यो हन्याद्विमदं मत्तं सुप्तं मग्नं भयातुरम् । तावकोऽहं ब्रुवाणं च स व्रजत्यधमां गतिम्
परस्वे चित्तवृत्तिं त्वं मा कृथाः पारदारिके । नीचे रतिं न कुर्वीथाः सर्वसद्गुणपूरितः
वृद्धानां प्रेरणं पूर्वं मा कुर्वीथा रणं जय । पूज्यपूजातिक्रमं त्वं मा विधेहि दयान्वितः
गां विप्रं च नमस्कुर्या वैष्णवं धर्मसंयुतम् । अभिवाद्य यतो गच्छेस्तत्र सिद्धिमवाप्नुयाः
विष्णुः सर्वेश्वरः साक्षी सर्वव्यापकदेहभृत् । ये तदीया महाबाहो तद्रूपा विचरंति हि
ये स्मरंति महाविष्णुं सर्वभूतहृदि स्थितम् । ते मंतव्या महाविष्णु समरूपा रघूद्वह
यस्य स्वीयो न पारक्यो यस्य मित्रसमो रिपुः । ते वैष्णवाः क्षणादेव पापिनं पावयंति हि
येषां प्रियं भागवतं येषां वै ब्राह्मणाः प्रियाः । वैकुंठात्प्रेषितास्तेऽत्र लोकपावनहेतवे
येषां वक्त्रे हरेर्नाम हृदि विष्णुः सनातनः । उदरे विष्णुनैवेद्यः स श्वपाकोऽपि वैष्णवः
येषां वेदाः प्रियतमा न च संसारजं सुखम् । स्वधर्मनिरता ये च तान्नमस्कुर्विहान्वितान्
शिवे विष्णौ न वा भेदो न च ब्रह्ममहेशयोः । तेषां पादरजः पूतं वहाम्यघविनाशनम्
गौरी गंगा महालक्ष्मीर्यस्य नास्ति पृथक्तया । ते मंतव्या नराः सर्वे स्वर्गलोकादिहागताः
शरणागतरक्षी च मानदानपरायणः । यथाशक्ति हरेः प्रीत्यै स ज्ञेयो वैष्णवोत्तमः
यस्य नाम महापापराशिं दहति सत्वरम् । तदीय चरणद्वंद्वे भक्तिर्यस्य स वैष्णवः
इंद्रियाणि वशे येषां मनोऽपि हरिचिंतकम् । तान्नमस्कृत्य पूयात्सह्या जन्ममरणांतिकात्
परस्त्रियं त्वं करवालवत्त्यजन्भवेर्यशोभूषणभूतिभूमिः । एवं ममादेशमथाचरंश्च लभेः परं धाम सुयोगमीड्यम्
शेष उवाच। एवमाज्ञाप्य भगवान्रामश्चामित्रकर्षणः । वीरानालोकयन्भूयो जगाद शुभया गिरा
शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै । को गंता पृष्ठतो रक्षंस्तन्निदेशप्रपालकः
यः सर्ववीरान्प्रतिमुख्यमागतान्विनिर्जयेन्मर्मभिदस्त्रसंघैः । गृह्णात्वसौ मे करवीटकं तद्भूमौ यशः स्वं प्रथयन्सुविस्तरम्
इत्युक्तवति रामे तु पुष्कलो भरतात्मजः । जग्राह वीटकं तस्माद्रघुराजकरांबुजात्
स्वामिन्गच्छामि शत्रुघ्न पृष्ठरक्षाकरोऽन्वहम् । सन्नद्धः सर्वशस्त्रास्त्र चापबाणधरः प्रभो
सर्वमद्य क्षितितलं त्वत्प्रतापो विजेष्यते । एते निमित्तभूता वै रामचंद्र महामते
भवत्कृपातः सकलं ससुरासुरमानुषम् । उपस्थितं प्रयुद्धाय तन्निषेधे क्षमो ह्यहम्
सर्वं स्वामी ज्ञास्यति यन्ममविक्रम दर्शनात् । एष गंतास्मि शत्रुघ्न पृष्ठरक्षाप्रकारकः
एवं ब्रुवंतं भरतात्मजं स प्रस्तूय साध्वित्यनुमोदमानः । शशंस सर्वान्कपिवीरमुख्यान्प्रभंजनोद्भूतमुखान्हरिः प्रभुः
भो हनूमन्महावीर शृणु मद्वाक्यमादृतः । त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकंटकम्
सीतया मम संयोगे यो भवाञ्जलधिं तरेः । चरितं तद्धरे वेद्मि सर्वं तव कपीश्वर
त्वं गच्छ मम सैन्यस्य पालकः सन्ममाज्ञया । शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा
यत्र यत्र मतिभ्रंशः शत्रुघ्नस्य प्रजायते । तत्र तत्र प्रबोद्धव्यो भ्राता मम महामते
इति श्रुत्वा महद्वाक्यं रामचंद्रस्य धीमतः । शिरसा तत्समाधाय प्रणाममकरोत्तदा