धाता विधाता जगतो वासुदेवः सनातनः । विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति
हिरण्मयवपुर्नित्यःपुंडरीकनिभेक्षणः । श्रीभूलीलापतिः सौम्योनिर्म्मलः शुभविग्रहः
तेनैव सृष्टौ ब्रह्मेशौ सर्गे देवोत्तमौ विभू । तस्यैवाज्ञां पुरस्कृत्य वर्त्तेते ब्रह्मशंकरौ
भीषास्माद्वाति पवनो भीषोदेति दिवाकरः । भीषास्मादग्निश्चंद्रोऽथ मृत्युर्धावति पंचमः
आसीदेको हरिर्दिव्यो देवो नारायणः परः । ब्रह्मा नेंद्रो न चेशानो न च चंद्र दिवाकरौ
न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः । तस्य विष्णोः परं धाम सदा पश्यंति सूरयः
एवं सर्वोपनिषदामर्थं हित्वा द्विजोत्तमाः । रागाल्लोभाद्भयाद्वापि किं ब्रवीथ ममाग्रतः
तं सर्वरक्षकं देवं त्यक्त्वा सर्वेश्वरं हरिम् । कथं पाषंडमाश्रित्य पूजयामि च शंकरम्
लक्ष्मीपतिं देवदेवमनंतं पुरुषोत्तमम् । इंदीवरदलश्यामं पद्मपत्रायतेक्षणम्
श्रीवत्सलक्षितोरस्कं सर्व्वाभरणभूषितम् । सदा कुमारं सर्व्वेशं नित्यानन्दसुखप्रदम्
कृष्णं दध्युर्महात्मानो योगिनः सनकादयः । यमर्चयंति ब्रह्मेश शक्राद्या देवतागणाः
यस्य पत्न्याः कटाक्षार्द्धदृष्ट्या दृष्टा दिवौकसः । ब्रह्मेंद्र रुद्र वरुण यम सोम धनाधिपाः
यन्नामस्मरणादेव पापिनामपि सत्वरम् । मुक्तिर्भवति जंतूनां ब्रह्मादीनां सुदुर्लभा
स एवं रक्षकः श्रीशो देवानामपि सर्वदा । तमेव पूजयिष्यामि लक्ष्म्या संयुतमच्युतम्
प्राप्स्यामि सुसुखेनैव तद्विष्णोः परमं पदम् । रुद्र उवाच- इति तस्य वचः श्रुत्वा हिरण्यकशिपुस्ततः
क्रोधेन महताविष्टो जज्वालाग्निरिवापरः । परितो वीक्ष्य दैतेयानित्याह क्रोधमूर्छितः
हिरण्यकशिपुरुवाच - भीषणैः शस्त्रसंघातैः प्रह्लादं पापकारिणम् । ममाज्ञया घातयध्वं शत्रुपूजनतत्परम्
रक्षिता हरिरेवेति रक्षते तेन वात्सलात् । अद्यैव सफलं तस्य पश्येयं हरिरक्षणम्
रुद्र उवाच- तदोद्यतास्त्रा दैतेया हंतुं दैत्येश्वरात्मजम् । परिवार्य महात्मानं तस्थुर्दैत्येश्वराज्ञया
प्रह्लादोऽपि तथा विष्णुं ध्यात्वा हृदयपंकजे । जपन्नष्टाक्षरं मंत्रं तस्थौ गिरिरिवापरः
तं जघ्नुः परितो वीराः शूलतोमरशक्तिभिः । प्रह्लादस्य वपुस्तत्र हरिसंस्मरणाच्छुभे
विष्णोः प्रभावाद्दुद्धर्षाद्वज्रभूतमभूद्भृशम् । ततः संप्राप्य तद्गात्रं महास्त्राणि सुरद्विषाम्
नीलोत्पलदलानीव पेतुश्चिछन्नाः क्षितौ शुभे । अल्पमप्यस्य तद्गात्रं भेत्तुं दैत्या न च क्षमाः
विस्मितावाङ्मुखास्तस्थुर्दैत्य राजांतिके भटाः । तादृग्विधं महात्मानं दृष्ट्वा पुत्रं महाबलम्
विस्मयं परमं गत्वा दैत्यराट्क्रोधमूर्छितः । आदिदेश ततः सर्वान्दंदशूकान्महाविषान्
वासुकिप्रभृतीन्भीमान्खादयध्वमिति क्रुधा । आदिष्टास्तेन राज्ञाथ ते नागाः सुमहाबलाः
ज्वलितास्या महाभीमास्तं च खादुर्महाबलम् । गरुडध्वजभक्तं तं विदश्य गरलायुधाः
निर्विषाश्च्छिन्नदशना बभूवुरनिलाशनाः । वैनतेयसहस्रेण छिन्नगात्राः सुविह्वलाः
प्रदुद्रुवुर्दिशः सर्वावमंतो रुधिरं भृशम् । तादृग्विधान्महासर्पान्दृष्ट्वा दैत्यपतिस्तदा
आदिदेश ततः क्रुद्धो दिग्गजान्सुमदान्वितान् । निर्दिष्टास्तेन राज्ञाथ दिग्गजाश्च मदोद्धताः