इक्ष्वाकूणां कुले जातु ब्राह्मणो न दुरुक्तिभाक् । ईदृशं कुर्वता कर्म मयैतत्सुकलंकितम्
ये ब्राह्मणास्तु पूजार्हा दानसम्मानभोजनैः । ते मया निहता विप्राः शरसंघातसंहितैः
काँल्लोकान्नु गमिष्यामि कुंभीपाकोऽपि दुःसहः । न तादृशं तीर्थमस्ति यन्मां पावयितुं क्षमम्
न यज्ञो न तपो दानं न वा चैव व्रतादिकम् । यत्तु वै ब्राह्मणद्रोग्धुर्ममपावनतारकम्
यैः कोपितं ब्रह्मकुलं नरैर्निरयगामिभिः । ते नरा बहुशो दुःखं भोक्ष्यंति निरयं गताः
वेदा मूलं तु धर्माणां वर्णाश्रमविवेकिनाम् । तन्मूलं ब्राह्मणकुलं सर्ववेदैकशाखिनः
मूलच्छेत्तुर्ममौद्धत्यात्को लोकोनु भविष्यति । किमद्यकरणीयं वै येन मे हि शिवं भवेत्
शेष उवाच। विलपंतं भृशं रामं राजेंद्रं रघुपुंगवम् । मायामनुष्यवपुषं कुंभजन्माब्रवीद्वचः
अगस्त्य उवाच। मा विषादं महाधीर कुरु राजन्महामते । न ते ब्राह्मणहत्या स्याद्दुष्टानां नाशमिच्छतः
त्वं पुराणः पुमान्साक्षादीश्वरः प्रकृतेः परः । कर्ता हर्ताऽविता साक्षी निर्गुणः स्वेच्छया गुणी
सुरापो ब्रह्महत्याकृत्स्वर्णस्तेयी महाघकृत् । सर्वे त्वन्नामवादेन पूताः शीघ्रं भवंति हि
इयं देवी जनकजा महाविद्या महामते । यस्याः स्मरणमात्रेण मुक्ता यास्यंति सद्गतिम्
रावणोऽपि न वै दैत्यो वैकुंठे तव सेवकः । ऋषीणां शापतोऽवाप्तो दैत्यत्वं दनुजांतक
तस्यानुग्रहकर्ता त्वं न तु हंता द्विजन्मनः । एवं संचिंत्य मा भूयो निजं शोचितुमर्हसि
इति श्रुत्वा ततो वाक्यं रामः परपुरंजयः । उवाच मधुरं वाक्यं गद्गदस्वरभाषितम्
श्रीराम उवाच। पातकं द्विविधं प्रोक्तं ज्ञाताज्ञातविभेदतः । ज्ञातं यद्बुद्धिपूर्वं हि अज्ञातं तद्विवर्जितम्
बुद्धिपूर्वं कृतं कर्म भोगेनैव विनश्यति । नश्येदनुशयादन्यदिदं शास्त्रविनिश्चितम्
कुर्वतो बुद्धिपूर्वं मे ब्रह्महत्यां सुनिंदिताम् । न मे दुःखापनोदाय साधुवादः सुसंमतः
प्रब्रूहि तादृशं मह्यं यादृशं पापदाहकम् । व्रतं दानं मखं किंचित्तीर्थमाराधनं महत्
येन मे विमला कीर्तिर्लोकान्वै पावयिष्यति । पापाचाराप्तकालुष्यान्ब्रह्महत्याहतप्रभान्
शेष उवाच। इत्युक्तवंतं तं रामं जगाद स तपोनिधिः । सुरासुरनमन्मौलि मणिनीराजितांघ्रिकम्
शृणु राम महावीर लोकानुग्रहकारक । विप्रहत्यापनोदाय तव यद्वचनं ब्रुवे
सर्वं स पापं तरति योऽश्वमेधं यजेत वै । तस्मात्त्वं यज विश्वात्मन्वाजिमेधेन शोभिना
सप्ततंतुर्महीभर्त्रा त्वया साध्यो मनीषिणा । महासमृद्धियुक्तेन महाबलसुशालिना
स वाजिमेधो विप्राणां हत्यायाः पापनोदनः । कृतवान्यं महाराजो दिलीपस्तव पूर्वजः
शतक्रतुः शतं कृत्वा क्रतूनां पुरुषर्षभः । पदमापामरावत्यां देवदैत्यसुसेवितम्
मनुश्च सगरो राजा मरुत्तो नहुषात्मजः । एते ते पूर्वजाः सर्वे यज्ञं कृत्वा पदं गताः
तस्मात्त्वं कुरु राजेंद्र समर्थोऽसि समंततः । भ्रातरो लोकपालाभा वर्तंते तव भावुकाः
इत्युक्तमाकर्ण्य मुनेः स भाग्यवान् रघूत्तमो ब्राह्मणघातभीतः । पप्रच्छ यागे सुमतिं चिकीर्षन्विधिं पुरावित्परिगीयमानः
श्रीराम उवाच। कीदृशोऽश्वस्तत्र भाव्यः को विधिस्तत्र पूजने । कथं वा शक्यते कर्तुं के जेयास्तत्र वैरिणः