विद्युन्मालिसुतायां तु पुत्रत्रयमभून्महत् । रावणः कुंभकर्णश्च तथा पुण्यो बिभीषणः
राक्षस्युदरजन्मत्वात्संध्यासमयसंभवात् । द्वयोरधर्मनिपुणा मतिरासीन्महामते
एकदा तु विमानेन पुष्पकेण सुशोभिना । कांचनीयोपकल्पेन किंकिणीजालमालिना
आरुह्य पितरौ द्रष्टुं प्रायाच्छोभासमन्वितः । स्वगणैः संस्तुतो भूत्वा नानारत्नविभूषणैः
आगत्य पित्रोश्चरणे पतित्वा चिरमात्मजः । हर्षविह्वलितात्मा च रोमांचिततनूरुहः
उवाच मेऽद्य सुदिनं महाभाग्यफलोदयः । यन्मे युष्मत्पदौ दृष्टौ महापुण्यददर्शनौ
इत्यादिभिः स्तुतिपदैः स्तुत्वागान्मंदिरं स्वकम् । पितरावपि संहृष्टौ पुत्रस्नेहाद्बभूवतुः
तं दृष्ट्वा रावणो धीमाञ्जगाद निजमातरम् । कोऽयं पुमान्सुरो वाथ यक्षो वाथ नरोत्तमः
योऽसौ मम पितुःपादौ सन्निषेव्य गतः पुनः । महाभाग्यनिधिः स्वीयैर्गणैः सुपरिवारितः
केनेदं तपसा लब्धं विमानं वायुवेगधृक् । उद्यानारामलीलादि विलासस्थानमुत्तमम्
शेष उवाच। इति वाक्यं समाकर्ण्य जननी रोषविक्लवा । उवाच पुत्रं विमनाः किंचिन्नेत्रविकारिणी
रे पुत्र शृणु मद्वाक्यं बहुशिक्षासमन्वितम् । एतस्य जन्मकर्मादि विचारचतुराधिकम्
सपत्न्या मम कुक्षिस्थं विधानं समुपस्थितम् । येन स्वमातुर्विमलं कुलमुज्ज्वलितं महत्
त्वं तु मत्कुक्षिजः कीटः पापः स्वोदरपूरकः । यथा खरः स्वकं भारं जानाति न च तद्गुणम्
तथा त्वं लक्ष्यसेऽज्ञानी शयनासनभोगवान् । सुप्तो गतः क्वचिद्भ्रष्ट इत्येव तव संभवः
अनेन तपसा लब्धं शिवसंतोषकारिणा । लंकावासो मनोवेगं विमानं राज्यसंपदः
सुधन्या जननी त्वस्य सुभाग्या सुमहोदया । यस्याः पुत्रो निजगुणैर्लब्धवान्महतां पदम्
इति क्रुधा भाषितमार्तया तया मात्रा स्वयाऽकर्ण्य दुरात्मसत्तमः । रोषं विधायात्मगतं पुनर्वचो जगाद तां निश्चयभृत्तपः प्रति
रावण उवाच। जनन्याकर्णय वचो मम गर्वसमन्वितम् । रत्नगर्भा त्वमेवासि यस्याः पुत्रास्त्रयो वयम्
कोऽसौ कीटः स धनदः क्व तपः स्वल्पकं पुनः । कालं का किंतु तद्राज्यं स्वल्पसेवकसंयुतम्
मातः शृणु ममोत्साहात्प्रतिज्ञां करुणान्विते । न केनापि कृतां कर्त्रा महाभाग्ये हि कैकसि
यद्यहं भुवनं सर्वं वशेन स्थापयामि वै । तपोभिर्दुष्कृतैः कृत्वा ब्रह्मसंतोषकारकैः
अन्नोदके सदा त्यक्त्वा निद्रां क्रीडां तथा पुनः । चेत्तदा पितृलोकस्य घातात्पापं भवेन्मम
कुंभकर्णोऽपि कृतवान्विभीषणसमन्वितः । रावणेन सहभ्रात्रेत्युक्त्वागाद्गिरिकाननम्
अगस्त्य उवाच। अथोग्रं स तपो दैत्यो दशवर्षसहस्रकम् । चकार भानुमक्ष्णा च पश्यन्नूर्ध्वपदे स्थितः
कुंभकर्णोऽपि कृतवांस्तपः परमदुश्चरम् । विभीषणस्तु धर्मात्मा चचार परमं तपः
तदा प्रसन्नो भगवान्देवदेवः प्रजापतिः । देवदानवयक्षादि मुकुटैः परिसेवितः
ददौ राज्यं च सुमहद्भुवनत्रयभास्वरम् । वपुश्च कृतवान्रम्यं देवदानवसेवितम्
तदा संतापितो भ्राता धनदो धर्मबुद्धिमान् । विमानं तु ततो नीतं लंका च नगरी हठात्
भुवनं तापितं सर्वं देवाश्चैव दिवो गताः । हतवान्ब्राह्मणकुलं मुनीनां मूलकृंतनः