अहमेवेश्वरो लोके त्रैलोक्याधिपतिर्यतः । मामेवार्च्चय गोविंदं त्यज शत्रुं दुरासदम्
अथवा शंकरं देवं रुद्रं लोकगुरुं प्रभुम् । अर्च्चयस्वासुराध्यक्षं सर्वैश्वर्य्यप्रदं शिवम्
त्रिपुंड्रधारणं कृत्वा भस्मना दैत्यपूजितम् । पूजयित्वा महादेवं पाशुपत्योक्तमार्गतः
रुद्र उवाच- इति दैत्यपतेर्वाक्यं श्रुत्वा दैत्यपुरोहिताः
पुरोहिता ऊचुः- एवमेव महाभाग कुरुष्व वचनं पितुः । त्यज शत्रुं कैटभारिं पूजयस्व त्रिलोचनम्
रुद्रात्परतरो देवो नास्ति सर्वप्रदो नॄणाम् । पिता तवापि तस्यैव प्रसादादीश्वरोऽभवत्
रुद्र उवाच- इति तेषां वचः श्रुत्वा प्रह्लादो जन्मवैष्णवं
प्रह्लाद उवाच- अहो भगवतः श्रेष्ठा यन्माया मोहितं जगत् । अहो वेदांतविदुषः सर्वलोकेषु पूजिताः
ब्राह्मणा अपि चापल्याद्वदंत्येवं मदान्विताः । नारायणः परं ब्रह्म तत्वं नारायणः परम्
नारायणः परो ध्याता ध्यानं नारयणः परम् । गतिर्विश्वस्य जगतः शाश्वतं शिवमच्युतः
धाता विधाता जगतो वासुदेवः सनातनः । विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति
हिरण्मयवपुर्नित्यःपुंडरीकनिभेक्षणः । श्रीभूलीलापतिः सौम्योनिर्म्मलः शुभविग्रहः
तेनैव सृष्टौ ब्रह्मेशौ सर्गे देवोत्तमौ विभू । तस्यैवाज्ञां पुरस्कृत्य वर्त्तेते ब्रह्मशंकरौ
भीषास्माद्वाति पवनो भीषोदेति दिवाकरः । भीषास्मादग्निश्चंद्रोऽथ मृत्युर्धावति पंचमः
आसीदेको हरिर्दिव्यो देवो नारायणः परः । ब्रह्मा नेंद्रो न चेशानो न च चंद्र दिवाकरौ
न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः । तस्य विष्णोः परं धाम सदा पश्यंति सूरयः
एवं सर्वोपनिषदामर्थं हित्वा द्विजोत्तमाः । रागाल्लोभाद्भयाद्वापि किं ब्रवीथ ममाग्रतः
तं सर्वरक्षकं देवं त्यक्त्वा सर्वेश्वरं हरिम् । कथं पाषंडमाश्रित्य पूजयामि च शंकरम्
लक्ष्मीपतिं देवदेवमनंतं पुरुषोत्तमम् । इंदीवरदलश्यामं पद्मपत्रायतेक्षणम्
श्रीवत्सलक्षितोरस्कं सर्व्वाभरणभूषितम् । सदा कुमारं सर्व्वेशं नित्यानन्दसुखप्रदम्
कृष्णं दध्युर्महात्मानो योगिनः सनकादयः । यमर्चयंति ब्रह्मेश शक्राद्या देवतागणाः
यस्य पत्न्याः कटाक्षार्द्धदृष्ट्या दृष्टा दिवौकसः । ब्रह्मेंद्र रुद्र वरुण यम सोम धनाधिपाः
यन्नामस्मरणादेव पापिनामपि सत्वरम् । मुक्तिर्भवति जंतूनां ब्रह्मादीनां सुदुर्लभा
स एवं रक्षकः श्रीशो देवानामपि सर्वदा । तमेव पूजयिष्यामि लक्ष्म्या संयुतमच्युतम्
प्राप्स्यामि सुसुखेनैव तद्विष्णोः परमं पदम् । रुद्र उवाच- इति तस्य वचः श्रुत्वा हिरण्यकशिपुस्ततः
क्रोधेन महताविष्टो जज्वालाग्निरिवापरः । परितो वीक्ष्य दैतेयानित्याह क्रोधमूर्छितः
हिरण्यकशिपुरुवाच - भीषणैः शस्त्रसंघातैः प्रह्लादं पापकारिणम् । ममाज्ञया घातयध्वं शत्रुपूजनतत्परम्
रक्षिता हरिरेवेति रक्षते तेन वात्सलात् । अद्यैव सफलं तस्य पश्येयं हरिरक्षणम्
रुद्र उवाच- तदोद्यतास्त्रा दैतेया हंतुं दैत्येश्वरात्मजम् । परिवार्य महात्मानं तस्थुर्दैत्येश्वराज्ञया
प्रह्लादोऽपि तथा विष्णुं ध्यात्वा हृदयपंकजे । जपन्नष्टाक्षरं मंत्रं तस्थौ गिरिरिवापरः