इंद्रो मुक्तभुजोऽप्यासीत्तदानीं पुरुषर्षभ । एतद्वीक्ष्य जनाः सर्वे कौतुकाविष्टमानसाः
शशंसुर्ब्राह्मणबलं ते तु देवादिदुर्ल्लभम् । ततो राजा बहुधनं ब्राह्मणेभ्योऽददन्महान्
चक्रे चावभृथस्नानं यागांते शत्रुतापनः । त्वया पृष्टं यदाचक्ष्व च्यवनस्य महोदयम्
स मया कथितः सर्वस्तपोयोगसमन्वितः । नमस्कृत्वा तपोमूर्तिमिमं प्राप्य जयाशिषः
प्रेषय त्वं सपत्नीकं रामयज्ञे मनोरमे । शेष उवाच। एवं तु कुर्वतोर्वार्तां हयः प्रापाश्रमं प्रति
विदधद्वायुवेगेन पृथ्वीं खुरविलक्षिताम् । दूर्वांकुरान्मुखाग्रेण चरंस्तत्र महाश्रमे
मुनयो यावदादाय दर्भान्स्नातुं गता नदीम् । शत्रुघ्नः शत्रुसेनायास्तापनः शूरसंमतः
तावत्प्राप मुनेर्वासं च्यवनस्यातिशोभितम् । गत्वा तदाश्रमे वीरो ददर्श च्यवनं मुनिम्
सुकन्यायाः समीपस्थं तपोमूर्तिमिवस्थितम् । ववंदे चरणौ तस्य स्वाभिधां समुदाहरन्
शत्रुघ्नोहं रघुपतेर्भ्राता वाहस्य पालकः
नमस्करोमि युष्मभ्यं महापापोपशांतये । इति वाक्यं समाकर्ण्य जगाद मुनिसत्तमः
शत्रुघ्न तव कल्याणं भूयान्नरवरर्षभ । यज्ञं पालयमानस्य कीर्तिस्ते विपुला भवेत्
चित्रं पश्यत भो विप्रा रामोऽपि मखकारकः । यन्नामस्मरणादीनि कुर्वंति पापनाशनम्
महापातकसंयुक्ताः परदाररता नराः । यन्नामस्मरणोद्युक्ता मुक्ता यांति परां गतिम्
पादपद्मसमुत्थेन रेणुना ग्रावमूर्तिभृत् । तत्क्षणाद्गौतमार्धांगी जाता मोहनरूपधृक्
मामकीयस्य रूपस्य ध्यानेन प्रेमनिर्भरा । सर्वपातकराशिं सा दग्ध्वा प्राप्ता सुरूपताम्
दैत्या यस्य मनोहारिरूपं प्रधनमण्डले । पश्यंतः प्रापुरेतस्य रूपं विकृतिवर्जितम्
योगिनो ध्याननिष्ठा ये यं ध्यात्वा योगमास्थिताः । संसारभयनिर्मुक्ताः प्रयाताः परमं पदम्
धन्योऽहमद्य रामस्य मुखं द्रक्ष्यामि शोभनम् । पयोजदलनेत्रांतं सुनसं सुभ्रुसून्नतम्
सा जिह्वा रघुनाथस्य नामकीर्तनमादरात् । करोति विपरीता या फणिनो रसना समा
अद्य प्राप्तं तपःपुण्यमद्य पूर्णा मनोरथाः । यद्द्रक्ष्ये रामचंद्रस्य मुखं ब्रह्मादिदुर्ल्लभम्
तत्पादरेणुना स्वांगं पवित्रं विदधाम्यहम् । विचित्रतरवार्ताभिः पावये रसनां स्वकाम्
इत्यादि रामचरणस्मरणप्रबुद्ध- प्रेमव्रजप्रसृतगद्गदवागुदश्रुः । श्रीरामचंद्र रघुपुंगवधर्ममूर्ते भक्तानुकंपकसमुद्धर संसृतेर्माम्
जल्पन्नश्रुकलापूर्णो मुनीनां पुरतस्तदा । नाज्ञासीत्तत्र पारक्यं निजं ध्यानेन संस्थितः
शत्रुघ्नस्तं मुनिं प्राह स्वामिन्नो मखसत्तमः । क्रियतां भवता पादरजसा सुपवित्रितः
महद्भाग्यं रघुपतेर्यद्युष्मन्मानसांतरे । तिष्ठत्यसौ महाबाहुः सर्वलोकसुपूजितः
इत्युक्तः सपरीवारः सर्वाग्निपरिसंवृतः । जगाम च्यवनस्तत्र प्रमोदह्रदसंप्लुतः
हनूमांस्तं पदायांतं रामभक्तमवेक्ष्य ह । शत्रुघ्नं निजगादासौ वचो विनयसंयुतः
स्वामिन्कथयसि त्वं चेन्महापुरुषसुंदरम् । रामभक्तं मुनिवरं नयामि स्वपुरीमहम्
इति श्रुत्वा महद्वाक्यं कपिवीरस्य शत्रुहा । आदिदेश हनूमंतं गच्छ प्रापयतं मुनिम्