श्वेतातपत्ररचितः सितचामरशोभितः । बहुशोभापरीतांगो निर्ययौ हयराट्ततः
अग्रतो मध्यतश्चैके पृष्ठतः सैनिकास्तथा । देवा हरिं यथापूर्वं सेवंते सेवनोचितम्
अथ सैन्यं समाहूय सर्वमाज्ञापयत्तदा । हस्त्यश्वरथपादातवृन्दैः सुबहुसंकुलम्
ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः । ततो दुंदुभिनादोऽभूत्तस्मिन्पुरवरे तदा
तन्निनादेन शूराणां प्रियेण महता तदा । कंपंति गिरिशृंगाणि प्रासादा विचलंति च
हेषारवो महानासीद्वाजिनां मुह्यतां नृप । रथांगघातसंघुष्टा धरा संचलतीव सा
चलितैर्गजयूथैश्च पृथ्वी रुद्धा समंततः । रजस्तु प्रचलत्तत्र जनांतर्द्धानमादधात्
निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् । सेनान्याकालजिन्नाम्ना प्रेरितं जनसंकुलम्
गर्जंतस्तलवीराग्र्याः कुर्वंतो रणसंभ्रमम् । रघुनाथस्य यागाय सज्जास्ते प्रययुर्मुदा
मृगमदमयमंगेष्वंगरागं दधानाः कुसुमविमलमालाशोभितस्वोत्तमांगाः । मुकुटकटकभूषाभूषितांगाः समस्ताः प्रययुरवनिनाथप्रेरितास्तेऽपि सर्वे
इत्येवं ते महाराजं ययुः सेनाचरा वराः । धनुर्धराः पाशधराः खड्गधाराः स्फुटक्रमाः
एवं शनैःशनैः प्राप्तो मंडपं यागचिह्नितम् । हयः खुरक्षततलां भूमिं कुर्वन्नभः प्लवन्
रामो दृष्ट्वा हरिं प्राप्तं बहुसंतुष्टमानसः । वसिष्ठं प्रेरयामास क्रियाकर्तव्यतां प्रति
वसिष्ठो राममाहूय स्वर्णपत्नीसमन्वितम् । प्रयोगं कारयामास ब्रह्महत्यापनोदनम्
ब्रह्मचर्यव्रतधरो मृगशृंगपरिग्रहः । तत्कर्म कारयामास रामः परपुरंजयः
प्रारेभे यागकर्मार्थं कुंडं मण्डपसंमितम् । तत्राचार्योभवद्धीमान्वेदशास्त्रविचारवित्
वसिष्ठो रघुनाथस्य कुलपूर्वगुरुर्मुनिः । ब्रह्मंस्तत्राचरद्ब्रह्मकर्मागस्त्यस्तपोनिधिः
वाल्मीकिर्मुनिरध्वर्युर्मुनिः कण्वस्तु द्वारपः । अष्टौ द्वाराणि तत्रासन्सतोरण शुभानि वै
द्वारि द्वारि द्वयं विप्र ब्राह्मणस्याधिमंत्रवित् । पूर्वद्वारि मुनिश्रेष्ठौ देवलासित संज्ञितौ
दक्षिणद्वारि भूमानौ कश्यपात्री तपोनिधी । पश्चिमद्वारि ऋषभौ जातूकर्ण्योऽथ जाजलिः
उत्तरद्वारि तु मुनी द्वौ द्वितैकत तापसौ । एवं द्वारविधिं कृत्वा वसिष्ठः कलशोद्भवः
हयवर्यस्य सत्पूजां कर्तुमारभत द्विज । सुवासिन्यः स्त्रियस्तत्र वासोलंकारभूषिताः
हरिद्राक्षतगंधाद्यैः पूजयामासुरर्चितम् । नीराजनं ततः कृत्वा धूपयित्वागुरूक्षणैः
वर्धापनं ततो वेश्याश्चक्रुस्ता वाडवाज्ञया । एवं संपूज्य विमले भाले चंदनचर्चिते
कुंकुमादिकगंधाढ्ये सर्वशोभासमन्विते । बबंध भास्वरं पत्रं तप्तहाटकनिर्मितम्
तत्रालिखद्दाशरथेः प्रतापबलमूर्जितम् । सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः
यं देवाः सासुराः सर्वे नमंति मणिमौलिभिः । तस्यात्मजो वीरबलदर्पहारी रघूद्वहः
रामचंद्रो महाभागः सर्वशूरशिरोमणिः । तन्माता कोसलनृपपत्नीगर्भसमुद्भवा
तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः । करोति हयमेधं वै ब्राह्मणेन सुशिक्षितः
रावणाभिधविप्रेंद्र वधपापापनुत्तये । मोचितस्तेन वाहानां मुख्योऽसौ वाजिनां वरः