सुमतिरुवाच। हेमकूटो गिरिः पूतः सर्वदेवोपशोभितः । तत्रास्ति तीर्थं विमलमृषिवृंदसुसेवितम्
सुमदो हि तपस्तेपे हतमातृपितृप्रजः । अरिभिः सर्वसामंतैर्जगाम तपसे हि तम्
वर्षाणि त्रीणि सपदा त्वेकेन मनसा स्मरन् । जगतां मातरं दध्यौ नासाग्रस्तिमितेक्षणः
वर्षाणि त्रीणि शुष्काणां पर्णानां भक्षणं चरन् । चकार परमुग्रं स तपः परमदुश्चरम्
अब्दानि त्रीणि सलिले शीतकाले ममज्ज सः । ग्रीष्मे चचार पंचाग्नीन्प्रावृट्सु जलदोन्मुखः
त्रीणि वर्षाणि पवनं संरुध्य स्वांतगोचरम् । भवानीं संस्मरन्धीरो न च किंचन पश्यति
वर्षे तु द्वादशेऽतीते दृष्ट्वैतत्परमं तपः । विभाव्य मनसातीव शक्रः पस्पर्ध तं भयात्
आदिदेश सकामं तु परिवारपरीवृतम् । अप्सरोभिः सुसंयुक्तं ब्रह्मेंद्रादिजयोद्यतम्
गच्छ कामसखे मह्यं प्रियमाचर मोहन । सुमदस्य तपोविघ्नं समाचर यथा भवेत्
इति श्रुत्वा महद्वाक्यं तुरासाहः स्वयंप्रभुः । उवाच विश्वविजये प्रौढगर्वो रघूद्वह
काम उवाच। स्वामिन्कोऽसौ हि सुमदः किं तपः स्वल्पकं पुनः । ब्रह्मादीनां तपोभंगं करोम्यस्य तु का कथा
मद्बाणबलनिर्भिन्नश्चंद्रस्तारां गतः पुरा । त्वमप्यहल्यां गतवान्विश्वामित्रस्तु मेनिकाम्
चिंतां मा कुरु देवेंद्र सेवके मयि संस्थिते । एष गच्छामि सुमदं देवान्पालय मारिष
एवमुक्त्वा कामदेवो हेमकूटं गिरिं ययौ । वसंतेन युतः सख्या तथैवाप्सरसांगणैः
वसंतस्तत्र सकलान्वृक्षान्पुष्पफलैर्युतान् । कोकिलान्षट्पदश्रेण्या घुष्टानाशु चकार ह
वायुः सुशीतलो वाति दक्षिणां दिशमाश्रितः । कृतमालासरित्तीर लवंगकुसुमान्वितः
एवंविधे वने वृत्ते रंभानामाप्सरोवरा । सखीभिः संवृता तत्र जगाम सुमदांतिकम्
तत्रारभत गानं सा किन्नरस्वरशोभना । मृदंगपणवानेकवाद्यभेदविशारदा
तद्गानमाकर्ण्य नराधिपोऽसौ । वसंतमालोक्य मनोहरं च । तथान्यपुष्टारटितं मनोरमं । चकार चक्षुः परिवर्तनं बुधः
तं प्रबुद्धं नृपं वीक्ष्य कामः पुष्पायुधस्त्वरन् । चकार सत्वरं सज्यं धनुस्तत्पृष्ठतोऽनघ
एकाप्सरास्तत्र नृपस्य पादयोः । संवाहनं नर्तितनेत्रपल्लवा । चकार चान्या तु कटाक्षमोक्षणं । चकार काचिद्भृशमंगचेष्टितम्
अप्सरोभिस्तथाकीर्णः कामविह्वलमानसः । चिंतयामास मतिमाञ्जितेंद्रियशिरोमणिः
एता मे तपसो विघ्नकारिण्योऽप्सरसां वराः । शक्रेण प्रेषिताः सर्वाः करिष्यंति यथातथम्
इति संचिंत्य सुतपास्ता उवाच वरांगनाः । का यूयं कुत्र संस्थाः किं भवतीनां चिकीर्षितम्
अत्यद्भुतं जातमहो यद्भवत्योऽक्षिगोचराः । यास्तपोभिः सुदुष्प्राप्यास्ता मे तपस आगताः
शेष उवाच। इति वाक्यं समाकर्ण्य सुमदस्य तपोनिधेः । जगदुः कामसेनास्तं रंभाद्यप्सरसो मुदा
त्वत्तपोभिर्वयं कांत प्राप्ताः सर्ववरांगनाः । तासां यौवनसर्वस्वं भुंक्ष्व त्यज तपःफलम्
इयं घृताची सुभगा चंपकाभशरीरभृत् । कर्पूरगंधललितं भुनक्तु त्वन्मुखामृतम्
एतां महाभाग सुशोभिविभ्रमां । मनोहरांगीं घनपीनसत्कुचाम् । कांतोपभुंक्ष्वाशु निजोग्रपुण्यतः । प्राप्तां पुनस्त्वं त्यज दुःखजातम्
मामप्यनर्घ्याभरणोपशोभितां । मंदारमालापरिशोभिवक्षसम् । नानारताख्यानविचारचंचुरां । दृढं यथा स्यात्परिरंभणं कुरु