तुलसीसहितो देव सदा शंखेन संयुतम् । गृहाणार्घं मया दत्तं देवदेव नमोस्तुते
अर्घमंत्रः । एवं संपूज्य देवेशं लक्ष्म्या सह जनार्दनम् । प्रार्थयेद्देवदेवेशं व्रतसंपूर्तिसिद्धये
उपोषितोऽहं देवेश कामक्रोधविवर्जितः । व्रतेनानेन देवेश त्वमेवशरणं मम
गृहीतेऽस्मिन्व्रते देव यदपूर्णं कृतं मया । सर्वं तदस्तु संपूर्णं त्वत्प्रसादाज्जनार्दन
नमः कमलपत्राक्ष नमस्ते जलशायिने । इदं व्रतं मयाचीर्णं प्रसादात्तव केशव
अज्ञानतिमिरध्वंसिन्व्रतेनानेन केशव । प्रसादसुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव
ततो जागरणं रात्रौ गीतपुस्तकवाचनम् । नाद नृत्यकलाभिज्ञैः पुण्याख्यानैः सुभोभनैः
विभातायां तु शर्वर्यामुदिते विमले रवौ । निमंत्र्य ब्राह्मणान्भक्त्या श्राद्धं कुर्याच्च वैष्णवम्
भोजयित्वा यथाकामं पायसेन घृतेन च । तांबूलपुष्पगंधादि दक्षिणाभिः समन्वितम्
उपवीतानि वासांसि दत्वा मालां च चंदनम् । दांपत्यत्रितयं भोज्यं वस्त्रभूषण कुंकुमैः
वंशपात्राणि शक्त्या च विरूढैः परिपूरयेत् । नालिकेरैश्च पक्वान्नैर्वस्त्रैश्च विविधैः फलैः
सपत्नीकं गुरुं तत्र वस्त्राणि परिधापयेत् । विभूषणानि दिव्यानि गंधमाल्यैः प्रपूजयेत्
सर्वोपस्करसंयुक्तां गां दद्याच्च पयस्विनीम् । सदक्षिणां सवस्त्रां च तन्मे निगदतः शृणु
सर्वतीर्थेषु यत्पुण्यं स्नातानां जायते नृणाम् । तत्फलं स लभेत्सर्वं देवदेवप्रसादतः
भुक्त्वा च विपुलान्भोगान्सर्वकामान्मनोरमान् । वैष्णवं पदमाप्नोति अंते विष्णोः प्रसादतः
नारद उवाच- ब्रह्मन्संवत्सराख्यस्य दीपस्य विधिमुत्तमम् । सर्वव्रतप्रधानस्य माहात्म्यं प्रवदस्व मे
येन व्रतानि सर्वाणि कृतान्येव न संशयः । सर्वकामसमृद्धिश्च सर्वपापक्षयो भवेत्
महादेव उवाच - वदामि तव देवर्षे रहस्यं पापनाशनम् । यच्छ्रुत्वा ब्रह्महा गोघ्नो मित्रघ्नो गुरुतल्पगः
विश्वासघाती क्रूरात्मा मुक्तिमाप्नोति शाश्वतीम् । शतं कुलानामुद्धृत्य विष्णोर्लोकं स गच्छति
तदहं कथयिष्यामि दीपव्रतमनुत्तमम् । संवत्सरप्रमाणस्य विधिं माहात्म्यमेव च
हेमंते प्रथमे मासि प्राप्य ह्येकादशीं शुभाम् । ब्राह्मे मुहूर्त्ते चोत्थाय कामक्रोधविवर्जितः
नदीसंगमतीर्थेषु तडागेषु सरित्सु च । स्नानं समाचरेत्तत्र गृहे वा नियतात्मवान्
स्नातोऽहं सर्वतीर्थे तत्स्नानं देहि मे सदा
स्नानमंत्रः । देवान्पितॄंश्च संतर्प्य कृतजप्यो जितेंद्रियः । ततः संपूजयेद्देवं लक्ष्मीनारायणं प्रभुम् । पंचामृतेन संस्नाप्य ततो गंधोदकेन च
स्नातोऽसि लक्ष्म्या सहितो देवदेव जगत्पते । मां समुद्धर देवेश घोरात्संसारबंधनात्
ततः संपूजयेद्देवं लक्ष्म्या सह जनार्दनम् । मंत्रैस्तु वैदिकैर्भक्त्या तथा पौराणिकैरपि
अतो देवेति गंधादि पौरुषेणापि वा पुनः । नमो मत्स्याय देवाय कूर्मदेवाय वै नमः
नमो वाराहदेवाय नरसिंहाय वै नमः । नमोऽस्तु बुद्धदेवाय कल्किने च नमोनमः
नमोऽस्तु रामदेवाय विष्णुदेवाय ते नमः । नमः सर्वात्मने तुभ्यं शि रइत्यभिपूजयेत् । केशवादीनि नामानि तैर्वा संपूजयेद्धरिम्
वनस्पतिरसो दिव्यः सुरभिर्गंधवाञ्छुचिः । धूपोऽयं देवदेवेश नमस्ते प्रतिगृह्यताम्