मातः क्षमस्व यदघं मया कृतमबुद्धिना । त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः
जानक्यापि महाभागा देवरं वीक्ष्य सादरम् । आशीर्भिरभियुज्याथ समपृच्छदनामयम्
विमानवरमारूढास्ते सर्वे नभसोंऽगणे । क्षणादालोकयांचक्रे निकटे स्वपितुः पुरीम्
शेष उवाच। दृष्ट्वा रामो राजधानीं निजलोकनिवासिनीम् । जहर्ष मतिमान्वीरश्चिरदर्शनलालसः
भरतोऽपि स्वकं मित्रं सुमुखं नगरं प्रति । प्रेषयामास सचिवं नगरोत्सवसिद्धये
भरत उवाच। कुर्वंतु लोकास्त्वरितं रघुनाथागमोत्सवम् । मंदिरे मंदिरे रम्यं कृतकौतुकचित्रकम्
विपांसुका राजमार्गाश्चंदनद्रवसिंचिताः । प्रसूनभरसंकॢप्ता हृष्टपुष्टजनावृताः
विचित्रवर्णध्वजभा चित्रिताखिलस्वांगणाः । मेघागमे धनुरिव पश्यंत्वेव वलीमुखाः
प्रतिगेहं तु लोकानां कारयंत्वगरूक्षणम् । यद्धूमं वीक्ष्य शिखिनो नृत्यं कुर्वंतु लीलया
हस्तिनो मम शैलाभानाधोरणसुयंत्रितान् । विचित्रयंतु बहुशो गैरिकाद्युपधातुभिः
वाजिनश्चित्रिता भूयः सुशोभंतु मनोजवाः । यद्वेगवीक्षणादेव गर्वं त्यजति स्वर्हयः
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः । गजोपरि समारूढा मुक्ताभिर्विकिरंतु च
ब्राह्मण्यः पात्रहस्ताश्च दूर्वाहारिद्रसंयुताः । सुवासिन्यो महाराजं रामं नीराजयंतु ताः
कौसल्यापुत्रसंयोगसंदेश विधुरा सती । हर्षं प्राप्नोतु सुकृशा तदीक्षणसुलालसा
इत्येवमादिरचनाः पुरशोभाविधायिकाः । करोतु जनता हृष्टा रामस्यागमनं प्रति
शेष उवाच। इति श्रुत्वा ततो वाक्यं सुमुखो मंत्रवित्तमः । प्रययौ नगरीं कर्तुं कृतकौतुकतोरणाम्
गत्वाथ नगरीं तां वै मंत्री तु सुमुखाभिधः । ख्यापयामास लोकानां रामागममहोत्सवम्
लोकाः श्रुत्वा पुरीं प्राप्तं रघुनाथं सुहर्षिताः । पूर्वं तदीय विरहत्यक्तभोगसुखादयः
ब्राह्मणा वेदसंपन्नाः पवित्रा दर्भपाणयः । धौतोत्तरीयवलिता जग्मुः श्रीरघुनायकम्
क्षत्रिया ये शूरतमा धनुर्बाणधरा वराः । संग्रामे बहुशो वीरा जेतारो ययुरप्यमुम्
वैश्या धनसमृद्धाश्च मुद्राशोभितपाणयः । शुभ्रवस्त्रपरीधाना अभिजग्मुर्नरेश्वरम्
शूद्रा द्विजेषु ये भक्ताः स्वीयाचारसुनिष्ठिताः । वेदाचाररता ये वै तेऽपिजग्मुः पुरीपतिम्
ये ये वृत्तिकरा लोकाः स्वे स्वे कर्मण्यधिष्ठिताः । स्वकं वस्तु समादाय ययुः श्रीरामभूपतिम्
इत्थं भूपतिसंदेशात्प्रमोदाप्लवसंयुताः । नाना कौतुकसंयुक्ता आजग्मुर्मनुजेश्वरम्
शेष उवाच। रघुनाथोऽपि सकलैर्दैवतैः स्वस्वयानगैः । परीतः प्रविवेशोच्चैः पुरीं रचितमोहनाम्
प्लवंगाः प्लवनैर्युक्ता आकाशपथचारिणः । स्वस्वशोभापरीतांगाश्चानुजग्मुः पुरोत्तमम्
पुष्पकादवरुह्याशु नरयानमथारुहत् । सीतया सहितो रामः परिवारसमावृतः
अयोध्यां प्रविवेशाथ कृतकौतुकतोरणाम् । हृष्टपुष्टजनाकीर्णामुत्सवैः परीभूषिताम्
वीणापणवभेर्यादिवादित्रैराहतैर्भृशम् । शोभमानः स्तूयमानः सूतमागधबंदिभिः
जय राघवरामेति जय सूर्यकुलांगद । जय दाशरथे देव जयताल्लोकनायकः