अनादिराद्योजररूपधारी हारी किरीटी मकरध्वजाभः । जयं करोतु प्रसभं हतारिः स्मरारि संसेवितपादपद्मः
इत्युक्त्वा ते सुराः सर्वे ब्रह्मेंद्रप्रमुखा मुहुः । प्रणेमुररिनाशेन प्रीणिता रघुनायकम्
इति स्तुत्यातिसंहृष्टो रघुनाथो महायशाः । प्रोवाच तान्सुरान्वीक्ष्य प्रणतान्नतकंधरान्
श्रीराम उवाच। सुरा वृणुत मे यूयं वरं किंचित्सुदुर्ल्लभम् । यं कोऽपि देवो दनुजो न यक्षः प्राप सादरः
सुरा ऊचुः। स्वामिन्भगवतः सर्वं प्राप्तमस्माभिरुत्तमम् । यदयं निहतः शत्रुरस्माकं तु दशाननः
यदायदाऽसुरोऽस्माकं बाधां परिदधाति भोः । तदा तदेति कर्तव्यमेतावद्वैरिनाशनम्
तथेत्युक्त्वा पुनर्वीरः प्रोवाच रघुनंदनः । श्रीराम उवाच। सुराः शृणुत मद्वाक्यमादरेण समन्विताः
भवत्कृतं मदीयैर्वैगुणैर्ग्रथितमद्भुतम् । स्तोत्रं पठिष्यति मुहुः प्रातर्निशि सकृन्नरः
तस्य वैरि पराभूतिर्न भविष्यति दारुणा । न च दारिद्र्यसंयोगो न च व्याधिपराभवौ
मदीयचरणद्वंद्वे भक्तिस्तेषां तु भूयसी । भविष्यति मुदायुक्ते स्वांते पुंसां तु पाठतः
इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः । सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम्
रघुनाथोऽपि भ्रातॄंस्तान्पालयंस्तातवद्बुधान् । प्रजाः पुत्रानिव स्वीयाल्लाँलयँल्लोकनायकः
यस्मिञ्छासति लोकानां नाकालमरणं नृणाम् । न रोगादि पराभूतिर्गृहेषु च महीयसी
नेतिः कदापि द्दश्येत वैरिजं भयमेव च । वृक्षाः सदैव फलिनो मही भूयिष्ठधान्यका
पुत्रपौत्रपरीवार सनाथी कृतजीवनाः । कांता संयोगजसुखैर्निरस्तविरहक्लमाः
नित्यं श्रीरघुनाथस्य पादपद्मकथोत्सुकाः । कदापि परनिंदासु वाचस्तेषां भवंति न
कारवोऽपि कदा पापं नाचरंति मनस्यहो । रघुनाथकराघातदुःखशंकाभिशंसिनः
सीतापतिमुखालोक निश्चलीभूतलोचनाः । लोका बभूवुः सततं कारुण्यपरिपूरिताः
राज्यं प्राप्तमसापत्नं समृद्धबलवाहनम् । ऋषिभिर्हृष्टपुष्टैश्च रम्यं हाटकभूषणैः
संपुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः । सदा संपन्नसस्यं च सुवसुक्षेत्रसंयुतम्
सुदेशं सुप्रजं स्वस्थं सुतृणं बहुगोधनम् । देवतायतनानां च राजिभिः परिराजितम्
सुपूर्णा यत्र वै ग्रामाः सुवित्तर्द्धिविराजिताः । सुपुष्पकृत्रिमोद्यानाः सुस्वादुफलपादपाः
सपद्मिनीककासारा यत्र राजंति भूमयः । सदंभा निम्नगा यत्र न यत्र जनता क्वचित्
कुलान्येव कुलीनानां वर्णानां नाधनानि च । विभ्रमो यत्र नारीषु न विद्वत्सु च कर्हिचित्
नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः । तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः
रजोयुजः स्त्रियो यत्र नाधर्मबहुला नराः । धनैरनंधो यत्रास्ति जनो नैव च भोजने
अनयः स्यंदनो यत्र न च वैराजपूरुषः । दंडः परशुकुद्दालवालव्यजनराजिषु
आतपत्रेषु नान्यत्र क्वचित्क्रोधोपरोधजः । अन्यत्राक्षिकवृंदेभ्यः क्वचिन्न परिदेवनम्
आक्षिका एव दृश्यंते यत्र पाशकपाणयः । जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः
कठोरहृदया यत्र सीमंतिन्यो न मानवाः । औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे