तदास्माभिर्गृहं प्राप्तो बालको वीक्षितो मुहुः । चतुर्भुजत्वं संप्राप्तः शंखचक्रादिधारकः
अस्माभिः पृष्टमेतस्य किमेतज्जातमद्भुतम् । तदा प्रोवाच नः सर्वान्बालकः परमाद्भुतम्
शिखराग्रे गतः पूर्वं तत्र दृष्टः सुरेश्वरः । तत्र नैवेद्यसिक्थं तु मया प्राप्तं मनोहरम्
तस्य भक्षणमात्रेण कारणेन तु सांप्रतम् । चतुर्भुजत्वं संप्राप्तो विस्मयेन समन्वितः
तच्छ्रुत्वा तु वचस्तस्य सद्यः संप्राप्तविस्मयैः । अस्माभिरप्यसौ दृष्टो देवः परमदुर्ल्लभः
अन्नादिकं तत्र भुक्तं सर्वस्वादसमन्वितम् । वयं चतुर्भुजा जाता देवस्य कृपया पुनः । गत्वा त्वमपि देवस्य दर्शनं कुरु सत्तम
भुक्त्वा तत्रान्नसिक्थं तु भव विप्र चतुर्भुजः । त्वया पृष्टं यदाश्चर्यं तदुक्तं वाडवर्षभ
ब्राह्मण उवाच। इति श्रुत्वा तु तद्वाक्यं भिल्लानामहमद्भुतम् । अत्याश्चर्यमिदं मत्वा प्रहृष्टोऽभवमित्युत
गंगासागरसंयोगे स्नात्वा पुण्यकलेवरः । शृंगमारुरुहे तत्र मणिमाणिक्यचित्रितम्
तत्रापश्यं महाराज देवं देवादिवंदितम् । नमस्कृत्वा कृतार्थोऽहं जातोन्नप्राशनेन च
चतुर्भुजत्वं संप्राप्तः शंखचक्रादिचिह्नितम् । पुरुषोत्तमदर्शनेन न पुनर्गर्भमाविशम्
राजंस्त्वमपि तत्राशु गच्छ नीलाभिधं गिरिम् । कृतार्थं कुरु चात्मानं गर्भदुःखविवर्जितम्
इत्याकर्ण्य वचस्तस्य वाडवाग्र्यस्य धीमतः । पप्रच्छ हृष्टगात्रस्तु तीर्थयात्राविधिं मुनिम्
राजोवाच। साधु विप्राग्र्य हे साधो त्वया प्रोक्तं ममानघ । पुरुषोत्तममाहात्म्यं शृण्वतां पापनाशनम्
ब्रूहि तत्तीर्थयात्रायां विधिं श्रुतिसमन्वितम् । विधिना केन संपूर्ण फलप्राप्तिर्नृणां भवेत्
ब्राह्मण उवाच। शृणु राजन्प्रवक्ष्यामि तीर्थयात्राविधिं शुभम् । येन संप्राप्यते देवः सुरासुरनमस्कृतः
वलीपलितदेहो वा यौवनेनान्वितोऽपि वा । ज्ञात्वा मृत्युमनिस्तीर्यं हरिं शरणमाव्रजेत्
तत्कीर्तने तच्छ्रवणे वंदने तस्य पूजने । मतिरेव प्रकर्तव्या नान्यत्र वनितादिषु
सर्वं नश्वरमालोक्य क्षणस्थायि सुदुःखदम् । जन्ममृत्युजरातीतं भक्तिवल्लभमच्युतम्
क्रोधात्कामाद्भयाद्द्वेषाल्लोभाद्दंभान्नरः पुनः । यथाकथंचिद्विभजन्न स दुःखं समश्नुते
स हरिर्जायते साधुसंगमात्पापवर्जितात् । येषां कृपातः पुरुषा भवंत्यसुखवर्जिताः
ते साधवः शांतरागाः कामलोभविवर्जिताः । ब्रुवंति यन्महाराज तत्संसारनिवर्तकम्
तीर्थेषु लभ्यते साधू रामचंद्र परायणः । यद्दर्शनं नृणां पापराशिदाहाशुशुक्षणिः
तस्मात्तीर्थेषु गंतव्यं नरैः संसारभीरुभिः । पुण्योदकेषु सततं साधुश्रेणिविराजिषु
तानि तीर्थानि विधिना दृष्टानि प्रहरंत्यघम् । तं विधिं नृपशार्दूल कुरुष्व श्रुतिगोचरम्
विरागं जनयेत्पूर्वं कलत्रादि कुटुंबके । असत्यभूतं तज्ज्ञात्वा हरिं तु मनसा स्मरेत्
क्रोशमात्रं ततो गत्वा रामरामेति च ब्रुवन् । तत्र तीर्थादिषु स्नात्वा क्षौरं कुर्याद्विधानवित्
मनुष्याणां च पापानि तीर्थानि प्रति गच्छताम् । केशानाश्रित्य तिष्ठंति तस्माद्वपनमाचरेत्
ततो दंडं तु निर्ग्रन्थिं कमंडलुमथाजिनम् । बिभृयाल्लोभनिर्मुक्तस्तीर्थवेषधरो नरः
विधिना गच्छतां नॄणां फलावाप्तिर्विशेषतः । तस्मात्सर्वप्रयत्नेन तीर्थयात्राविधिं चरेत्