नाथ ते विजयोभूयात्सर्वत्र रणमंडले । शत्रुघ्नाज्ञा प्रकर्तव्या हयरक्षा यथा भवेत्
स्मरणीया हि सर्वत्र सेविका त्वत्पदानुगा । कदापि मानसं नाथ त्वत्तो नान्यत्र गच्छति
परमायोधने कांत स्मर्तव्याहं न जातुचित् । सत्यां मयि तव स्वांते युद्धे 3विजयसंशयः
पद्मनेत्र तथा कार्यमूर्मिलाद्या यथा मम । हास्यं नैव प्रकुर्वंति मां वीक्ष्य करताडनैः
इयं पत्नी महाभीरोः संग्रामे प्रपलायितुः । कातरा यर्हि युद्ध्यंति शूराणां समयः कुतः
इत्येवं न हसंत्युच्चैर्यथा मे देवरांगनाः । तथा कार्यं महाबाहो रामस्य हयरक्षणे
योद्धा त्वमादौ सर्वत्र परे ये तव पृष्ठतः । धनुष्टंकारबधिराः क्रियंतां बलिनः परे
तवप्रोद्यत्करांभोज करवालभिया बलम् । परेषां भवतात्क्षिप्रमन्योन्य भयव्याकुलम्
कुलं महदलं कार्यं परान्विजयता त्वया । गच्छ स्वामिन्महाबाहो तव श्रेयो भवत्विह
इदं धनुर्गृहाणाशु महद्गुणविभूषितम् । यस्य गर्जितमाकर्ण्य वैरिवृंदं भयातुरम्
इमौ ते त्विषुधी वीर बध्येतां शं यथा भवेत् । वैरिकोटिविनिष्पेष बाणकोटि सुपूरितौ
कवचं त्विदमाधेहि शरीरे कामसुंदरे । वज्रप्रभा महादीप्ति हतसंतमसंदृढम्
शिरस्त्राणं निजोत्तंसे कुरु कांत मनोरमम् । इमेव तंसे विशदे मणिरत्नविभूषिते
इति सुविमलवाचं वीरपुत्रीं प्रपश्यन् । नयनकमलदृष्ट्या वीक्षमाणस्तंदंगम् । अधिगतपरिमोदो भारतिः शत्रुजेता । रणकरणसमर्थस्तां जगादातिधीरः
पुष्कल उवाच। कांते यत्त्वं वदसि मां तथा सर्वं चराम्यहम् । वीरपत्नी भवेत्कीर्तिस्तव कांतिमतीप्सिता
इति कांतिमतीदत्तं कवचं मुकुटं वरम् । धनुर्महेषुधीखड्गं सर्वं जग्राह वीर्यवान्
परिधाय च तत्सर्वं बहुशो भासमन्वितः । शुशुभेऽतीव सुभटः सर्वशस्त्रास्त्रकोविदः
तमस्त्रशस्त्रशोभाढ्यं वीरमालाविभूषितम् । कुंकुमागुरुकस्तूरी चंदनादिकचर्चितम्
नानाकुसुममालाभिराजानुपरिशोभितम् । नीराजयामास मुहुस्तत्र कांतिमती सती
नीराजयित्वा बहुशः किरंती मौक्तिकैर्मुहुः । गलदश्रुचलन्नेत्रा परिरेभे पतिं निजम्
दृढं सपरिरभ्यैतां चिरमाश्वासयत्तदा । वीरपत्नि कांतिमति विरहं मा कृथा मम
एष गच्छामि सविधे तव भामे पतिव्रते । इत्युक्त्वा तां निजां पत्नीं रथमारुरुहे वरम्
तं प्रयांतं पतिं श्रेष्ठं नयनैर्निमिषोज्झितैः । विलोकयामास तदा पतिव्रतपरायणा
स ययौ जनकं द्रष्टुं जननीं प्रेमविह्वलाम् । गत्वा पितरमंबां च ववंदे शिरसा मुदा
माता पुत्रं परिष्वज्य स्वांकमारोपयत्तदा । मुंचंती बाष्पनिचयं स्वस्त्यस्त्विति जगाद सा
पितरं प्राह भरतं रामो यज्ञकरः परः । पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः
आज्ञप्तोऽसौ जनन्या च पित्रा हृषितया गिरा । ययौ शत्रुघ्नकटकं महावीरविभूषितम्
रथिभिः पत्तिभिर्वीरैः सदश्वैः सादिभिर्वृतः । ययौ मुदा रघूत्तंस महायज्ञहयाग्रणीः
गच्छन्पांचालदेशांश्च कुरूंश्चैवोत्तरान्कुरून् । दशार्णाञ्छ्रीविशालांश्च सर्वशोभासमन्वितः
तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलम् । रावणासुरघातेन भक्तरक्षाविधायकम्