पितृदेवमनुष्येभ्यो दत्त्वाश्नीतामृतं गृही । स्वार्थं पचत्यघं भुंक्ते केवलं स्वोदरंभरिः
षष्ठ्यष्टम्योर्विशेत्पापं तैले मांसे सदैव हि । चतुर्दश्यां तथामायां त्यजेत क्षुरमंगनाम्
रजस्वलां न सेवेत नाश्नीयात्सह भार्यया । एकवासा न भुंजीत न भुंजीतोत्कटासने
नाश्नंतीं स्त्रियमीक्षेत तेजःकामो नरोत्तमः । मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम्
नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत् । प्राणिहिंसां न कुर्वीत नाश्नीयात्संध्ययोर्द्वयोः
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत् । न दिवोद्गतसारं च भक्षयेद्दधिनो निशि
स्त्रीं धर्मिणीं नाभिवादेन्नाद्यादातृप्ति रात्रिषु । तौर्यत्रिकप्रियो न स्यात्कांस्ये पादौ न धावयेत्
न धारयेदन्यभुक्तं वासश्चोपानहावपि । न भिन्नभाजनेऽश्नीयान्नाश्नीतान्नं विदूषितम्
संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत् । शयानो वा न चाश्नीयान्नोच्छिष्टः संस्पृशेच्छिरः
न मनुष्यस्तुतिं कुर्यान्नात्मानमवमानयेत् । अभ्युद्यतं न प्रणमेत्परमर्माणि नो वदेत्
एवं गार्हस्थ्यमाश्रित्य वानप्रस्थाश्रमं व्रजेत् । सस्त्रीको वा गतस्त्रीको विरज्येत ततः परम्
इत्येवमादयो धर्मा गदिता ऋषिभिस्तदा । श्रुता रामेण महता सर्वलोकहितैषिणा
शेष उवाच। इत्थं संशृण्वतो धर्मान्वसंतः समुपस्थितः । यत्र यज्ञ क्रियादीनां प्रारंभः सुमहात्मनाम्
दृष्ट्वा तं समयं धीमान्वसिष्ठः कलशोद्भवः । रामचंद्रं महाराजं प्रत्युवाच यथोचितम्
वसिष्ठ उवाच। रामचंद्र महाबाहो समयः पर्यभूत्तव । हयो यत्र प्रमुच्येत यज्ञार्थं परिपूजितः
सामग्री क्रियतां तत्र आहूयंतां द्विजोत्तमाः । करोतु पूजां भगवान्ब्राह्मणानां यथोचिताम्
दीनांधकृपणानां च दानं स्वांते समुत्थितम् । ददातु विधिवत्तेषां प्रतिपूज्याधिमान्य च
भवान्कनकसत्पत्न्या दीक्षितोऽत्र व्रतं चर । भूमिशायी ब्रह्मचारी वसुभोगविवर्जितः
मृगशृंगधरः कट्यां मेखलाजिनदंडभृत् । करोतु यज्ञसंभारं सर्वद्रव्यसमन्वितम्
इति श्रुत्वा महद्वाक्यं वसिष्ठस्य यथार्थकम् । उवाच लक्ष्मणं धीमान्नानार्थपरिबृंहितम्
श्रीराम उवाच। शृणु लक्ष्मण मद्वाक्यं श्रुत्वा तत्कुरु सत्वरम् । हयमानय यत्नेन वाजिमेधक्रियोचितम्
शेष उवाच। श्रुत्वा वाक्यं रघुपतेः शत्रुजिल्लक्ष्मणस्तदा । सेनापतिमुवाचेदं वचो विविधवर्णनम्
लक्ष्मण उवाच। वीराकर्णय मे वचः सुमधुरं श्रुत्वा त्वरातः पुनः । कार्यं तत्क्षितिपालमौलिमुकुटैर्घृष्टांघ्रि रामाज्ञया । सेनां कालबलप्रभंजनबलप्रोद्यत्समर्थांगिनीं । सज्जां सद्रथहस्तिपत्तिसुहयारोहैर्विधे ह्यन्विताम्
सज्जीयतां वायुजवास्तुरंगास्तरंगमाला ललितांघ्रिपाताः । सदश्वचारैर्बहुशस्त्रधारिभिः संरोहिता वैरिबलप्रहारिभिः
संलक्ष्यतां हस्तिनः पर्वताभा आधोरणैः प्रासकुंताग्रहस्तैः । शूरैः सास्त्रैर्भूरिदानोपहाराः क्षीबाणस्ते सर्वशस्त्रास्त्रपूर्णाः
विततबहुसमृद्धिभ्राजमाना रथा मे पवनजवनवेगैर्वाजिभिर्युज्यमानाः । विविधरिपुविनाशस्मारकैरायुधास्त्रैर्भृतवलभिविभागानीयतां सूतवृंदैः
पत्तयः शतशो मह्यमायांत्वस्त्राग्न्यपाणयः । हयमेधार्हवाहस्य रक्षणे विततोद्यमाः
इत्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः । सेनानी कालजिन्नामा कारयामास सज्जताम्
दशध्रुवकमंडितो लघुसुरोमशोभान्वितो विविक्तगलशुक्तिभृद्विततकंठको शेमणिः मुखे विशदकांतिधृत्त्वसितकांतिभृत्कर्णयोर्व्यराजत तदाह यो धृतकराग्ररश्मिच्छटः
कलासंशोभितमुखः स्फुरद्रत्नविशोभितः । मुक्ताफलानां मालाभिः शोभितो निर्ययौ हयः