एवं ब्रुवाणमबलाखिलयोगमाया । विद्याविचक्षणमवेक्ष्य गताधिरासीत् । संप्रश्रयप्रणयविह्वलया गिरेषद् । व्रीडाविलोकविलसद्धसिताननाह
सुकन्योवाच। राद्धं बत द्विजवृषैतदमोघयोग-। मायाधिपे त्वयि विभो तदवैमि भर्तः । यस्तेऽभ्यधायि समयः सकृदंगसंगो । भूयाद्गरीयसि गुणः प्रसवः सतीनाम्
तत्रेति कृत्यमुपशिक्ष्य यथोपदेशं । येनैष कर्शिततमोति रिरंसयात्मा । सिध्येत ते कृतमनोभव धर्षिताया । दीनस्तदीशभवनं सदृशं विचक्ष्व
सुमतिरुवाच। प्रियायाः प्रियमन्विच्छंश्च्यवनो योगमास्थितः । विमानं कामगं राजंस्तर्ह्येवाविरचीकरत्
सर्वकामदुघं रम्यं सर्वरत्नसमन्वितम् । सर्वार्थोपचयोदर्कं मणिस्तंभैरुपस्कृतम्
दिव्योपस्तरणोपेतं सर्वकालसुखावहम् । पट्टिकाभिः पताकाभिर्विचित्राभिरलंकृतम्
स्रग्भिर्विचित्रमालाभिर्मंजुसिंजत्षडंघ्रिभिः । दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्
उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक् । कॢप्तैः कशिपुभिः कांतं पर्यंकव्यजनादिभिः
तत्रतत्र विनिक्षिप्त नानाशिल्पोपशोभितम् । महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः
द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटकम् । शिखरेष्विंद्रनीलेषु हेमकुंभैरधिश्रितम्
चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः । जुष्टं विचित्रवैतानैर्मुक्ताहारावलंबितैः
हंसपारावतव्रातैस्तत्र तत्र निकूजितम् । कृत्रिमान्मन्यमानैस्तानधिरुह्याधिरुह्य च
विहारस्थानविश्राम संवेश प्रांगणाजिरैः । यथोपजोषं रचितैर्विस्मापनमिवात्मनः
एवं गृहं प्रपश्यंतीं नातिप्रीतेन चेतसा । सर्वभूताशयाभिज्ञः स्वयं प्रोवाच तां प्रति
निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह । सुभ्रूर्भर्तुः समादाय वचः कुवलयेक्षणा
सरजो बिभ्रती वासो वेणीभूतांश्च मूर्द्धजान् । अंगं च मलपंकेन संछन्नं शबलस्तनम्
आविवेश सरस्तत्र मुदा शिवजलाशयम् । सांतःसरसि वेश्मस्थाः शतानि दशकन्यकाः
सर्वाः किशोरवयसो ददर्शोत्पलगंधयः । तां दृष्ट्वा शीघ्रमुत्थाय प्रोचुः प्रांजलयः स्त्रियः
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् । स्नानेन ता महार्हेण स्नापयित्वा मनस्विनीम्
दुकूले निर्मले नूत्ने ददुरस्यै च मानद । भूषणानि परार्घ्यानि वरीयांसि द्युमंति च
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् । अथादर्शे स्वमात्मानं स्रग्विणं विरजोंबरम्
ताभिः कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् । हारेण च महार्हेण रुचकेन च भूषितम्
निष्कग्रीवं वलयिनं क्वणत्कांचननूपुरम् । श्रोण्योरध्यस्तया कांच्या कांचन्या बहुरत्नया
सुभ्रुवा सुदता शुक्लस्निग्धापांगेन चक्षुषा । पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम्
यदा सस्मार दयितमृषीणां वल्लभं पतिम् । तत्र चास्ते सहस्त्रीभिर्यत्रास्ते स मुनीश्वरः
भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा । निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत
सतां कृत मलस्नानां विभ्राजंतीमपूर्ववत् । आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम्
विद्याधरी सहस्रेण सेव्यमानां सुवाससम् । जातभावो विमानं तदारोहयदमित्रहन्
तस्मिन्नलुप्तमहिमा प्रिययानुषक्तो । विद्याधरीभिरुपचीर्णवपुर्विमाने । बभ्राज उत्कचकुमुद्गणवानपीच्य । स्ताराभिरावृत इवोडुपतिर्नभःस्थः
तेनाष्टलोकपविहारकुलाचलेंद्र -। द्रोणीष्वनंगसखमारुतसौभगासु । सिद्धैर्नुतोद्युधुनिपातशिवस्वनासु । रेमे चिरं धनदवल्ललनावरूथी