इत्युक्त्वा प्रययौ वीरो रामं स मखमंडपे । आसीनं मुनिवर्याग्र्यैर्यज्ञवेषधरं वरम्
उवाच मतिमान्वीरः सर्वशोभासमन्वितः । रामाज्ञापय रक्षार्थं हयस्यानुज्ञया तव
रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीत् । बालं स्त्रियं प्रमत्तं त्वं मा हन्याः शस्त्रवर्जितम्
तदा लक्ष्मीनिधिर्भ्राता जानक्या जनकात्मजः । प्रहस्य किंचिन्नयने नर्तयन्राममब्रवीत्
लक्ष्मीनिधिरुवाच। रामचंद्र महाबाहो सर्वधर्मपरायण । शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेत्
कुलोचितं कर्म कुर्वन्नग्रजाचरितं तथा । गच्छेत्स परमं धाम तेजोबलसमन्वितम्
त्वया प्रोक्तं महाराज ब्राह्मणं नावमानयेत् । पित्रा तव हतो विप्रः पितृभक्तिपरायणः
त्वयापि सुमहत्कर्म कृतं लोकविगर्हितम् । अवध्यां महिलां यस्त्वं हतवान्नियतं ततः
अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम् । सनकेन कृतः पूर्वं राक्षस्याः कर्णकर्तनम्
एवं करिष्यति नृपः शत्रुघ्नः शिक्षया तव । यदि नायं तथा कुर्यात्कुलस्यासदृशं भवेत्
इत्युक्तवंतं तं रामः प्रत्युवाच हसन्निव । मेघगंभीरया वाचा सर्ववाक्यविशारदः
शृण्वंतु योगिनः शांताः समदुःखसुखाः पुनः । जानंत्यपारसंसारनिस्तारतरणादिकम्
ये शूराः समहेष्वासाः सर्वशस्त्रास्त्रकोविदाः । ते च जानंति युद्धस्य वार्त्तां न तु भवादृशाः
परोपतापिनो ये वै ये चोत्पथविसारिणः । ते हंतव्या नृपैः सर्वैः सर्वलोकहितैषिभिः
इत्युक्तमाकर्ण्य सभासदस्ते सर्वे स्मितं चक्रुररिंदमस्य । कुंभोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि
इमं मंत्रं समुच्चार्य वसिष्ठः कलशोद्भवः । कराग्रेण स्पृशन्नश्वं मुमोच जयकांक्षया
वाजिन्गच्छ यथालीलं सर्वत्र धरणीतले । यागार्थे मोचितो येन पुनरागच्छ सत्वरः
अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः । परीतः प्रययौ प्राचीं दिशं वायुजवान्वितः
प्रचचार बलं सर्वं कंपयद्धरणीतलम् । शेषोऽपि किंचिन्न तया फणया धृतवान्भुवम्
दिशः प्रसेदुः परितः क्ष्मातलं शोभयान्वितम् । वायवस्तं तु शत्रुघ्नं पृष्ठतो मंदगामिनः
शत्रुघ्नस्य प्रयाणायाभ्युद्य तस्य भुजोऽस्फुरत् । दक्षिणः शुभमाशंसी जयाय च बभूव ह
पुष्कलः स्वगृहं रम्यं प्रविवेश समृद्धिमत् । वितर्दिभिर्वलक्षाभिः शोभितं रत्नवेदिकम्
तत्रापश्यन्निजां भार्यां पतिव्रतपरायणाम् । किंचित्स्वदर्शनाद्धृष्टां भर्तृदर्शनलालसाम्
मुखारविंदेन च नागवल्लीदलं सुकर्पूरयुतं च चर्वती । नासाफलं तोयभवं महाधनं बाह्वोर्मृणालीसदृशोः सुकंकणे
कुचौ तु मालूरफलोपमौ वरौ नितंबबिंबं वरनीवि शोभितम् । पादौ तुलाकोटिधरौ सुकोमलौ दधत्यहो एक्षत सत्पतिं स्वकम्
परिरभ्य प्रियां धीरो गद्गदस्वरभाषिणीम् । तदुरोजपरीरंभनिर्भरीकृतदेहकाम्
उवाच भद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः । रामाज्ञया याज्ञमश्वं पालयन्रथसंयुतः
त्वया मे मातरः पूज्याः पादसंवाहनादिमिः । तदुच्छिष्टं हि भुंजाना तत्कर्मकरणादरा
सर्वाः पतिव्रता नार्यो लोपामुद्रादिकाः शुभाः । नावमान्यास्त्वया भीरु स्वतपोबलशोभिताः
शेष उवाच। इत्युक्तवंतं स्वपतिं वीक्ष्य प्रेम्णा सुनिर्भरम् । प्रत्युवाच हसंतीव किंचिद्गद्गदभाषिणी