इति शृण्वञ्छुभां वाचं पौराणां हर्षितांगिनाम् । रामदर्शनसंजात पुलकोद्भेद शोभिनाम्
प्रविवेश वरं मार्गं रथ्याचत्वरभूषितम् । चंदनोदकसंसिक्तं पुष्पपल्लवसंयुतम्
तदा पौरांगनाः काश्चिद्गवाक्षबिलमाश्रिताः । रघुनाथस्वरूपेक्षा जातकामा अथाब्रुवन्
पौरांगना ऊचुः। धन्या अभूवन्बत भिल्लकन्या वनेषु या राममुखारविंदम् । स्वलोचनेंदीवरकैरथापिबन्स्वभाग्यसंजातमहोदया इमाः
धन्यं मुखं पश्यत वीरधाम्नः श्रीरामदेवस्य सरोजनेत्रम् । यद्दर्शनं धातृमुखाः सुरा अपि प्रापुर्महद्भाग्ययुता वयंत्वहो
एतन्मुखं पश्यत चारुहासं किरीटसंशोभिनिजोत्तमांगम् । बंधूकधिक्कारलसच्छविप्रदं दंतच्छदं बिभ्रतमुच्चनासम्
इति गदितवतीस्ताः स्नेहभारेण रामा नलिनदलसदृक्षैर्नेत्रपातैर्निरीक्ष्य । निखिलगुरुरनूनप्रेमभारं नृलोकं जननिगृहमियेष प्रोषितांगेन हृष्टः
वात्स्यायन उवाच। भुजगाधीश्वरेशान धराभारधरक्षम । शृण्वेकं संशयं मह्यं कृपया कथयस्व तम्
रघुनाथस्य गमनं वनं प्रति यदा ह्यभूत् । तदा प्रभृति देहेन स्थिता शून्येन चेतसा
तद्विप्रयोगविधुरा कृशदेहातिदुःखिता । सुमुखान्मंत्रिणः श्रुत्वा रघुनाथं समागतम्
कथं जहर्ष किमभूत्कीदृशं तत्र चिह्नितम् । रामचंद्रस्य संदेशहर्तारं किमुवाच सा
एतन्मे संशयं छिंधि रघुनाथगुणोदयम् । यथावच्छृण्वते मह्यं कथयस्व प्रसादतः
शेष उवाच । साधुपृष्टं महाभाग द्विजवर्यपुरस्कृत । तन्मे निगदतः साक्षाच्छृणुष्वैकमनाः किल
सा वै तद्वदनांभोज च्युतं रामागमामृतम् । पीत्वा पीत्वा बभूवाहो स्थगितांगेन विह्वला
किं मे स्वप्नो विमूढायाः किं वा भ्रमकरं वचः । ममवै मंदभाग्यायाः कथं रामेक्षणं पुनः
बहुना तपसा कृत्वा प्राप्तोऽयं वै सुतः शिशुः । केनचिन्मम पापेन विप्रयोगं गतः पुनः
सुमंत्रिन्कुशली रामः सीतालक्ष्मणसंयुतः । कथं मां स्मरते वीरो वनचारी सुदुःखिताम्
इति सा विललापोच्चै रघुनाथस्मृतिं गता । न निवेद निजं किंचित्परकीयं विमोहिता । सुमुखोऽपि तथा दृष्ट्वा दुःखितां मातरं भृशम्
वीजयामास वासोग्रैः संज्ञामाप च सा पुनः । उवाच जननीं सौम्यं वचोहर्षकरं मुहुः
रघुनाथागमस्मार हृष्टां तां व्यदधात्पुनः । मातर्विद्धि गृहं प्राप्तं रघुनाथं सलक्ष्मणम्
सीतया सहितं पश्य चाशीर्भिरभियुंक्ष्व च । इति तथ्यं वचः श्रुत्वा सुमुखेन प्रभाषितम्
यादृशं हर्षमापेदे तादृशं वेद्म्यहं नहि । उत्थाय चाजिरे प्राप्ता रोमांचिततनूरुहा
हर्षविह्वलितांग्यश्रु मुंचंती राममैक्षत । तावत्स रामो राजेंद्रो नरयानमधिश्रितः
प्राप्तः स्वमातुर्भवनं कैकेय्याः सुनयः पुरः । कैकेय्यपि त्रपाभारनम्रा रामं पुरःस्थितम्
नोवाच किंचिन्महतीं चिंतां प्राप्तवती मुहुः । सूर्यवंशध्वजो रामो मातरं वीक्ष्य लज्जिताम्
उवाच सांत्वयंस्तां च वाक्यैर्विनयमिश्रितैः । श्रीराम उवाच। मातर्मया वनं गत्वा सर्वमाचरितं तथा
अधुना करवै किं वा त्वदाज्ञातो जनन्यहो । मया न्यूनं कृतं नास्ति कथं मां नेक्ष्यसे पुनः
आशीर्भिरभिनंद्यैनं भरतं मां च वीक्षय । इति श्रुत्वापि तद्वाक्यं सा नम्रवदनानघ
शनैः शनैः प्रत्युवाच राम गच्छ स्वमालयम् । रामोऽपि श्रुत्वा वचनं जनन्याः पुरुषोत्तमः
नमस्कृत्य ययौ गेहं सुमित्रायाः कृपानिधिः । सुमित्रा पुत्रसहितं रामं दृष्ट्वा महामनाः