इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः । सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम्
रघुनाथोऽपि भ्रातॄंस्तान्पालयंस्तातवद्बुधान् । प्रजाः पुत्रानिव स्वीयाल्लाँलयँल्लोकनायकः
यस्मिञ्छासति लोकानां नाकालमरणं नृणाम् । न रोगादि पराभूतिर्गृहेषु च महीयसी
नेतिः कदापि द्दश्येत वैरिजं भयमेव च । वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका
पुत्रपौत्रपरीवार सनाथी कृतजीवनाः । कांता संयोगजसुखैर्निरस्तविरहक्लमाः
नित्यं श्रीरघुनाथस्य पादपद्मकथोत्सुकाः । कदापि परनिंदासु वाचस्तेषां भवंति न
कारवोऽपि कदा पापं नाचरंति मनस्यहो । रघुनाथकराघातदुःखशंकाभिशंसिनः
सीतापतिमुखालोक निश्चलीभूतलोचनाः । लोका बभूवुः सततं कारुण्यपरिपूरिताः
राज्यं प्राप्तमसापत्नं समृद्धबलवाहनम् । ऋषिभिर्हृष्टपुष्टैश्च रम्यं हाटकभूषणैः
संपुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः । सदा संपन्नसस्यं च सुवसुक्षेत्रसंयुतम्
सुदेशं सुप्रजं स्वस्थं सुतृणं बहुगोधनम् । देवतायतनानां च राजिभिः परिराजितम्
सुपूर्णा यत्र वै ग्रामाः सुवित्तर्द्धिविराजिताः । सुपुष्पकृत्रिमोद्यानाः सुस्वादुफलपादपाः
सपद्मिनीककासारा यत्र राजंति भूमयः । सदंभा निम्नगा यत्र न यत्र जनता क्वचित्
कुलान्येव कुलीनानां वर्णानां नाधनानि च । विभ्रमो यत्र नारीषु न विद्वत्सु च कर्हिचित्
नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः । तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः
रजोयुजः स्त्रियो यत्र नाधर्मबहुला नराः । धनैरनंधो यत्रास्ति जनो नैव च भोजने
अनयः स्यंदनो यत्र न च वैराजपूरुषः । दंडः परशुकुद्दालवालव्यजनराजिषु
आतपत्रेषु नान्यत्र क्वचित्क्रोधोपरोधजः । अन्यत्राक्षिकवृंदेभ्यः क्वचिन्न परिदेवनम्
आक्षिका एव दृश्यंते यत्र पाशकपाणयः । जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः
कठोरहृदया यत्र सीमंतिन्यो न मानवाः । औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे
वेधो यत्र सुरत्नेषु शूलं मूर्तिकरेषु वै । कंपः सात्विकभावोत्थो न भयात्क्वापि कस्यचित्
संज्वरः कामजो यत्र दारिद्र्यकलुषस्य च । दुर्ल्लभत्वं सदैवस्य सुकृतेन च वस्तुनः
इभा एव प्रमत्ता वै युद्धे वीच्यो जलाशये । दानहानिर्गजेष्वेव तीक्ष्णा एव हि कंटकाः
बाणेषु गुणविश्लेषो बंधोक्तिः पुस्तके दृढा । स्नेहत्यागः खलेष्वेव न च वै स्वजने जने
तं देशं पालयामास लालयँल्लालिताः प्रजाः । धर्मं संस्थापयन्देशे दुष्टे दंडधरोपमः
एवं पालयतो देशं धर्मेण धरणीतलम् । सहस्रं च व्यतीयुर्वै वर्षाण्येकादश प्रभोः
तत्र नीचजनाच्छ्रुत्वा सीताया अपमानताम् । स्वां च निंदां रजकतस्तां तत्याज रघूद्वहः
पृथ्वीं पालयमानस्य धर्मेण नृपतेस्तदा । सीतां विरहितामेकां निदेशेन सुरक्षिताम्
कदाचित्संसदो मध्ये ह्यासीनस्य महामतेः । आजगाम मुनिश्रेष्ठः कुंभोत्पत्तिर्मुनिर्महान्
गृहीत्वार्घ्यं समुत्तस्थौ वसिष्ठेन समन्वितः । जनताभिर्महाराजो वार्धिशोषकमागतम्