वैश्रंभके सुरवने नंदने पुष्पभद्रके । मानसे चैत्ररथ्ये च सरे मे रामया रतः
सुमतिरुवाच। एवं तया क्रीडमानः सर्वत्र धरणीतले । नाबुध्यत गतानब्दाञ्छतसंख्या परीमितान्
ततो ज्ञात्वाथव तद्विप्रः स्वकालपरिवर्तिनीम् । मनोरथैश्च संपूर्णां स्वस्यप्रियतमां वराम्
न्यवर्तताश्रमं श्रेष्ठं पयोष्णीतीरसंस्थितम् । निर्वैरजं तु जनतासंकुलं मृगसेवितम्
तत्रावसत्स सुतपाः शिष्यैर्वेदसमन्वितैः । सेवितांघ्रियुगो नित्यं तताप परमं तपः
कदाचिदथ शर्यातिर्यष्टुमैच्छत देवताः । तदा च्यवनमानेतुं प्रेषयामास सेवकान्
तैराहूतो द्विजवरस्तत्रागच्छन्महातपाः । सुकन्यया धर्मपत्न्या स्वाचार परिनिष्ठया
आगतं तं मुनिवरं पत्न्या पुत्र्या महायशाः । ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम्
राजा दुहितरं प्राह कृतपादाभिवंदनाम् । आशिषो न प्रयुंजानो नातिप्रीतमना इव
चिकीर्षितं ते किमिदं पतिस्त्वया । प्रलंभितो लोकनमस्कृतो मुनिः । त्वया जराग्रस्तमसंमतं पतिं । विहाय जारं भजसेऽमुमध्वगम्
कथं मतिस्तेऽवगतान्यथासतां कुलप्रसूतेः कुलदूषणं त्विदम् । बिभर्षि जारं यदपत्रपाकुलं पितुः स्वभर्तुश्च नयस्यधस्तमाम्
एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता । उवाच तात जामाता तवैष भृगुनंदनः
शशंस पित्रे तत्सर्वं वयोरूपाभिलंभनम् । विस्मितः परमप्रीतस्तनयां परिषस्वजे
सोमेनायाजयद्वीरं ग्रहं सोमस्य चाग्रहीत् । असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा
ग्रहं तु ग्राहयामास तपोबलसमन्वितः । वज्रं गृहीत्वा शक्रस्तु हंतुं ब्राह्मणसत्तमम्
अपंक्तिपावनौ देवौ कुर्वाणं पंक्तिगोचरौ । शक्रं वज्रधरं दृष्ट्वा मुनिः स्वहननोद्यतम्
हुंकारमकरोद्धीमान्स्तंभयामास तद्भुजम् । इंद्रः स्तब्धभुजस्तत्र दृष्टः सर्वैश्च मानवैः
कोपेन श्वसमानोऽहिर्यथा मंत्रनियंत्रितः । तुष्टाव स मुनिं शक्रः स्तब्धबाहुस्तपोनिधिम्
अश्विभ्यां भागदानं च कुर्वंतं निर्भयांतरम् । कथयामास भोः स्वामिन्दीयतामश्विनोर्बलि
मया न वार्यते तात क्षमस्वाघं महत्कृतम् । इत्युक्तः स मुनिः कोपं जहौ तूर्णं कृपानिधिः
इंद्रो मुक्तभुजोऽप्यासीत्तदानीं पुरुषर्षभ । एतद्वीक्ष्य जनाः सर्वे कौतुकाविष्टमानसाः
शशंसुर्ब्राह्मणबलं ते तु देवादिदुर्ल्लभम् । ततो राजा बहुधनं ब्राह्मणेभ्योऽददन्महान्
चक्रे चावभृथस्नानं यागांते शत्रुतापनः । त्वया पृष्टं यदाचक्ष्व च्यवनस्य महोदयम्
स मया कथितः सर्वस्तपोयोगसमन्वितः । नमस्कृत्वा तपोमूर्तिमिमं प्राप्य जयाशिषः
प्रेषय त्वं सपत्नीकं रामयज्ञे मनोरमे । शेष उवाच। एवं तु कुर्वतोर्वार्तां हयः प्रापाश्रमं प्रति
विदधद्वायुवेगेन पृथ्वीं खुरविलक्षिताम् । दूर्वांकुरान्मुखाग्रेण चरंस्तत्र महाश्रमे
मुनयो यावदादाय दर्भान्स्नातुं गता नदीम् । शत्रुघ्नः शत्रुसेनायास्तापनः शूरसंमतः
तावत्प्राप मुनेर्वासं च्यवनस्यातिशोभितम् । गत्वा तदाश्रमे वीरो ददर्श च्यवनं मुनिम्
सुकन्यायाः समीपस्थं तपोमूर्तिमिवस्थितम् । ववंदे चरणौ तस्य स्वाभिधां समुदाहरन्
शत्रुघ्नोहं रघुपतेर्भ्राता वाहस्य पालकः