श्रीराम उवाच। मातर्मया त्वच्चरणौ चिरकालं न सेवितौ । ततः क्षमस्वापराधं भाग्यहीनस्य वै मम
ये पुत्रा मातापित्रोर्न शुश्रूषायां समुत्सुकाः । ते मंतव्याः परा मातः कीटका रेतसो भवाः
किं कुर्वे जनकाज्ञातो गतो वै दंडकं वनम् । तत्रापि त्वत्कृपापांगात्तीर्णोऽस्मि दुःखसागरम्
रावणेन हृता सीता लंकायां गमिता पुनः । त्वत्कृपातो मया लब्धा तं हत्वा राक्षसेश्वरम्
सीतेयं त्वच्चरणयोः पतिता वै पतिव्रता । संभावयाशु चकितां त्वत्पादार्पितमानसाम्
इति श्रुत्वा तु तद्वाक्यं पादयोः पतितां स्नुषाम् । आशीर्भिरभियुज्यैनां बभाषे तां पतिव्रताम्
सीते स्वपतिना सार्द्धं चिरं विलस भामिनि । पुत्रौ प्रसूय च कुलं स्वकं पावय पावने
त्वत्सदृश्यः पतिपराः पतिदुःखसुखानुगाः । भवंति दुःखभागिन्यो न हि सत्यं जगत्त्रये
विदेहपुत्रि स्वकुलं त्वया पावितमात्मना । रामपादाब्जयुगलमनुयांत्या महावनम्
किं चित्रं यत्पुमांसस्तु वैरिकोटिप्रभंजनाः । येषां गेहे सती भार्या स्वपतिप्रियवाञ्छिका
इत्युक्त्वा रघुनाथस्य भार्यामंचितलोचनाम् । तूष्णीं बभूव हृषिता प्रहृष्टस्वतनूरुहा
अथ भ्रातास्य भरतः पित्रा दत्तं निजं महत् । राज्यं निवेदयामास रामचंद्राय धीमते
मंत्रिणस्ते प्रहृष्टांगा दैवज्ञान्मंत्रकोविदान् । आहूय सुमुहूर्तंते पप्रच्छुः परमादरात्
शुभे मुहूर्ते सुदिने शुभनक्षत्रसंयुते । अभिषेकं महाराज्ये कारयामासुरुद्यताः
सप्तद्वीपवतीं पृथ्वीं व्याघ्रचर्मणि सुंदरे । लिखित्वोपरि राजेंद्रो महाराजोधितस्थिवान्
तद्दिनादेव साधूनां मनांसि प्रमुदं ययुः । दुष्टानां चेतसो ग्लानिरभवत्परतापिनाम्
स्त्रियस्तु पतिभक्त्या च पतिव्रतपरायणाः । मनसापि कदा पापं नाचरंति जना मुने
दैत्यादेवास्तथा नागा यक्षासुरमहोरगाः । सर्वे न्यायपथे स्थित्वा रामाज्ञां शिरसा दधुः
परोपकरणेयुक्ताः स्वधर्मसुखनिर्वृताः । विद्याविनोदगमिता दिनरात्रिक्षणाः शुभाः
वातोऽपि मार्गसंस्थानां बलान्नाहरते महान् । वासांस्यपि तु सूक्ष्माणि तत्र चौरकथा नहि
धनदो ह्यर्थिनां रामः कारुण्यश्च कृपानिधिः । भ्रातृभिः सहितो नित्यं गुरुदेवस्तुतिं व्यधात्
शेष उवाच। अथाभिषिक्तं रामं तु तुष्टुवुः प्रणताः सुराः । रावणाभिधदैत्येंद्र वधहर्षितमानसाः
देवा ऊचुः। जय दाशरथे सुरार्तिहञ्जयजय दानववंशदाहक । जय देववरांगनागणग्रहणव्यग्रकरारिदारक
तवयद्दनुजेंद्र नाशनं कवयो वर्णयितुं समुत्सुकाः । प्रलये जगतांततीः पुनर्ग्रससे त्वं भुवनेशलीलया
जय जन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर । जय धर्मकरान्वयांबुधौ कृतजन्मन्नजरामराच्युत
तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः । किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः
हरविरिंचिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम् । हृदि पवित्रयवादिकचिह्नितैः सुरचितं मनसा स्पृहयामहे
यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकांतिभृत् । सुरगणा हि कथं सुखिनः पुनर्ननुभवंति घृणामय पावन
यदा यदास्मान्दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः । अजोऽव्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः
मृतसुधासदृशैरघनाशनैः सुचरितैरवकीर्य महीतलम् । अमनुजैर्गुणशंसिभिरीडितः प्रविश चाशु पुनर्हि स्वकं पदम्