तद्विष्णोः परमं धाम सदा पश्यंति सूरयः । अक्षरं शाश्वतं दिव्यं देवि चक्षुरिवाततम्
तत्प्रवेष्टुमशक्यं च ब्रह्मरुद्रादिदैवतैः । ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुंगवैः
अहं ब्रह्मा च देवाश्च न जानंति महर्षयः । सर्वोपनिषदामर्थं दृष्ट्वा वक्ष्यामि सुव्रते
विष्णोः पदे हि परमे पदे तत्सशुभाह्वयेः । यत्र गावो भूरिशृंगा आसते सुसुखाः प्रजाः
अत्राह तत्परं धाम गोपवेषस्य शार्ङ्गिणः । तद्भाति परमं धाम गोभिर्गोपैस्सुखाह्वयैः
आदित्यवर्णं तमसः परस्ताज्ज्योतिरच्युतम् । आधारो ब्रह्मणो लोकश्शुद्धसत्त्वस्सनातनः
सामान्या विभिते भूमिन्तेऽस्मिन्शाश्वते पदे । तस्थतुर्जागरूकेस्मिन्युवानौ श्रीसनातनौ
यतः स्वसारौ युवती भूनीले विष्णुवल्लभे । अत्र पूर्वे ये च साध्या विश्वेदेवास्सनातनाः
ते ह नाकं महिमानस्सचन्ते शुभदर्शनाः । तत्र विज्ञानिनो विप्रा जागृवांसस्समिन्धते
तत्पदं ज्ञानिनो विप्रा यांति संवासमिच्छवः । तद्विष्णोः परमं धाम मोक्ष इत्यभिधीयते
तस्मिन्बंधविनिर्मुक्ताः प्राप्नुवन्ति सुखं पदम् । तत्प्राप्य न निवर्तंते तस्मान्मोक्ष उदाहृतः
मोक्षं परं पदं दिव्यममृतं विष्णुमंदिरम् । अक्षरं परमं धाम वैकुण्ठं शाश्वतं पदम्
नित्यञ्च परमं व्योम सर्वोत्कृष्टं सनातनम् । पर्य्यायवाचकान्यस्य परधाम्नोच्युतस्य च । तस्य त्रिपाद्विभूतेस्तु रूपं वक्ष्यामि विस्तरात्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे त्रिपाद्विभूतिकथनंनाम सप्तविंशत्यधिकद्विशततमोऽध्यायः
श्रीरुद्र उवाच- हिरण्यक हिरण्याक्षौ काश्यपेयौ महाबलौ । दितिपुत्रौ महावीर्य्यौ सर्व्वदैत्यपती उभौ
नाम्ना तौ जयविजयौ श्वेतद्वीपे हरिं गतौ । तस्मिन्प्रविष्टयोगीन्द्रान्सनकादीन्महाबलौ
वारयामासतुर्देवि हरिसंदर्शनोत्सुकान् । तैः प्रशप्तौ महावीर्य्यौ द्वारपालौ सुरोत्तमौ
सनकादय ऊचुः- उत्सृज्य तत्पृथिव्यां च यातौ देवस्य किंकरौ । रुद्र उवाच- इति शापं तयोर्दत्त्वा तत्र तस्थुर्मुनीश्वराः
देवस्तमर्थं ज्ञात्वा च तानाहूय च तावपि
तौ चोत्थायाब्रवीत्तत्र भगवान्भूतभावनः । भगवानुवाच- कृतवंतौ महावीर्य्यावपराधं महात्मनाम्
नातिक्रमणीयमिदं भवद्भ्यां द्वारपालकौ । दासत्वं सप्तजन्मानि युवां भक्तौ ममानघौ
अमित्रतस्तथा त्रीणि जन्मानि भजतोऽपि वा । रुद्र उवाच- इत्युक्तौ तौ महावीर्य्यावब्रूतां परमेश्वरम्
जयविजयावूचतुः । चिरकालं महीं गंतुं न समर्थौ स्व मानद । तस्माद्वैराय जन्मानि विद्धि वां च व्रजावहे
देवत्व यैव निहतो प्राप्स्यावो भवदंतिकम् । रुद्र उवाच- इत्युक्त्वा द्वारपालौ तौ पूर्वं जातौ महाबलौ
कश्यपस्य महावीर्य्यौ दितिगर्भे महासुरौ । हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षः कनिष्ठकः
उभौ तौ लोकविख्यातौ महावीर्य्य बलोद्धतौ । अप्रमाणशरीरः स हिरण्याक्षो महोद्धतः
उत्पाट्य बाहुसाहस्रैः पृथिवीं समहीधराम् । ससागरां द्वीपयुतां सर्व्वप्राणिसमन्विताम्
उत्पाट्य शिरसा कृत्वा प्रविवेश रसातलम् । ततो देवगणाः सर्वे चुक्रुशुर्भयपीडिताः
शरणं प्रययुर्देवं नारायणमनामयम् । ततस्तदद्भुतं ज्ञात्वा शंखचक्रगदाधरः
वाराहरूपमास्थाय विश्वरूपं जनार्दनः । अनादिमध्यांतवपुः सर्वदेवमयो विभुः