एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं त्वयानघ । उत्पत्तिश्च विपत्तिश्च मया मत्यनुसारतः
इत्थं निशम्य दितिजेंद्र कुलानुकारिवार्तां महापुरुष ईश्वरईशिता च । संरुद्धबाष्पगलदश्रुमुखारविंदो भूमौ पपात सदसि प्रथितप्रभावः
शेष उवाच। वात्स्यायनमुनिश्रेष्ठ कथा पापप्रणाशिनी । ब्रह्मण्यदेवदेवस्य सर्वधर्मैकरक्षितुः
राजानं मूर्च्छितं दृष्ट्वा कुंभजन्मा तपोनिधिः । शनैःशनैः करेणाशु पस्पर्शाश्रु जगाद च
भो रामाश्वसिहि क्षिप्रं किमर्थमवसीदसि । भवान्दैत्यकुलच्छेत्ता महाविष्णुः सनातनः
भूतं भव्यं भवच्चैव जगत्स्थास्नु चरिष्णु च । त्वदृते नास्ति संचारी किमर्थमिह मूर्च्छितः
श्रुत्वा वाक्यं महाराजः कुंभजन्मसमीरितम् । उत्तस्थौ विगलन्नेत्र बाष्पपूरितसन्मुखः
उवाच दीनदीनं च विस्पष्टाक्षरविस्तरम् । त्रपाभर नमन्मूर्तिर्ब्रह्मद्रोहपराङ्मुखः
श्रीराम उवाच। अहो मे पश्यता ज्ञानं विमूढस्य दुरात्मनः । यद्ब्राह्मणकुले रूढं हतवान्कामलोलुपः
महिलार्थे त्वहं विप्रं वेदशास्त्रविवेकवान् । हतवान्वाडवकुलं बुद्धिहीनोति दुर्मतिः
इक्ष्वाकूणां कुले जातु ब्राह्मणो न दुरुक्तिभाक् । ईदृशं कुर्वता कर्म मयैतत्सुकलंकितम्
ये ब्राह्मणास्तु पूजार्हा दानसम्मानभोजनैः । ते मया निहता विप्राः शरसंघातसंहितैः
काँल्लोकान्नु गमिष्यामि कुंभीपाकोऽपि दुःसहः । न तादृशं तीर्थमस्ति यन्मां पावयितुं क्षमम्
न यज्ञो न तपो दानं न वा चैव व्रतादिकम् । यत्तु वै ब्राह्मणद्रोग्धुर्ममपावनतारकम्
यैः कोपितं ब्रह्मकुलं नरैर्निरयगामिभिः । ते नरा बहुशो दुःखं भोक्ष्यंति निरयं गताः
वेदा मूलं तु धर्माणां वर्णाश्रमविवेकिनाम् । तन्मूलं ब्राह्मणकुलं सर्ववेदैकशाखिनः
मूलच्छेत्तुर्ममौद्धत्यात्को लोकोनु भविष्यति । किमद्यकरणीयं वै येन मे हि शिवं भवेत्
शेष उवाच। विलपंतं भृशं रामं राजेंद्रं रघुपुंगवम् । मायामनुष्यवपुषं कुंभजन्माब्रवीद्वचः
अगस्त्य उवाच। मा विषादं महाधीर कुरु राजन्महामते । न ते ब्राह्मणहत्या स्याद्दुष्टानां नाशमिच्छतः
त्वं पुराणः पुमान्साक्षादीश्वरः प्रकृतेः परः । कर्ता हर्ताऽविता साक्षी निर्गुणः स्वेच्छया गुणी
सुरापो ब्रह्महत्याकृत्स्वर्णस्तेयी महाघकृत् । सर्वे त्वन्नामवादेन पूताः शीघ्रं भवंति हि
इयं देवी जनकजा महाविद्या महामते । यस्याः स्मरणमात्रेण मुक्ता यास्यंति सद्गतिम्
रावणोऽपि न वै दैत्यो वैकुंठे तव सेवकः । ऋषीणां शापतोऽवाप्तो दैत्यत्वं दनुजांतक
तस्यानुग्रहकर्ता त्वं न तु हंता द्विजन्मनः । एवं संचिंत्य मा भूयो निजं शोचितुमर्हसि
इति श्रुत्वा ततो वाक्यं रामः परपुरंजयः । उवाच मधुरं वाक्यं गद्गदस्वरभाषितम्
श्रीराम उवाच। पातकं द्विविधं प्रोक्तं ज्ञाताज्ञातविभेदतः । ज्ञातं यद्बुद्धिपूर्वं हि अज्ञातं तद्विवर्जितम्
बुद्धिपूर्वं कृतं कर्म भोगेनैव विनश्यति । नश्येदनुशयादन्यदिदं शास्त्रविनिश्चितम्
कुर्वतो बुद्धिपूर्वं मे ब्रह्महत्यां सुनिंदिताम् । न मे दुःखापनोदाय साधुवादः सुसंमतः
प्रब्रूहि तादृशं मह्यं यादृशं पापदाहकम् । व्रतं दानं मखं किंचित्तीर्थमाराधनं महत्
येन मे विमला कीर्तिर्लोकान्वै पावयिष्यति । पापाचाराप्तकालुष्यान्ब्रह्महत्याहतप्रभान्