कस्य देवस्य कृपया गर्भनिर्वारणं भवेत् । सेव्यः श्रीरामचंद्रोऽसौ संसारज्वरनाशकः
पूज्यः स एव भगवान्पुरुषोत्तमसंज्ञकः । नाना पुर्यो मया दृष्टाः सर्वपापक्षयंकराः
अयोध्या सरयूस्तापी तथा द्वारं हरेः परम् । अवंती विमला कांची रेवा सागरगामिनी
गोकर्णं हाटकाख्यं च हत्याकोटिविनाशनम् । मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणाम्
यत्रांगेषु नृणां तोयं श्यामं वा निर्मलं भवेत् । पातकस्यापहारीदं मया दृष्टं तु तीर्थकम्
मया द्वारवती दृष्टा सुरासुर निषेविता । गोमती यत्र वहति साक्षाद्ब्रह्मजला शुभा
यत्र स्वापो लयः प्रोक्तो मृतिर्मोक्ष इति श्रुतिः । यस्यां संवसतां नॄणां न कलि प्रभवेत्क्वचित्
चक्रांका यत्र पाषाणा मानवा अपि चक्रिणः । पशवः कीटपक्ष्याद्याः सर्वे चक्रशरीरिणः
त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः । सा पुरी तु महापुण्यैर्मया दृग्गोचरीकृता
कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनम् । स्यमंतपंचकं यत्र महापातकनाशनम्
वाराणसी मया दृष्टा विश्वनाथकृतालया । यत्रोपदिशते मंत्रं तारकं ब्रह्मसंज्ञितम्
यस्यां मृताः कीटपतंगभृंगाः पश्वादयो वा सुरयोनयो वा । स्वकर्मसंभोगसुखं विहाय गच्छंति कैलासमतीतदुःखाः
मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी । करोति संसृतेर्बंधच्छेदं पापकृतामपि
कपर्दिनः कुंडलिनः सर्पभूषाधरावराः । गजचर्मपरीधाना वसंति गतदुःखकाः
कालभैरवनामात्र करोति यमशासनम् । न करोति नृणां वार्तां यमो दंडधरः प्रभुः
एतादृशी मया दृष्टा काशी विश्वेश्वरांकिता । अनेकान्यपि तीर्थानि मया दृष्टानि भूमिप
परमेकं महच्चित्रं यद्दृष्टं नीलपर्वते । पुरुषोत्तमसान्निध्ये तन्न क्वाप्यक्षिगोचरम्
ब्राह्मण उवाच। राजंस्त्वं शृणु यद्वृत्तं नीले पर्वतसत्तमे । यच्छ्रद्दधानाः पुरुषा यांति ब्रह्म सनातनम्
मया पर्यटता तत्र गतं नीलाभिधे गिरौ । गंगासागरतोयेन क्षालितप्रांगणे मुहुः
तत्र भिल्ला मया दृष्टाः पर्वताग्रे धनुर्भृतः । चतुर्भुजा मूलफलैर्भक्ष्यैर्निर्वाहितक्लमाः
तदा मे मनसि क्षिप्रं संशयः सुमहानभूत् । चतुर्भुजाः किमेते वै धनुर्बाणधरा नराः
वैकुंठवासिनां रूपं दृश्यते विजितात्मनाम् । कथमेतैरुपालब्धं ब्रह्माद्यैरपि दुर्ल्लभम्
शंखचक्रगदाशार्ङ्गपद्मोल्लसितपाणयः । वनमालापरीतांगा विष्णुभक्ता इवांतिके
संशयाविष्टचित्तेन मया पृष्टं तदा नृप । यूयं के बत युष्माभिर्लब्धं चातुर्भुजं कथम्
तदा तैर्बहु हास्यं तु कृत्वा मां प्रतिभाषितम् । ब्राह्मणोऽयं न जानाति पिंडमाहात्म्यमद्भुतम्
इति श्रुत्वाऽवदं चाहं कः पिंडः कस्य दीयते । तन्मम ब्रूत धर्मिष्ठाश्चतुर्भुजशरीरिणः
तदा मद्वाक्यमाकर्ण्य कथितं तैर्महात्मभिः । सर्वं तत्र तु यद्वृत्तं चतुर्भुजभवादिकम्
किराता ऊचुः। शृणु ब्राह्मण वृत्तांतमस्माकं पृथुकः शिशुः । नित्यं जंबूफलादीनि भक्षयन्क्रीडया चरन्
एकदा रममाणस्तु गिरिशृंगं मनोरमम् । समारुरोह शिशुभिः समंतात्परिवारितः
तदा तत्र ददर्शाहं देवायतनमद्भुतम् । गारुत्मतादिमणिभिः खचितं स्वर्णभित्तिकम्