अथादिशन्महाराजो जांबवंतं कपीश्वरम् । रघुनाथस्य सेवायै कपिषूत्तमतेजसम्
अंगदो गवयो मैंदस्तथा दधिमुखः कपिः । सुग्रीवः प्लवगाधीशः शतवल्यक्षिकौ कपी
नीलो नलो मनोवेगोऽधिगंता वानरांगजः । इत्येवमादयो यूयं सज्जीभूता भवंतु भोः
सर्वैर्गजैः सदश्वैश्च तप्तहाटकभूषणैः । कवचैः सशिरस्त्राणैर्भूषितायां तु सत्वराः
शेष उवाच। सुमंत्रमाहूय सुमंत्रिणं तदा जगाद रामो बलवीर्यशोभनः । अमात्यमौले वद केऽत्र योज्या नरा हयं पालयितुं समर्थाः
तदुक्तमेवमाकर्ण्य जगाद परवीरहा । हयस्य रक्षणे योग्यान्बलिनोऽत्र नराधिपान्
रघुनाथ शृणुष्वैतान्नववीरान्सुसंहितान् । धनुर्धरान्महाविद्यान्सर्वशस्त्रास्त्रकोविदान्
प्रतापाग्र्यं नीलरत्नं तथा लक्ष्मीनिधिं नृपम् । रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम्
राजन्योऽसौ नीलरत्नो महावीरो रथाग्रणीः । स एव लक्षं रक्षेत लक्षं युध्येत निर्भयः
अक्षौहिणीभिर्दशभिर्यातु वाहस्य रक्षणे । दंशितैस्स शिरस्त्राणैर्मम बाहुभिरुद्धतैः
प्रतापाग्र्यो यो ह्ययं च रिपुगर्वमशातयत् । सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः
एषोऽक्षौहिणिविंशत्या यातु यज्ञहयावने । सन्नद्धो रिपुनाशाय युवाको दंडदंडभृत्
तथा लक्ष्मीनिधिस्त्वेष यातु राजन्यसत्तमः । यस्तपोभिः शतधृतिं प्रसाद्यास्त्राणि चाभ्यसत्
ब्रह्मास्त्रं पाशुपत्यास्त्रं गारुडं नागसंज्ञितम् । मायूरं नाकुलं रौद्रं वैष्णवं मेघसंज्ञितम्
वज्रं पार्वतसंज्ञं च तथा वायव्यसंज्ञितम् । इत्यादिकानामस्त्राणां संप्रयोगविसर्गवित्
स एष निजसैन्यानामक्षौहिण्यैकया युतः । प्रयातु शूरमुकुटः सर्ववैरिप्रभंजनः
रिपुतापोऽयमेवाद्य गच्छत्वग्र्यो धनुर्भृताम् । सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः
गच्छतात्सेनया बह्व्या चतुरंगसमेतया । शत्रुघ्नाज्ञां शिरस्येते दधत्वद्य बलोत्कटाः
उग्राश्वोऽपि महाराजा तथा शस्त्रविदेष च । सर्वे यांतु सुसंनद्धास्तव वाहस्य पालकाः
इति भाषितमाकर्ण्य मंत्रिणः प्रजहर्ष च । आज्ञापयामास च तान्सुमंत्रकथितान्भटान्
तेऽनुज्ञां रघुनाथस्य प्राप्य मोदं प्रपेदिरे । चिरकालं सांपरायं वांच्छंतो युद्धदुर्मदाः
सन्नद्धाः कवचाद्यैश्च तथा शस्त्रास्त्रवर्तनैः । ययुः शत्रुघ्नसंवासं सीतापति प्रणोदिताः
शेष उवाच। अथोक्त ऋषिणा रामो विधिना पूजयत्क्रमात् । आचार्यादीनृषीन्सर्वान्यथोक्तवरदक्षिणैः
आचार्याय ददौ रामो हस्तिनं षष्टिहायनम् । हयमेकं मनोवेगं रत्नमालाविभूषितम्
पौरटं रथमेकं च मणिरत्नविभूषितम् । चतुर्भिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतम्
मणिलक्षं तु प्रत्यक्षं मुक्ताफलतुलाशतम् । विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसाम्
ग्राममेकं सुसंपन्नं नानाजनसमाकुलम् । विचित्रसस्यनिष्पन्नं विविधैर्मंदिरैर्वृतम्
ब्रह्मणेऽपि तथैवादाद्धोत्रेऽप्यध्वर्यवे ददौ । ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः
सर्वे ते विविधा वाग्भिराशीर्भिरभिपूजिताः । चिरंजीव महाराज रामचन्द्र रघूद्वह
कन्यादानं भूमिदानं गजदानं तथैव च । अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम्