नमस्करोमि युष्मभ्यं महापापोपशांतये । इति वाक्यं समाकर्ण्य जगाद मुनिसत्तमः
शत्रुघ्न तव कल्याणं भूयान्नरवरर्षभ । यज्ञं पालयमानस्य कीर्तिस्ते विपुला भवेत्
चित्रं पश्यत भो विप्रा रामोऽपि मखकारकः । यन्नामस्मरणादीनि कुर्वंति पापनाशनम्
महापातकसंयुक्ताः परदाररता नराः । यन्नामस्मरणोद्युक्ता मुक्ता यांति परां गतिम्
पादपद्मसमुत्थेन रेणुना ग्रावमूर्तिभृत् । तत्क्षणाद्गौतमार्धांगी जाता मोहनरूपधृक्
मामकीयस्य रूपस्य ध्यानेन प्रेमनिर्भरा । सर्वपातकराशिं सा दग्ध्वा प्राप्ता सुरूपताम्
दैत्या यस्य मनोहारिरूपं प्रधनमण्डले । पश्यंतः प्रापुरेतस्य रूपं विकृतिवर्जितम्
योगिनो ध्याननिष्ठा ये यं ध्यात्वा योगमास्थिताः । संसारभयनिर्मुक्ताः प्रयाताः परमं पदम्
धन्योऽहमद्य रामस्य मुखं द्रक्ष्यामि शोभनम् । पयोजदलनेत्रांतं सुनसं सुभ्रुसून्नतम्
सा जिह्वा रघुनाथस्य नामकीर्तनमादरात् । करोति विपरीता या फणिनो रसना समा
अद्य प्राप्तं तपःपुण्यमद्य पूर्णा मनोरथाः । यद्द्रक्ष्ये रामचंद्रस्य मुखं ब्रह्मादिदुर्ल्लभम्
तत्पादरेणुना स्वांगं पवित्रं विदधाम्यहम् । विचित्रतरवार्ताभिः पावये रसनां स्वकाम्
इत्यादि रामचरणस्मरणप्रबुद्ध- प्रेमव्रजप्रसृतगद्गदवागुदश्रुः । श्रीरामचंद्र रघुपुंगवधर्ममूर्ते भक्तानुकंपकसमुद्धर संसृतेर्माम्
जल्पन्नश्रुकलापूर्णो मुनीनां पुरतस्तदा । नाज्ञासीत्तत्र पारक्यं निजं ध्यानेन संस्थितः
शत्रुघ्नस्तं मुनिं प्राह स्वामिन्नो मखसत्तमः । क्रियतां भवता पादरजसा सुपवित्रितः
महद्भाग्यं रघुपतेर्यद्युष्मन्मानसांतरे । तिष्ठत्यसौ महाबाहुः सर्वलोकसुपूजितः
इत्युक्तः सपरीवारः सर्वाग्निपरिसंवृतः । जगाम च्यवनस्तत्र प्रमोदह्रदसंप्लुतः
हनूमांस्तं पदायांतं रामभक्तमवेक्ष्य ह । शत्रुघ्नं निजगादासौ वचो विनयसंयुतः
स्वामिन्कथयसि त्वं चेन्महापुरुषसुंदरम् । रामभक्तं मुनिवरं नयामि स्वपुरीमहम्
इति श्रुत्वा महद्वाक्यं कपिवीरस्य शत्रुहा । आदिदेश हनूमंतं गच्छ प्रापयतं मुनिम्
हनूमांस्तं मुनिं स्वीये पृष्ठ आरोप्य वेगवान् । सकुटुंबं निनायाशु वायुः ख इव सर्वगः
आगतं तं मुनिं दृष्ट्वा रामो मतिमतां वरः । अर्घ्यपाद्यादिकं चक्रे प्रीतः प्रणयविह्वलः
धन्योऽस्मि मुनिवर्यस्य दर्शनेन तवाधुना । पवित्रितो मखो मह्यं सर्वसंभारसंभृतः
इति वाक्यं समाकर्ण्य च्यवनो मुनिसत्तमः । उवाच प्रेमनिर्भिन्न पुलकांगोऽतिनिर्वृतः
स्वामिन्ब्रह्मण्यदेवस्य तव वाडवपूजनम् । युक्तमेव महाराज धर्ममार्गं प्ररक्षितुः
शेष उवाच। शत्रुघ्नश्च्यवनस्याथ दृष्ट्वाऽचिंत्यं तपोबलम् । प्रशशंस तपो ब्राह्मं सर्वलोकैकवंदितम्
अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे । यः क्षणादेव दुष्प्रापं तद्विमानमचीकरत्
क्व भोगसिद्धिर्महती मुनीनाममलात्मनाम् । क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम्
इति स्वगतमाशंसञ्छत्रुघ्नश्च्यवनाश्रमे । क्षणं स्थित्वा जलं पीत्वा सुखसंभोगमाप्तवान्
हयस्तस्याः पयोष्ण्याख्या नद्याः पुण्यजलात्मनः । पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान्