स्वागतेन सुसंभाव्य पप्रच्छ तमनामयम् । सुखोपविष्टं विश्रांतं बभाषे रघुनंदनः
शेष उवाच। इत्थं स्वागतसंतुष्टं ब्रह्मचर्यतपोनिधिम् । उवाच मतिमान्वीरः सर्वलोकगुरुर्मुनिम्
स्वागतं ते महाभाग कुंभयोने तपोनिधे । त्वद्दर्शनेन सर्वे वै पाविताः सकुटुंबकाः
कच्चिन्मतिस्ते वेदेषु शास्त्रेषु परिवर्तते । त्वत्तपोविघ्नकर्ता वै नास्ति भूमंडले क्वचित्
लोपामुद्रा महाभाग या च ते धर्मचारिणी । यस्याः पतिव्रता धर्मात्सर्वं भवति शोभनम्
अपि शंस महाभाग धर्ममूर्ते कृपानिधे । अलोलुपस्य किं कार्यं करवाणि मुनीश्वर
त्वत्तपोयोगतः सर्वं भवति स्वेच्छया बहु । तथापि मयि कृत्वैव कृपां शंश मुनीश्वरः
शेष उवाच। इत्युक्तो लोकगुरुणा राजराजेन धीमता । उवाच रामं लोकेशं विनीततरभाषया
अगस्त्य उवाच। स्वामिंस्तव सुदुर्दर्शं दर्शनं दैवतैरपि । मत्वा समागतं विद्धि राजराज कृपानिधे
हतस्त्वया रावणाख्यस्त्वसुरो लोककंटकः । दिष्ट्याद्य देवाः सुखिनो दिष्ट्या राजा बिभीषणः
राम त्वद्दर्शनान्मेऽद्य गतं वै दुष्कृतं किल । संपूर्णो मे मनःकोश आनंदेन सुरोत्तम
इत्युक्त्वा स बभूवाशु तूष्णीं कुंभसमुद्भवः । रामसंदर्शनाह्लादविह्वलीकृतमानसः
रामः पप्रच्छ तं भूयो मुनिं ज्ञानविशारदम् । लोकातीतं भवद्भावि सर्वं जानासि सर्वतः
मुने कथय मे सर्वं पृच्छतो हि सुविस्तरम् । कोऽसौ मया हतो यो हि रावणो विबुधार्दनः
कुंभकर्णोऽपि कस्त्वेष का जातिर्वै दुरात्मनः । देवो दैत्यः पिशाचो वा राक्षसो वा महामुने
सर्वमाख्याहि सर्वज्ञ सर्वं जानासि विस्तरात् । अतः कथय मे सर्वं कृपां कृत्वा ममोपरि
इति श्रुत्वा ततो वाक्यं कुंभजन्मा तपोनिधिः । यत्पृष्टं रघुराजेन प्रवक्तुं तत्प्रचक्रमे
राजन्सृष्टिकरो ब्रह्मा पुलस्त्यस्तत्सुतोऽभवत् । ततस्तु विश्रवा जज्ञे वेदविद्याविशारदः
तस्य पत्नीद्वयं जातं पातिव्रत्यचरित्रभृत् । एका मंदाकिनी नाम्नी द्वितीया कैकसी स्मृता
पूर्वस्यां धनदो जज्ञे लोकपालविलासभृत् । योऽसौ शिवप्रसादेन लंकावासमचीकरत्
विद्युन्मालिसुतायां तु पुत्रत्रयमभून्महत् । रावणः कुंभकर्णश्च तथा पुण्यो बिभीषणः
राक्षस्युदरजन्मत्वात्संध्यासमयसंभवात् । द्वयोरधर्मनिपुणा मतिरासीन्महामते
एकदा तु विमानेन पुष्पकेण सुशोभिना । कांचनीयोपकल्पेन किंकिणीजालमालिना
आरुह्य पितरौ द्रष्टुं प्रायाच्छोभासमन्वितः । स्वगणैः संस्तुतो भूत्वा नानारत्नविभूषणैः
आगत्य पित्रोश्चरणे पतित्वा चिरमात्मजः । हर्षविह्वलितात्मा च रोमांचिततनूरुहः
उवाच मेऽद्य सुदिनं महाभाग्यफलोदयः । यन्मे युष्मत्पदौ दृष्टौ महापुण्यददर्शनौ
इत्यादिभिः स्तुतिपदैः स्तुत्वागान्मंदिरं स्वकम् । पितरावपि संहृष्टौ पुत्रस्नेहाद्बभूवतुः
तं दृष्ट्वा रावणो धीमाञ्जगाद निजमातरम् । कोऽयं पुमान्सुरो वाथ यक्षो वाथ नरोत्तमः
योऽसौ मम पितुःपादौ सन्निषेव्य गतः पुनः । महाभाग्यनिधिः स्वीयैर्गणैः सुपरिवारितः
केनेदं तपसा लब्धं विमानं वायुवेगधृक् । उद्यानारामलीलादि विलासस्थानमुत्तमम्