विश्वतः पाणिपच्चक्षुर्महादंष्ट्रो महाभुजः । दंष्ट्रैकया तु तं दैत्यं जघान परमेश्वरः
संचूर्णितमहागात्रो ममार दितिजाधमः । पतितां धरणीं दृष्ट्वा दंष्ट्रयोद्धृत्य पूर्ववत्
संस्थाप्य धारयामास शेषे कूर्म्मवपुस्तदा । तं दृष्ट्वा देवताः सर्व्वे क्रोडरूपं महाहरिम् । तुष्टुवुर्म्मुनयश्चैव भक्तिनम्रात्ममूर्त्तयः
देवा ऊचुः- नमो यज्ञवराहाय नमस्ते शतबाहवे । नमस्ते देवदेवाय नमस्ते विश्वरूपिणे
नमः स्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे । कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे
भूतात्मने नमस्तुभ्यमृग्वेदवपुषे तथा । सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः
ॐकाराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे । ऋचःस्वरूपिणे चैव चतुर्वेदमयाय च
नमस्ते वेदवेदाङ्ग सांगोपांगाय ते नमः । गोविंदाय नमस्तुभ्यमनादिनिधनाय च
नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे । श्रीभूलीलाधिपतये जगत्पित्रे नमोनमः
रुद्र उवाच- इत्यादि स्तुतिभिः स्तुत्वा देवं वाराहरूपिणम् । अर्च्चयामासुरात्मेशं गंधपुष्पादिभिर्हरिम्
समर्च्यमानस्तैर्देवैस्तेषामिष्टं वरं ददौ । गंधर्वैरप्सरोभिश्च गायमानो मुदा हरिः
महर्षिभिः स्तूयमानस्तत्रैवांतरधीयत । एभिः स्तुत्वा नरो भक्त्या प्रातरुत्थाय भक्तिमान्
ईप्सितांल्लभते भूमिं चिरं सस्यफलान्विताम् । एतत्ते सर्वमाख्यातं वाराहवैभवं हरैः । नारसिंहं तथा वक्ष्ये शृणु देवि वरानने
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे। वराहावतारकथनंनाम सप्तत्रिंशदधिकद्विशततमोऽध्यायः
रुद्र उवाच- भ्रातरं निहतं ज्ञात्वा हिरण्यकशिपुस्ततः । तपस्तेपे महादैत्यो मेरोः पार्श्वे च मां प्रति
दिव्यवर्षसहस्राणि वायुभक्षो महाबलः । जपन्पंचाक्षरं मंत्रं पूजयामास मां शुभे
ततः प्रहृष्टमनसा तमवोचं महासुरम् । वरं वृणीष्व दैतेय यत्ते मनसि वर्त्तते । ततः प्रोवाच दैतेयो मां प्रसन्नं शुभानने
हिरण्यकशिपुरुवाच- देवासुरमनुष्याणां गंधर्वोरगरक्षसाम् । पशुपक्षिमृगाणां च सिद्धानां वै महात्मनाम्
यक्षविद्याधराणां च किन्नराणां तथैव च । सर्वेषामेव रोगाणामायुधानां तथैव च । सर्वेषामृषिमुख्यानामवध्यत्वं प्रयच्छ मे
रुद्र उवाच- एवमस्त्विति तद्रक्षस्त्वब्रुवं प्रियदर्शने । मत्तो महद्वरं प्राप्य स दैतेयो महाबलः
जित्वा महेंद्रं देवांश्च स त्रैलोक्येश्वरोऽभवत् । सर्वांश्च यज्ञभागांश्च स्वयमेवाग्रहीद्बलात्
त्रातारं नाधिगच्छंति देवतास्तेन निर्जिताः । तस्यैव किंकराः सर्वे गंधर्वा देवदानवाः
यक्षाश्चनागाः सिद्धाश्च साध्याश्च वशवर्तिनः । उत्तानपादस्य सुतां कल्याणीं नाम कन्यकाम्
उपयेमे विधानेन दैत्यराजो महाबलः । तस्यां जातो महातेजाः प्रह्लादो दैत्यराट्शुभे
अनुरक्तो हृषीकेशे गर्भवासेऽपि यो हरौ । सर्वावस्थासु कृत्येषु मनोवाक्कायकर्म्मभिः
नान्यं जानाति देवेशात्प्रसन्नात्मा सनातनात् । स कालेऽपि विनीतः सन्गुरुगेहे वसत्सुधीः
अधीत्य सर्ववेदांश्च शास्त्राणि विविधानि च । कस्यचित्त्वथ कालस्य गुरुणा सह दैत्यजः
पितुः समीपमागत्य ववंदे विनयान्वितः । तं परिष्वज्य बाहुभ्यां तनयं शुभलक्षणम् । अंके निधाय दैत्येंद्रः प्रोवाचेदं सुविस्मितम्
हिरण्यकशिपुरुवाच- प्रह्लाद चिरकालं त्वं गुरुगेहे निवेशितः । यदुक्ता गुरुणा विद्या तन्ममाचक्ष्व सुव्रत
रुद्र उवाच- इति पृष्टः स्वपित्रा वै प्रह्लादो जन्मवैष्णवः । प्राह दैत्येश्वरं प्रीत्या वचनं कलुषापहम्