चरणौ सेवते तन्वी सर्वलक्षणलक्षिता । राजपुत्री सुंदरांगी फलमूलोदकाशना
नित्यं तद्वाक्यकरणे तत्परा पूजने रता । कालक्षेपं प्रकुरुते सर्वभूतहिते रता
विसृज्य कामं दंभं च द्वेषं लोभमघं मदम् । अप्रमत्तोद्यता नित्यं च्यवनं समतोषयत्
एवं तस्य प्रकुर्वाणा सेवां वाक्कायकर्मभिः । सहस्राब्दं महाराज सा च कामं मनस्यधात्
कदाचिद्देवभिषजावागतावाश्रमे मुनेः । स्वागतेन सुसंभाव्य तयोः पूजां चकार सा
शर्यातिकन्याकृतपूजनार्घ-। पाद्यादिना तोषितचित्तवृत्ती । तावूचतुः स्नेहवशेन सुंदरौ । वरं वृणुष्वेति मनोहरांगीम्
तुष्टौ तौ वीक्ष्य भिषजौ देवानां वरयाचने । मतिं चकार नृपतेः पुत्री मतिमतां वरा
पत्यभिप्रायमालक्ष्य वाचमूचे नृपात्मजा । दत्तं मे चक्षुषी पत्युर्यदि तुष्टौ युवां सुरौ
इत्येतद्वचनं श्रुत्वा सुकन्या या मनोहरम् । सतीत्वं च विलोक्येदमूचतुर्भिषजां वरौ
त्वत्पतिर्यदि देवानां भागं यज्ञे दधात्यसौ । आवयोरधुना कुर्वश्चक्षुषोः स्फुटदर्शनम्
च्यवनोऽप्योमिति प्राह भागदाने वरौजसोः । तदा हृष्टावश्विनौ तमूचतुस्तपतां वरम्
निमज्जतां भवानस्मिन्ह्रदे सिद्धविनिर्मिते । इत्युक्तो जरयाग्रस्त देहो धमनिसंततः
ह्रदं प्रवेशितोऽश्विभ्यां स्वयं चामज्जतां ह्रदे । पुरुषास्त्रय उत्तस्थुरपीच्या वनिताप्रियाः
रुक्मस्रजः कुंडलिनस्तुल्यरूपाः सुवाससः । तान्निरीक्ष्य वरारोहा सुरूपान्सूर्यवर्चसः
अजानती पतिं साध्वी ह्यश्विनौ शरणं ययौ । दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ
ऋषिमामंत्र्य ययतुर्विमानेन त्रिविष्टपम् । यक्ष्यमाणे क्रतौ स्वीयभागकार्याशयायुतौ
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया । प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत्
तुष्टोऽहमद्य तव भामिनि मानदायाः । शुश्रूषया परमया हृदि चैकभक्त्या । यो देहिनामयमतीव सुहृत्स्वदेहो । नावेक्षितः समुचितः क्षपितुं मदर्थे
ये मे स्वधर्मनिरतस्य तपः समाधि-। विद्यात्मयोगविजिता भगवत्प्रसादाः । तानेव ते मदनुसेवनयाऽविरुद्धान् । दृष्टिं प्रपश्य वितराम्यभयानशोकान्
अन्ये पुनर्भगवतो भ्रुव उद्विजृंभ-। विस्रंसितार्थरचनाः किमुरुक्रमस्य । सिद्धासि भुंक्ष्व विभवान्निजधर्मदोहान् । दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः
एवं ब्रुवाणमबलाखिलयोगमाया । विद्याविचक्षणमवेक्ष्य गताधिरासीत् । संप्रश्रयप्रणयविह्वलया गिरेषद् । व्रीडाविलोकविलसद्धसिताननाह
सुकन्योवाच। राद्धं बत द्विजवृषैतदमोघयोग-। मायाधिपे त्वयि विभो तदवैमि भर्तः । यस्तेऽभ्यधायि समयः सकृदंगसंगो । भूयाद्गरीयसि गुणः प्रसवः सतीनाम्
तत्रेति कृत्यमुपशिक्ष्य यथोपदेशं । येनैष कर्शिततमोति रिरंसयात्मा । सिध्येत ते कृतमनोभव धर्षिताया । दीनस्तदीशभवनं सदृशं विचक्ष्व
सुमतिरुवाच। प्रियायाः प्रियमन्विच्छंश्च्यवनो योगमास्थितः । विमानं कामगं राजंस्तर्ह्येवाविरचीकरत्
सर्वकामदुघं रम्यं सर्वरत्नसमन्वितम् । सर्वार्थोपचयोदर्कं मणिस्तंभैरुपस्कृतम्
दिव्योपस्तरणोपेतं सर्वकालसुखावहम् । पट्टिकाभिः पताकाभिर्विचित्राभिरलंकृतम्
स्रग्भिर्विचित्रमालाभिर्मंजुसिंजत्षडंघ्रिभिः । दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्
उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक् । कॢप्तैः कशिपुभिः कांतं पर्यंकव्यजनादिभिः
तत्रतत्र विनिक्षिप्त नानाशिल्पोपशोभितम् । महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः
द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटकम् । शिखरेष्विंद्रनीलेषु हेमकुंभैरधिश्रितम्