श्रीराम उवाच। विलोकय द्विजश्रेष्ठ वाजिशालां ममाधुना । तादृशाः संति नो वाश्वाः शुभलक्षणलक्षिताः
इति श्रुत्वा तु तद्वाक्यमगस्त्यः करुणाकरः । उत्तस्थौ वीक्षमाणोऽयं यागार्हान्वाजिनः शुभान्
गत्वाथ तत्र शालायां रामचंद्रसमन्वितः । ददर्शाश्वान्विचित्रांगान्मनोवेगान्महाबलान्
अवनितलगताः किं वाजिराजस्य वंश्याः किमथ रघुपतीनामेकतः कीर्तिपिंडाः । किमिदममृतराशिर्वाहरूपेण सिंधोर्मुनिरिति मनसोंतर्विस्मयं प्राप पश्यन्
एकतः शोणदेहानां वाजिनां पंक्तिरुत्तमा । एकतः श्यामकर्णाश्च कस्तूरीकांतिसप्रभाः
एकतः कनकाभाश्च त्वन्यतो नीलवर्णिनः । एकतः शबलैर्वर्णैर्विशिष्टैर्वाजिभिर्वृताः
एवं पश्यन्मुनिः सर्वान्कौतुकाविष्टमानसः । ययावन्यत्र तान्द्रष्टुं यागयोग्यान्हयान्मुनिः
ददर्श तत्र शतशो बद्धांस्तादृशवर्णकान् । दृष्ट्वा विस्मयमापेदे स मुनिर्हर्षितांगकः
एकतः श्यामकर्णांश्च सर्वांगैः क्षीरसन्निभान् । पीतपुच्छान्मुखे रक्ताञ्छुभलक्षणलक्षितान्
निरीक्ष्य परितोऽनघान्विमलनीरधारानिभान्मनोजवनशोभितान्विमलकीर्तिपुंजप्रभान् । पयोनिधिविशोषको मुनिरुवाचसीतापतिं विचित्रहयदर्शनाद्धृषितनेत्रवक्त्रप्रभः
अगस्त्य उवाच। हयमेधक्रतौ योग्यान्वाहांस्ते बहुशः शुभान् । पश्यतो नेत्रयोर्मेऽद्य तृप्तिर्नास्ति रघूत्तम
रामचंद्र महाभाग सुरासुरनमस्कृत । यज्ञं कुरु महाराज हयमेधं सुविस्तरम्
सुरपतिरिव सर्वान्यज्ञसंघान्करिष्यंस्तपन इव सुपर्वारातितोयं विशोष्यन् । हतरिपुगणमुख्यं सांपरायं विजित्य क्षितितलसुखभोगं कुर्विदं भूरिभाग
इत्येवं वाक्यवादेन परितुष्टाखिलेंद्रियः । सर्वान्वै यज्ञसंभारानाजहार मनोहरान्
मुन्यन्वितो महाराजः सरयूतीरमागतः । सुवर्णलांगलैर्भूमिं विचकर्ष महीयसीम्
विलिख्य भूमिं बहुशश्चतुर्योजनसंमिताम् । मंडपान्रचयामास यज्ञार्थं स नरोत्तमः
कुंडं तु विधिवत्कृत्वा योनिमेखलयान्वितम् । अनेकरत्नरचितं सर्वशोभासमन्वितम्
मुनीश्वरो महाभागो वसिष्ठः सुमहातपाः । सर्वं तत्कारयामास वेदशास्त्रविधिश्रितम्
प्रेषितास्तेन मुनिना शिष्या मुनिवराश्रमान् । कथयामासुरुद्युक्तं हयमेधे रघूत्तमम्
आकारितास्तदा सर्वे ऋषयस्तपतां वराः । आजग्मुः परमेशस्य दर्शने त्वतिलालसाः
नारदोसितनामा च पर्वतः कपिलो मुनिः । जातूकर्ण्योंऽगिरा व्यास आर्ष्टिषेणोऽत्रिरासुरिः
हारीतो याज्ञवल्क्यश्च संवर्तः शुकसंज्ञितः । इत्येवमादयो राम हयमेधवरं ययुः
तान्सर्वान्पूजयामास रघुराजो महामनाः । प्रत्युत्थानाभिवादाभ्यामर्घ्यविष्टरकादिभिः
गां हिरण्यं ददौ तेभ्यः प्रायशो दृष्टविक्रमः । महद्भाग्यं त्वद्यमेऽस्ति यद्यूयं दर्शनं गताः
शेष उवाच। एवं समाकुले ब्रह्मन्नृषिवर्य समागमे । धर्मवार्ता बभूवाहो वर्णाश्रमसुसंमता
वात्स्यायन उवाच। का धर्मवार्ता तत्रासीत्किं वा कथितमद्भुतम् । साधवः सर्वलोकानां कारुण्यात्किमुताब्रुवन्
शेष उवाच। तान्समेतान्मुनीन्दृष्ट्वा रामो दाशरथिर्महान् । पप्रच्छ सर्वधर्मांश्च सर्ववर्णाश्रमोचितान्
ते तु पृष्टा हि रामेण धर्मान्प्रोचुर्महागुणान् । तान्प्रवक्ष्यामि ते सर्वान्यथाविधि शृणुष्व तान्
ऋषय ऊचुः। ब्राह्मणेन सदा कार्यं यजनाध्ययनादिकम् । वेदान्पठित्वा विरजो नैव गार्हस्थ्यमाविशेत्
ब्राह्मणेन सदा त्याज्यं नीचसेवानुजीवनम् । आपद्गतोऽपि जीवेत न श्ववृत्त्या कदाचन