पिबामृतं मामकवक्त्रनिर्गतं । विमानमारुह्य वरं मया सह । सुमेरुशृंगं बहुपुण्यसेवितं । संप्राप्य भोगं कुरु सत्तपः फलम्
तिलोत्तमा यौवनरूपशोभिता । गृह्णातु ते मूर्धनि तापवारणम् । सुचामरौ संततधारयांकितौ । गंगाप्रवाहाविव सुंदरोत्तम
शृणुष्व भोः कामकथां मनोहरां । पिबामृतं देवगणादिवांछितम् । उद्यानमासाद्य च नंदनाभिधं । वरांगनाभिर्विहरं कुरु प्रभो
इत्युक्तमाकर्ण्य महामतिर्नृपो । विचारयामास कुतो ह्युपस्थिताः । मया सुसृष्टास्तपसा सुरांगनाः । प्रत्यूह एवात्र विधेयमेष किम्
इति चिंतातुरो राजा स्वांते संचिंतयन्सुधीः । जगाद मतिमान्वीरः सुमदो देवताङ्गनाः
यूयं तु ममचित्तस्था जगन्मातृस्वरूपकाः । मया संचिंत्यते या हि सापि त्वद्रूपिणी मता
इदं तुच्छं स्वर्गसुखं त्वयोक्तं सविकल्पकम् । मत्स्वामिनी मया भक्त्या सेविता दास्यते वरम्
यत्कृपातो विधिः सत्यलोकं प्राप्तो महानभूत् । सा मे दास्यति सर्वं हि भक्तदुःखांतकारिणी
किं नंदनं किं तु गिरिः कनकेन सुमण्डितः । किं सुधा स्वल्पपुण्येन प्राप्या दानवदुःखदा
इति वाक्यं समाकर्ण्य कामस्तु विविधैः शरैः । प्राहरन्नरदेवस्य कर्तुं किंचिन्न वै प्रभुः
कटाक्षैर्नूपुरारावैः परिरंभैर्विलोकनैः । न तस्य चित्तं विभ्रांतं कर्तुं शक्ता वरांगनाः
गत्वा यथागतं शक्रं जगदुर्धीरधीर्नृपः । तच्छ्रुत्वा मघवा भीतः सेवामारभतात्मनः
अथ निश्चितमालोक्य पादपद्मे स्वकेंऽबिका । जितेंद्रियं महाराजं प्रत्यक्षाभूत्सुतोषिता
पंचास्यपृष्ठललिता पाशांकुशधरावरा । धनुर्बाणधरा माता जगत्पावनपावनी
तां वीक्ष्य मातरं धीमान्सूर्यकोटिसमप्रभाम् । धनुर्बाणसृणीपाशान्दधानां हर्षमाप्तवान्
शिरसा बहुशो नत्वा मातरं भक्तिभाविताम् । हसंतीं निजदेहेषु स्पृशंतीं पाणिना मुहुः
तुष्टाव भक्त्युत्कलितचित्तवृत्तिर्महामतिः । गद्गदस्वरसंयुक्तः कंटकांगोपशोभितः
जय देवि महादेवि भक्तवृंदैकसेविते । ब्रह्मरुद्रादिदेवेंद्र सेवितांघ्रियुगेऽनघे
मातस्तव कलाविद्धमेतद्भाति चराचरम् । त्वदृते नास्ति सर्वं तन्मातर्भद्रे नमोस्तु ते
मही त्वयाऽधारशक्त्या स्थापिता चलतीह न । सपर्वतवनोद्यान दिग्गजैरुपशोभिता
सूर्यस्तपति खे तीक्ष्णैरंशुभिः प्रतपन्महीम् । त्वच्छक्त्या वसुधासंस्थं रसं गृह्णन्विमुंचति
अंतर्बहिः स्थितो वह्निर्लोकानां प्रकरोतु शम् । त्वत्प्रतापान्महादेवि सुरासुरनमस्कृते
त्वं विद्या त्वं महामाया विष्णोर्लोकैकपालिनः । स्वशक्त्या सृजसीदं त्वं पालयस्यपि मोहिनि
त्वत्तः सर्वे सुराः प्राप्य सिद्धिं सुखमयंति वै । मां पालय कृपानाथे वंदिते भक्तवल्लभे
रक्ष मां सेवकं मातस्त्वदीयचरणारणम् । कुरु मे वांछितां सिद्धिं महापुरुषपूर्वजे
सुमतिरुवाच। एवं तुष्टा जगन्माता वृणीष्व वरमुत्तमम् । उवाच भक्तं सुमदं तपसा कृशदेहिनम्
इत्येतद्वाक्यमाकर्ण्य प्रहृष्टः सुमदो नृपः । वव्रे निजं हृतं राज्यं हतदुर्जनकंटकम्
महेशीचरणद्वंद्वे भक्तिमव्यभिचारिणीम् । प्रांते मुक्तिं तु संसारवारिधेस्तारिणीं पुनः
कामाक्षोवाच। राज्यं प्राप्नुहि सुमद सर्वत्रहतकंटकम् । महिलारत्नसंजुष्टपादपद्मद्वयो भव
ततवैरिपराभूतिर्माभूयात्सुमदाभिध । यदा तु रावणं हत्वा रघुनाथो महायशाः