दृढं सपरिरभ्यैतां चिरमाश्वासयत्तदा । वीरपत्नि कांतिमति विरहं मा कृथा मम
एष गच्छामि सविधे तव भामे पतिव्रते । इत्युक्त्वा तां निजां पत्नीं रथमारुरुहे वरम्
तं प्रयांतं पतिं श्रेष्ठं नयनैर्निमिषोज्झितैः । विलोकयामास तदा पतिव्रतपरायणा
स ययौ जनकं द्रष्टुं जननीं प्रेमविह्वलाम् । गत्वा पितरमंबां च ववंदे शिरसा मुदा
माता पुत्रं परिष्वज्य स्वांकमारोपयत्तदा । मुंचंती बाष्पनिचयं स्वस्त्यस्त्विति जगाद सा
पितरं प्राह भरतं रामो यज्ञकरः परः । पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः
आज्ञप्तोऽसौ जनन्या च पित्रा हृषितया गिरा । ययौ शत्रुघ्नकटकं महावीरविभूषितम्
रथिभिः पत्तिभिर्वीरैः सदश्वैः सादिभिर्वृतः । ययौ मुदा रघूत्तंस महायज्ञहयाग्रणीः
गच्छन्पांचालदेशांश्च कुरूंश्चैवोत्तरान्कुरून् । दशार्णाञ्छ्रीविशालांश्च सर्वशोभासमन्वितः
तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलम् । रावणासुरघातेन भक्तरक्षाविधायकम्
पुनश्च हयमेधादि कार्यमारभ्य पावनम् । यशो वितन्वन्भुवने लोकान्रामोऽविता भयात्
तेभ्यस्तुष्टो ददौ हारान्रत्नानि विविधानि च । महाधनानि वासांसि शत्रुघ्नः प्रवरो महान्
सुमतिर्नाम तेजस्वी सर्वविद्याविशारदः । रघुनाथस्य सचिवः शत्रुघ्नानुचरो वरः
ययौ तेन महावीरो ग्रामाञ्जनपदान्बहून् । रघुनाथप्रतापेन न कोपि हृतवान्हयम्
देशाधिपाये बहवो महाबलपराक्रमाः । हस्त्यश्वरथपादात चतुरंगसमन्विताः
संपदो बहुशो नीत्वा मुक्तामाणिक्यसंयुताः । शत्रुघ्नं हयरक्षार्थमागतं प्रणता मुहुः
इदं राज्यं धनं सर्वं सपुत्रपशुबांधवम् । रामचंद्रस्य सर्वं हि न मदीयं रघूद्वह
एवं तदुक्तमाकर्ण्य शत्रुघ्नः परवीरहा । आज्ञां स्वां तत्र संज्ञाप्य ययौ तैः सहितः पथि
एवं क्रमेण संप्राप्तः शत्रुघ्नो हयसंयुतः । अहिच्छत्रां पुरीं ब्रह्मन्नानाजनसमाकुलाम्
ब्रह्मद्विजसमाकीर्णां नानारत्नविभूषिताम् । सौवर्णैः स्फाटिकैर्हर्म्यैर्गोपुरैः समलंकृताम्
यत्र रंभा तिरस्कारकारिण्यः कमलाननाः । दृश्यंते सर्वहर्म्येषु ललना लीलयान्विताः
यत्र स्वाचारललिताः सर्वभोगैकभोगिनः । धनदानुचरायद्वत्तथा लीलासमन्विताः
यत्र वीरा धनुर्हस्ताःशरसंधानकोविदाः । कुर्वंति तत्र राजानं सुहृष्टं सुमदाभिधम्
एवंविधं ददर्शासौ नगरं दूरतः प्रभुः । पार्श्वे तस्य पुरश्रेष्ठमुद्यानं शोभयान्वितम्
पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः । अशोकैः पाटलैश्चूतैर्मंदारैःकोविदारकैः
आम्रजंबुकदंबैश्च प्रियालपनसैस्तथा । शालैस्तालैस्तमालैश्च मल्लिकाजातियूथिभिः
नीपैः कदंबैर्बकुलैश्चंपकैर्मदनादिभिः । शोभितं सददर्शाथशत्रुघ्नःपरवीरहा
हयोगतस्तद्वनमध्यदेशे । तमालतालादि सुशोभिते वै । ययौ ततः पृष्ठत एव वीरो । धनुर्धरैः सेवितपादपद्मः
ददर्श त रचितं देवायतनमद्भुतम् । इंद्रनीलैश्च वैडूर्यैस्तथा मारकतैरपि
शोभितं सुरसेवार्हं कैलासप्रस्थसन्निभम् । जातरूपमयैः स्तंभैःशोभितं सद्मनां वरम्