जगाद मम तन्नास्ति यत्तुभ्यं दीयते मया । दासोऽस्मि जन्मपर्यंतं रामसंदेशहारकः
वसिष्ठोऽपि गृहीत्वार्घ्यं मंत्रिवृद्धाः सुहर्षिताः । जग्मुस्ते रामचंद्रं च हनुमद्दर्शिताध्वना
दृष्ट्वा दूरात्समायांतं रामचंद्रं मनोरमम् । पुष्पकासनमध्यस्थं ससीतं सहलक्ष्मणम्
रामोऽपि दृष्ट्वा भरतं पादचारेण संगतम् । जटावल्कलकौपीन परिधानसमन्वितम्
अमात्यान्भ्रातृवेषेण समवेषाञ्जटाधरान् । नित्यं तपः क्लिष्टतया कृशरूपान्ददर्श ह
रामोऽपि चिंतयामास दृष्ट्वा वै तादृशं नृपम् । अहो दशरथस्यायं राजराजस्य धीमतः
पुत्रः पदातिरायाति जटावल्कलवेषभृत् । न दुःखं तादृशं मेऽन्यद्वनमध्यगतस्य हि
यादृशं मद्वियोगेन चैतस्य परिवर्त्तते । अहो पश्यत मे भ्राता प्राणात्प्रियतमः सखा
श्रुत्वा मां निकटे प्राप्तं मंत्रिवृद्धैः सुहर्षितैः । द्रष्टुं मां भरतोऽभ्येति वसिष्ठेन समन्वितः
इति ब्रुवन्नरपतिः पुष्पकान्नभसोंऽगणात् । बिभीषणहनूमद्भ्यां लक्ष्मणेन कृतादरः
यानादवतताराशु विरहात्क्लिन्नमानसः । भ्रातर्भ्रातः पुनर्भ्रातर्भ्रातर्भ्रातर्वदन्मुहुः
दृष्ट्वा समुत्तीर्णमिमं रामचंद्रं सुरैर्युतम् । भरतो भ्रातृविरहक्लिन्नं धीमान्ददर्श ह । हर्षाश्रूणि प्रमुंचंश्च दंडवत्प्रणनाम ह
रघुनाथोऽपि तं दृष्ट्वा दंडवत्पतितं भुवि । उत्थाप्य जगृहे दोर्भ्यां हर्षालोकसमन्वितः
उत्थापितोऽपि हि भृशं नोदतिष्ठद्रुदन्मुहुः । रामचंद्रपदांभोजग्रहणासक्तबाहुभृत्
भरत उवाच। दुराचारस्य दुष्टस्य पापिनो मे कृपां कुरु । रामचंद्र महाबाहो कारुण्यात्करुणानिधे
यस्ते विदेहजा पाणिस्पर्शं क्रूरममन्यत । स एव चरणो राम वने बभ्राम मत्कृते
इत्युक्त्वाश्रुमुखो दीनः परिरभ्य पुनः पुनः । प्रांजलिः पुरतस्तस्थौ हर्षविह्वलिताननः
रघुनाथस्तमनुजं परिष्वज्य कृपानिधिः । प्रणम्य च महामंत्रिमुख्यानापृच्छ्य सादरम्
भरतेन समं भ्रात्रा पुष्पकासनमास्थितः । सीतां ददर्श भरतो भ्रातृपत्नीमनिंदिताम्
अनसूयामिवात्रेः किं लोपामुद्रां घटोद्भुवः । पतिव्रतां जनकजाममन्यतननाम च
मातः क्षमस्व यदघं मया कृतमबुद्धिना । त्वत्सदृश्यः पतिपराः सर्वेषां साधुकारिकाः
जानक्यापि महाभागा देवरं वीक्ष्य सादरम् । आशीर्भिरभियुज्याथ समपृच्छदनामयम्
विमानवरमारूढास्ते सर्वे नभसोंऽगणे । क्षणादालोकयांचक्रे निकटे स्वपितुः पुरीम्
शेष उवाच। दृष्ट्वा रामो राजधानीं निजलोकनिवासिनीम् । जहर्ष मतिमान्वीरश्चिरदर्शनलालसः
भरतोऽपि स्वकं मित्रं सुमुखं नगरं प्रति । प्रेषयामास सचिवं नगरोत्सवसिद्धये
भरत उवाच। कुर्वंतु लोकास्त्वरितं रघुनाथागमोत्सवम् । मंदिरे मंदिरे रम्यं कृतकौतुकचित्रकम्
विपांसुका राजमार्गाश्चंदनद्रवसिंचिताः । प्रसूनभरसंकॢप्ता हृष्टपुष्टजनावृताः
विचित्रवर्णध्वजभा चित्रिताखिलस्वांगणाः । मेघागमे धनुरिव पश्यंत्वेव वलीमुखाः
प्रतिगेहं तु लोकानां कारयंत्वगरूक्षणम् । यद्धूमं वीक्ष्य शिखिनो नृत्यं कुर्वंतु लीलया
हस्तिनो मम शैलाभानाधोरणसुयंत्रितान् । विचित्रयंतु बहुशो गैरिकाद्युपधातुभिः