपते । शरण्य भगवन्विष्णो मां पाहि बहुसंसृतेः
इति ब्रुवन्रसनया मनसा च हरिं स्मरन् । पादचारी गतिं कुर्यात्तीर्थं प्रति महोदयः
यानेन गच्छन्पुरुषः समभागफलं लभेत् । उपानद्भ्यां चतुर्थांशं गोयाने गोवधादिकम्
व्यवहर्ता तृतीयांशं सेवयाष्टमभागभाक् । अनिच्छया व्रजंस्तत्र तीर्थमर्धफलं लभेत्
यथायथं प्रकर्तव्या तीर्थानामभियात्रिका । पापक्षयो भवत्येव विधिदृष्ट्या विशेषतः
तत्र साधून्नमस्कुर्यात्पादवंदनसेवनैः । तद्द्वारा हरिभक्तिर्हि प्राप्यते पुरुषोत्तमे
इति तीर्थविधिः प्रोक्तः समासेन न विस्तरात् । एवं विधिं समाश्रित्य गच्छ त्वं पुरुषोत्तमम्
तुभ्यं तुष्टो महाराज दास्यते भक्तिमच्युतः । यथा संसारनिर्वाहः क्षणादेव भविष्यति
तीर्थयात्राविधिं श्रुत्वा सर्वपातकनाशनम् । मुच्यते सर्वपापेभ्य उग्रेभ्यः पुरुषर्षभ
सुमतिरुवाच । इति वाक्यं समाकर्ण्य ववंदे चरणौ महान् । तत्तीर्थदर्शनौत्सुक्य विह्वलीकृतमानसः
आदिदेश निजामात्यं मंत्रवित्तममुत्तमम् । तीर्थयात्रेच्छया सर्वान्सह नेतुं मनो दधत्
मंत्रिन्पौरजनान्सर्वानादिश त्वं ममाज्ञया । पुरुषोत्तमपादाब्जदर्शनप्रीतिहेतवे
ये मदीये पुरे लोका ये च मद्वाक्यकारकाः । सर्वे निर्यांतु मत्पुर्या मया सह नरोत्तमाः
ये तु मद्वाक्यमुल्लंघ्य स्थास्यंति पुरुषा गृहे । ते दंड्या यमदंडेन पापिनोऽधर्महेतवः
किं तेन सुतवृंदेन बांधवैः किं सुदुर्नयैः । यैर्नदृष्टः स्वचक्षुर्भ्यां पुण्यदः पुरुषोत्तमः
सूकरीयूथवत्तेषां प्रसूतिर्विट्प्रभक्षिका । येषां पुत्राश्च पौत्रा वा हरिं न शरणं गताः
यो देवो नाममात्रेण सर्वान्पावयितुं क्षमः । तं नमस्कुरुत क्षिप्रं मदीयाः प्रकृतिव्रजाः
इति वाक्यं मनोहारि भगवद्गुणगुंफितम् । प्रजहर्ष महामात्य उत्तमः सत्यनामधृक्
हस्तिनं वरमारोप्य पटहेन व्यघोषयत् । यदादिष्टं नृपेणेह तीर्थयात्रां समिच्छता