प्रह्लाद उवाच- यो वै सर्वोपनिषदामर्थः पुरुष ईश्वरः । तं वै सर्वगतं विष्णुं नमस्कृत्वा ब्रवीमि ते
रुद्र उवाच-। इति विष्णुस्तुतिं श्रुत्वा दैत्यराड् विस्मयान्वितः । उवाच तं गुरुं रोषात्किं त्वयोक्तं ममात्मजे
ममात्मजस्य दुर्बुद्धे हरिसंस्तवमीदृशम् । किमर्थमुक्तवान्जाड्यमकार्य्यं ब्राह्मणोचितम्
अश्राव्यं मदमित्रस्य स्तवमेतं ममाग्रतः । बालेनापिकृतंत्वेतत्त्वत्प्रसादाद्दिवजाधम
इत्युक्त्वा परितो वीक्ष्य दैत्यराट्क्रोधमूर्च्छितः । उवाच दैत्यमेकं तु बंधयैनं द्विजाधमम्
इतिराजवचः श्रुत्वा स बबंध भृगोः सुतम् । बध्यमानं गुरुं दृष्ट्वा प्रह्लादो ब्राह्मणप्रियः । उवाच पितरं तात इदं मे नोक्तवान्गुरुः
कृपया देवदेवस्य शिक्षितोस्मि हरेः प्रभो । नान्यो गुरुर्मे भवति स एव प्रेरको हरिः
श्रोता मंता तथा वक्ता द्रष्टा सर्वग ईश्वरः । हरिरेवाक्षयः कर्त्ता नियंता सर्वदेहिनाम् । तस्मादनागसो विप्रो मोक्तव्योऽयं गुरुः प्रभो
रुद्र उवाच- इति पुत्रवचः श्रुत्वा हिरण्यकशिपुस्ततः । तं ब्राह्मणं मोचयित्वा स्वसुतं प्राह विस्मयात्
किं वत्स त्वं भ्रमस्येवं मिथ्यावाक्यैर्द्विजन्मनः । को विष्णुः किं तु तद्रूपं कुत्रासौ संस्थितो हरिः
अहमेवेश्वरो लोके त्रैलोक्याधिपतिर्यतः । मामेवार्च्चय गोविंदं त्यज शत्रुं दुरासदम्
अथवा शंकरं देवं रुद्रं लोकगुरुं प्रभुम् । अर्च्चयस्वासुराध्यक्षं सर्वैश्वर्य्यप्रदं शिवम्
त्रिपुंड्रधारणं कृत्वा भस्मना दैत्यपूजितम् । पूजयित्वा महादेवं पाशुपत्योक्तमार्गतः
रुद्र उवाच- इति दैत्यपतेर्वाक्यं श्रुत्वा दैत्यपुरोहिताः
पुरोहिता ऊचुः- एवमेव महाभाग कुरुष्व वचनं पितुः । त्यज शत्रुं कैटभारिं पूजयस्व त्रिलोचनम्
रुद्रात्परतरो देवो नास्ति सर्वप्रदो नॄणाम् । पिता तवापि तस्यैव प्रसादादीश्वरोऽभवत्
रुद्र उवाच- इति तेषां वचः श्रुत्वा प्रह्लादो जन्मवैष्णवं
प्रह्लाद उवाच- अहो भगवतः श्रेष्ठा यन्माया मोहितं जगत् । अहो वेदांतविदुषः सर्वलोकेषु पूजिताः
ब्राह्मणा अपि चापल्याद्वदंत्येवं मदान्विताः । नारायणः परं ब्रह्म तत्वं नारायणः परम्
नारायणः परो ध्याता ध्यानं नारयणः परम् । गतिर्विश्वस्य जगतः शाश्वतं शिवमच्युतः
धाता विधाता जगतो वासुदेवः सनातनः । विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति
हिरण्मयवपुर्नित्यःपुंडरीकनिभेक्षणः । श्रीभूलीलापतिः सौम्योनिर्म्मलः शुभविग्रहः
तेनैव सृष्टौ ब्रह्मेशौ सर्गे देवोत्तमौ विभू । तस्यैवाज्ञां पुरस्कृत्य वर्त्तेते ब्रह्मशंकरौ
भीषास्माद्वाति पवनो भीषोदेति दिवाकरः । भीषास्मादग्निश्चंद्रोऽथ मृत्युर्धावति पंचमः
आसीदेको हरिर्दिव्यो देवो नारायणः परः । ब्रह्मा नेंद्रो न चेशानो न च चंद्र दिवाकरौ
न वा द्यावापृथिव्यौ च नक्षत्राणि दिवौकसः । तस्य विष्णोः परं धाम सदा पश्यंति सूरयः
एवं सर्वोपनिषदामर्थं हित्वा द्विजोत्तमाः । रागाल्लोभाद्भयाद्वापि किं ब्रवीथ ममाग्रतः
तं सर्वरक्षकं देवं त्यक्त्वा सर्वेश्वरं हरिम् । कथं पाषंडमाश्रित्य पूजयामि च शंकरम्
लक्ष्मीपतिं देवदेवमनंतं पुरुषोत्तमम् । इंदीवरदलश्यामं पद्मपत्रायतेक्षणम्
श्रीवत्सलक्षितोरस्कं सर्व्वाभरणभूषितम् । सदा कुमारं सर्व्वेशं नित्यानन्दसुखप्रदम्