करिष्यत्यश्वमेधं हि सर्वसंभारशोभितम् । तस्य भ्राता महावीरः शत्रुघ्नः परवीरहा
पालयन्हयमायास्यत्यत्र वीरादिभिर्वृतः । तस्मै सर्वं समर्प्य त्वं राज्यमृद्धं धनादिकम्
पालयिष्यसि योधैः स्वैर्धनुर्धारिभिरुद्भटैः । ततः पृथिव्यां सर्वत्र भ्रमिष्यसि महामते
ततो रामं नमस्कृत्य ब्रह्मेंद्रेशादिसेवितम् । मुक्तिं प्राप्स्यसि दुष्प्रापां योगिभिर्यमसाधनैः
तावत्कालमिहस्थास्ये यावद्रामहयागमः । पश्चात्त्वां तु समुद्धृत्य गंतास्मि परमं पदम्
इत्युक्त्वांतर्दधे देवी सुरासुरनमस्कृता । सुमदोऽप्यहिच्छत्रायां शत्रून्हत्वा नृपोऽभवत्
एष राजा समर्थोऽपि बलवाहनसंयुतः । न ग्रहीष्यति ते वाहं महामायासुशिक्षितः
श्रुत्वा प्राप्तं पुरी पार्श्वे हयमेधहयोत्तमम् । त्वां च सर्वैर्महाराजैः सेवितांघ्रिं महामतिम्
सर्वं दास्यति सर्वज्ञ राजा सुमदनामधृक् । अधुनातन्महाराज रामचंद्र प्रतापतः
शेष उवाच। इति वृत्तं समाकर्ण्य सुमदस्य महायशाः । साधुसाध्विति चोवाच जहर्ष मतिमान्बली
अहिच्छत्रापतिः सर्वैः स्वगणैः परिवारितः । सभायां सुखमास्ते यो बहुराजन्यसेवितः
ब्राह्मणा वेदविदुषो वैश्या धनसमृद्धयः । राजानं पर्युपासंते सुमदंशो भयान्वितम्
वेदविद्याविनोदेन न्यायिनो ब्राह्मणा वराः । आशीर्वदंति तं भूपं सर्वलोकैकरक्षकम्
एतस्मिन्समये कश्चिदागत्य नृपतिं जगौ । स्वामिन्न जाने कस्यास्ति हयः पत्रधरोंऽतिके
तच्छ्रुत्वा सेवकं श्रेष्ठं प्रेषयामास सत्वरः । जानीहि कस्य राज्ञोऽयमश्वो मम पुरांतिके
गत्वाथ सेवकस्तत्र ज्ञात्वा वृत्तांतमादितः । निवेदयामास नृपं महाराजन्यसेवितम्
स श्रुत्वा रघुनाथस्य हयं नित्यमनुस्मरन् । आज्ञापयामास जनं सर्वं राजाविशारदः
लोका मदीयाः सर्वे ये धनधान्यसमाकुलाः । तोरणादीनि गेहेषु मंगलानि सृजंत्विह
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः । गजोपरिसमारूढा यांतु शत्रुघ्नसंमुखम्
इत्यादिसर्वमाज्ञाप्य ययौ राजा स्वयं ततः । पुत्रपौत्रमहिष्यादिपरिवारसमावृतः
शत्रुघ्नः सुमहामात्यैः सुभटैः पुष्कलादिभिः । संयुतो भूपतिं वीरं ददर्श सुमदाभिधम्
हस्तिभिः सादिसंयुक्तैः पत्तिभिः परतापनैः । वाजिभिर्भूषितैर्वीरैः संयुतं वीरशोभितम्
अथागत्य महाराजः शत्रुघ्नं नतवान्मुदा । धन्योऽस्मि कृतकृत्योऽस्मि सत्कृतं च कृतं वपुः
इदं राज्यं गृहाणाशु महाराजोपशोभितम् । महामाणिक्यमुक्तादि महाधनसुपूरितम्
स्वामिंश्चिरं प्रतीक्षेऽहं हयस्यागमनं प्रति । कामाक्षाकथितं पूर्वं जातं संप्रति तत्तथा
विलोकय पुरं मह्यं कृतार्थान्कुरु मानवान् । पावयास्मत्कुलं सर्वं रामानुज महीपते
इत्युक्त्वारोहयामास कुंजरं चंद्रसुप्रभम् । पुष्कलं च महावीरं तथा स्वयमथारुहत्
भेरीपणवतूर्याणां वीणादीनां स्वनस्तदा । व्याप्नोति स्म महाराज सुमदेन प्रणोदितः
कन्याः समागत्य महानरेंद्रं -। शत्रुघ्नमिंद्रादिकसेवितांघ्रिम् । करिस्थिता मौक्तिकवृंदसंघै-। र्वर्धापयामासुरिनप्रयुक्ताः
शनैःशनैः समागत्य पुरीमध्ये जनैर्मुदा । वर्धापितो गृहं प्राप तोरणादिकभूषितम्