सीतया सहितं पश्य चाशीर्भिरभियुंक्ष्व च । इति तथ्यं वचः श्रुत्वा सुमुखेन प्रभाषितम्
यादृशं हर्षमापेदे तादृशं वेद्म्यहं नहि । उत्थाय चाजिरे प्राप्ता रोमांचिततनूरुहा
हर्षविह्वलितांग्यश्रु मुंचंती राममैक्षत । तावत्स रामो राजेंद्रो नरयानमधिश्रितः
प्राप्तः स्वमातुर्भवनं कैकेय्याः सुनयः पुरः । कैकेय्यपि त्रपाभारनम्रा रामं पुरःस्थितम्
नोवाच किंचिन्महतीं चिंतां प्राप्तवती मुहुः । सूर्यवंशध्वजो रामो मातरं वीक्ष्य लज्जिताम्
उवाच सांत्वयंस्तां च वाक्यैर्विनयमिश्रितैः । श्रीराम उवाच। मातर्मया वनं गत्वा सर्वमाचरितं तथा
अधुना करवै किं वा त्वदाज्ञातो जनन्यहो । मया न्यूनं कृतं नास्ति कथं मां नेक्ष्यसे पुनः
आशीर्भिरभिनंद्यैनं भरतं मां च वीक्षय । इति श्रुत्वापि तद्वाक्यं सा नम्रवदनानघ
शनैः शनैः प्रत्युवाच राम गच्छ स्वमालयम् । रामोऽपि श्रुत्वा वचनं जनन्याः पुरुषोत्तमः
नमस्कृत्य ययौ गेहं सुमित्रायाः कृपानिधिः । सुमित्रा पुत्रसहितं रामं दृष्ट्वा महामनाः
चिरंजीव चिरंजीव ह्याशीर्भिरिति चाभ्यधात् । मातुश्च रामभद्रोऽपि चरणौ प्रणिपत्य च
परिष्वज्य मुदायुक्तो जगाद वचनं पुनः । रत्नगर्भे मम भ्रात्रा केनापि न कृतं तथा
यथायमकरोद्धीमान्ममदुःखापनोदनम्
रावणेन हृता सीता मया यत्प्राप्यते पुनः । मातस्तत्सर्वमाविद्धि लक्ष्मणस्य विचेष्टितम्
दत्तामाशिषमागृह्य शिरसायं सुमित्रया । निजमातुश्च भवनं प्रययौ विबुधैर्वृतः
मातरं वीक्ष्य हृषितां निजदर्शनलालसाम् । स्वयानादवरुह्याशु चरणावग्रहीद्धरिः
माता तद्दर्शनोत्कंठा विह्वलीकृतमानसा । परिष्वज्य परिष्वज्य रामं मुदमवाप सा
शरीरे रोमहर्षोऽभूद्गद्गदा वागभूत्तदा । हर्षाश्रूणि तु सोष्णानि प्रवाहं प्रापुरापदात्
जननीं वीक्ष्य विनयी ताटंकद्वयवर्जिताम् । कराकल्प पदाकल्परहितां बिभ्रतीं तनुम्
किंचित्स्वदर्शनाद्धृष्टां कृशांगीं तां स शोकभाक् । दुःखस्य समयो नायमिति मत्वा जगाद ताम्
श्रीराम उवाच। मातर्मया त्वच्चरणौ चिरकालं न सेवितौ । ततः क्षमस्वापराधं भाग्यहीनस्य वै मम
ये पुत्रा मातापित्रोर्न शुश्रूषायां समुत्सुकाः । ते मंतव्याः परा मातः कीटका रेतसो भवाः
किं कुर्वे जनकाज्ञातो गतो वै दंडकं वनम् । तत्रापि त्वत्कृपापांगात्तीर्णोऽस्मि दुःखसागरम्
रावणेन हृता सीता लंकायां गमिता पुनः । त्वत्कृपातो मया लब्धा तं हत्वा राक्षसेश्वरम्
सीतेयं त्वच्चरणयोः पतिता वै पतिव्रता । संभावयाशु चकितां त्वत्पादार्पितमानसाम्
इति श्रुत्वा तु तद्वाक्यं पादयोः पतितां स्नुषाम् । आशीर्भिरभियुज्यैनां बभाषे तां पतिव्रताम्
सीते स्वपतिना सार्द्धं चिरं विलस भामिनि । पुत्रौ प्रसूय च कुलं स्वकं पावय पावने
त्वत्सदृश्यः पतिपराः पतिदुःखसुखानुगाः । भवंति दुःखभागिन्यो न हि सत्यं जगत्त्रये
विदेहपुत्रि स्वकुलं त्वया पावितमात्मना । रामपादाब्जयुगलमनुयांत्या महावनम्
किं चित्रं यत्पुमांसस्तु वैरिकोटिप्रभंजनाः । येषां गेहे सती भार्या स्वपतिप्रियवाञ्छिका